मत्स्यपुराणम्/अध्यायः १८
एकोद्दिष्टश्राद्धप्रकरणम्।
सूत उवाच।
एकोद्दिष्टमतो वक्ष्ये यदुक्तं चक्रपाणिना।
मृते पुत्रैर्यथाकार्यमाशौचञ्च पितर्यपि।। १८.१ ।।
दशाहं शावमाशौचं ब्राह्मणेषु विधीयते।
क्षत्रियेषु दश द्वेच पक्षं वैश्येषु चैवहि।। १८.२ ।।
शूद्रेषु मासमाशौचं सपिण्डेषु विधीयते।
नैशम्वाऽकृतचूडस्य त्रिरात्रम्परतः स्मृतम्।।१८.३ ।।
जननेऽप्येवमेव स्यात् सर्ववर्णेषु सर्वदा।
तथास्थिसञ्चयादूर्ध्वमङ्गस्पर्शो विधीयते।। १८.४ ।।
प्रेताय पिण्डददानन्तु द्वादशाहं समाचरेत्।
पाथेयं तस्य तत् प्रोक्तं यतः प्रीतिकरं महत्।। १८.५ ।।
तस्मात् प्रेतपुरं प्रेतो द्वादशाहं न नीयते।
गृहं पुत्रं कलत्रञ्च द्वादशाहं प्रपश्यति।। १८.६ ।।
तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा।
सर्वदाहोपशान्त्यर्थमध्वश्रमविनाशनम्।।१८.७ ।।
तत एकादशाहे तु द्विजानेकादशैव तु।
क्षत्रादिः सूतकान्ते तु भोजयेदयुतो द्विजान्।। १८.८ ।।
द्वितीयेऽह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत्।
आवाहनाग्नौकरणं दैवहीनं विधानतः।। १८.९ ।।
एकं पवित्रमेकोर्घ एकः पिण्डो विधीयते।
उपतिष्ठतमित्येतद्देयं पश्चात्तिलोदकम्।।१८.१० ।।
स्वादितं विकिरेद् ब्रूयाद्विसर्गे चाभिरम्यताम्।
शेषं पूर्ववदत्रापि कार्यं वेदविदा पितुः।। १८.११ ।।
अनेन विधिना सर्वमनुमासं समाचरेत्।
सूतकान्ताद्वितीयेऽह्नि शय्यां दद्याद्विलक्षणाम्।। १८.१२ ।।
काञ्चनं पुरुषं तद्वत् फलवस्त्रसमन्विताम्।
संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः।। १८.१३ ।।
वृषोत्सर्गं प्रकुर्वीत देया च कपिला शुभा।
उदकुम्भश्च दातव्यो भक्ष्यभोज्यसमन्वितः।। १८.१४ ।।
यावदब्दं नरश्रेष्ठ!। सतिलोदकपूर्वकम्।
ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत्।। १८.१५ ।।
सपिण्डीकरणादूर्ध्वं प्रेतः पार्वणभाग् भवेत्।
वृद्धिपूर्वेषु योग्यश्च गृहस्थश्च भवेत्ततः।। १८.१६ ।।
सपिण्डीकरणे श्राद्धे देवपूर्वं नियोजयेत्।
पितॄनेवासयेत्तत्र पृथक् प्रेतं विनिर्दिशेत्।। १८.१७ ।।
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम्।
अर्घार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत्।। १८.१८ ।।
तद्वत्संकल्प्य चतुरः पिण्डान् पिण्डप्रदस्तदा।
ये समाना इति द्वाभ्यामन्त्यन्तु विभजेत्त्रिधा।। १८.१९ ।।
चतुर्थस्य पुनः कार्यं न कदाचिदतो भवेत्।
ततः पितृत्वमापन्नः सर्वतस्तुष्टिमागतः।। १८.२० ।।
अग्निष्वात्तादिमध्यत्त्वं प्राप्नोत्यमृतमुत्तमम्।
सपिण्डीकरणादूर्ध्वं तस्मै तस्मान्नदीयते।। १८.२१ ।।
पितृष्वेव तु दातव्यं तत् पिण्डो येषु संस्थितः।
ततः प्रभृति संक्रान्तावुपरागादि पर्वसु।। १८.२२ ।।
त्रिपिण्डमाचरेच्छ्राद्धमेकोद्दिष्टं मृताहनि।
एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत्।। १८.२३ ।।
सदैव पितृहा स स्यान्मातृभ्रातृविनाशकः।
मृताहे पार्वणं कुर्वन्नधोऽधो याति मानवः।। १८.२४ ।।
संपृक्तेष्वाकुली भावः प्रेतेषु तु यतो भवेत्।
प्रतिसंवत्सरं तस्मादेकोद्दिष्टं समाचरेत्।। १८.२५ ।।
यावदब्दन्तु यो दद्यादुदकुम्भं विमत्सरः।
प्रेतायान्नसमायुक्तं सोऽश्वमेधफलं लभेत्।। १८.२६ ।।
आमश्राद्धं यथा कुर्याद्विधिज्ञः श्राद्धदस्तदा।
तेनाग्नौ करणं कुर्यात् पिण्डांस्तेनैव निर्वपेत्।। १८.२७ ।।
त्रिभिः सपिण्डिकरणे अशेषत्रितये पिता।
यदा प्राप्स्यति कालेन तदा मुच्येत बन्धनात्।। १८.२८ ।।
मुक्तोऽपि लेपभागित्वं प्राप्नोति कुशमार्जनात्।
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः।।
पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम्।। १८.२९ ।।