महाभारतम्-07-द्रोणपर्व-105
← द्रोणपर्व-104 | महाभारतम् सप्तमपर्व महाभारतम्-07-द्रोणपर्व-105 वेदव्यासः |
द्रोणपर्व-106 → |
|
सञ्जयेन रथानां ध्वजवर्णनम्।। 1 ।।
धृतराष्ट्र उवाच।
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया।
पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय।। 5-105-1a
सञ्जय उवाच।
ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम्।
रूपतो वर्णतश्चैव नामतश्च निबोध मे।। 5-105-2a
तेषां तु रथमुख्यानां रथेषु विविधा ध्वजाः।
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः।। 5-105-3a
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः।
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः।। 5-105-4a
अनेकवर्णा विविधा ध्वजाः परमशोभनाः।
ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः।
नानावर्णविराणाभिः शुशुभुः सर्वतो वृताः।। 5-105-5a
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः।
नृत्यमाना व्यदृश्यन्त रङ्गमध्ये विलासिकाः।। 5-105-6a
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ।
दोधूयमाना रथिनां शोभयन्ति महारथान्।। 5-105-7a
सिंहलाङ्गूल उग्रास्यो ध्वजो वानरलक्षणः।
धनञ्जयस्य सङ्ग्रामे प्रत्यदृश्यत भारत।। 5-105-8a
स वानरध्वजो राजन्पताकाभिरलङ्कृतः।
त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः।। 5-105-9a
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत।
ध्वजाघ्रं समपश्याम बालसूर्यसमप्रभम्।। 5-105-10a
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम्।
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्ष्म समुच्छ्रितम्।। 5-105-11a
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजः।
आहवे खं महाराज ददृशे पूरयन्निव।। 5-105-12a
पताकी काञ्चनः स्रग्वी ध्वजः कर्णस्य संयुगे।
नृत्यतीव रथोपस्थे श्वसनेन समीरितः।। 5-105-13a
आचार्यस्य तु पाण्डूनां ब्राह्मणस्य तपस्विनः।
गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः।। 5-105-14a
स तेन भ्राजते राजन्गोवृषेण महारथः।
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजता।। 5-105-15a
मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान्।
व्याहरिष्यन्निवातिष्ठत्सेनाग्रमुपशोभयन्।। 5-105-16a
तेन तस्य रथो भाति मयूरेण महात्मनः।
यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता।। 5-105-17a
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव।
सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम्।। 5-105-18a
सा सीता भ्राजते तस्य रथमास्थाय मारिष।
सर्वबीजविरूढेव यथा सीता श्रिया वृता।। 5-105-19a
वराहः सिन्धुराजस्य राजतोऽभिविराजते।
ध्वजाग्रे लोहिताङ्गाभो हेमजालपरिष्कृतः।। 5-105-20a
शुशुभे केतुना तेन राजतेन जयद्रथः।
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते।। 5-105-21a
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः।
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते।। 5-105-22a
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते।
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः।। 5-105-23a
शलस्य तु महाराज राजतो द्विरदो महान्।
केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः।। 5-105-24a
स केतुः शोभयामास सैन्यं ते भरतर्षभ।
यथा श्वेतो महानागो देवराजचमूं तथा।। 5-105-25a
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः।
किङ्किणीशतसंहादो भ्राजंश्चित्रो रथोत्तमे।। 5-105-26a
व्यभ्राजत भृशं राजन्पुत्रस्तव विशाम्पते।
ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा।। 5-105-27a
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः।
व्यदीपयंस्ते पृतनां युगान्तादित्यसन्निभाः।। 5-105-28a
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः।
अदीप्यतार्जुनो येन हिमवानिव शम्भुना।। 5-105-29a
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः।
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः।। 5-105-30a
तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः।
गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव।। 5-105-31a
तवापराधाद्राजानो निहता बहुशो युधि।
नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः।। 5-105-32a
तेषामासीद्व्यातिक्षेपो गजर्तामितरेतरम्।
दुर्योधनमुखानां च पाण्डूनामृषभस्य च।। 5-105-33a
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः।
यदेको बहुभिः सार्घं समागच्छदभीतवत्।। 5-105-34a
अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः।
जिगीषुस्तान्नरव्याघ्रो जिघांसुश्च जयद्रथम्।। 5-105-35a
तत्रार्जुनो नरव्याघ्रः शरैर्मुक्तैः सहस्रशः।
अदृश्यांस्तावकान्योधान्प्रचक्रे शत्रुतापनः।। 5-105-36a
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः।
अदृश्यं समरे चक्रुः सायकौघैः समन्ततः।। 5-105-37a
संवृते नरसिंहैस्तु कूरूणामृषभेऽर्जुने।
महानासीत्समुद्भूतस्तस्य सैन्यस्य निःस्वनः।। 5-105-38a
।। इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि
चतुर्दशदिवसयुद्धे पञ्चाधिकशततमोऽध्यायः।। 105 ।।
5-105-2 रूपमाकारः।। 5-105-10 ध्वजाग्रं ध्वजमुख्यम्।। 5-105-11 काञ्चनम् काञ्चनमयम्।। 5-105-16 व्याहरिष्यन्वदिष्यन्।। 5-105-33 व्यतिक्षेपः अन्योन्याभिघातः।। 5-105-105 पञ्चाधिकशततमोऽध्यायः।।
द्रोणपर्व-104 | पुटाग्रे अल्लिखितम्। | द्रोणपर्व-106 |