महाभारतम्-07-द्रोणपर्व-138
महाभारतम्-07-द्रोणपर्व-138 [[लेखकः :|]] |
|
धृतराष्ट्र उवाच ।7-138-1x
महानपनयः सूत ममैवात्र विशेषतः ।7-138-1a
स इदानीमनुप्राप्तो मन्ये सञ्जय शोचतः ॥7-138-1b
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् ।7-138-2a
इदानीमत्र किं कार्य प्रकरिष्यामि सञ्जय ॥7-138-2b
यथा ह्येष क्षयो वृत्तो ममापनयसंभवः । 7-138-3a
वीराणां तन्ममाचश्व स्थिरीभूतोऽस्मि सञ्जय ॥7-138-3b
सञ्जय उवाच
कर्णाभीमौ महाराज पराक्रान्तौ महाबलौ ।7-138-4a
वाणवर्षाण्यसृजतां वृष्टिमन्ताविवाम्बुदौ ॥7-138-4b
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः ।7-138-5a
विविशुः कर्णमासाद्य च्छिन्दन्त इव जीवितम् ।7-138-5b
तथैव कर्णनिर्मुक्ताः शरा बर्हिणवाससः ।7-38-6a
छादयांचक्रिरे वीरं शतशोऽथ सहस्रशः ॥7-138-6b
तयोः शरैर्महाराज संपतद्भिः समन्ततः ।7-138-7a
बभूव तत्र सैन्यानां संक्षोभः सागरोत्तरः ॥7-138-7b
भीमचापच्युतैर्वाणैस्तव सैन्यमरिंदम् ।7-138-8a
अवध्यत चमूमध्ये घोररुशीविषोषमैः ॥7-138-8b
वारणैः पतितै राजन्वाजिभिश्च नरैः सह ।7-138-9a
अदृश्यत मही कीर्णा वातभग्नैरिव द्रुमैः ।7-138-9b
ते वध्यमानाः समरे भीमचापच्युतैः शरैः ॥7-138-10a
ते शूरा हतभूयिष्ठा हताश्चरथवारणाः ।7-138-10b
उत्सृज्य भीमकर्णै च सर्वतो व्यद्रवन्दिशः ।7-138-11a
नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः ।7-138-11b
यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ॥7-138-12a
एवं ब्रवाणा योधास्ते तावका भयपीडिताः ।7-138-12b
शारपातं समुत्सृज्य स्थिता युध्ददिदृक्षवः ॥7-138-13a
ततः ग्रावर्तत नदी घोररुपा रणाजिरे ।7-138-13b
शूराणां हर्पजननी भीरुणां भयवर्धिनी ॥7-138-14a
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा ।7-138-14b
संवृता गतसत्वैश्च मनुष्यगजवाजिभिः ॥7-138-15a
सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः ।7-138-15b
स्यन्दनैरपविध्दैश्च भग्नचक्राक्षकूवरैः ॥7-138-16a
जातरुपरिष्कारैर्धनुर्भिः सुमहास्वनैः ।7-138-16b
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ।7-138-17a
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः ।7-138-17b
प्रासतोमरसंघातैः खङ्गैश्च सपरश्वथैः ॥7-138-18a
सुवर्णविकृतैश्चापि गदामुसलपट्टसैः ।7-138-18b
वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि ॥7-138-19a
शतघ्निभिश्च चित्राभिर्वभौ भारतमेदिनी ।7-138-19b
कनकाङ्गदहारैश्च कुण्डलैर्मुकुटैस्तथा ॥7-138-20a
वलयैरपविध्दैश्च तत्रैवाङ्गुलिवेष्टकैः ।7-138-20b
चूडामणिभिरुष्णीषैः खर्णसूत्रैश्च मारिष ॥7-138-22a
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ।7-138-23a
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि ॥7-138-23b
गजाश्चमनुजैर्भिन्नैः शोणिताक्तैश्च पत्रिभिः ।7-138-24a
तैश्तैश्च विविधैर्भिन्नैस्तत्रतत्र वसुन्धरा ॥7-138-24b
परतितैरपविध्दैश्च विबभौ द्यौरिव ग्रहैः ।7-138-25a
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम् ॥ 7-138-25b
दृष्ट्वा चारणसिध्दानां विस्मयः समजायत ।7-138-26a
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे ॥7-138-26b
आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् ।7-138-27a
निपातितध्वजरथं हतवाजिनरद्विपम्॥ 7-138-27b
गजाभ्यां संप्रयुक्ताभ्यामासीन्नलवनं यथा ।7-138-28a
तथारुपं महत्सैन्यमासीत्तव नराधिप ॥7-138-28b
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे ॥7-138-29a