मत्स्यपुराणम्/अध्यायः ५
दक्षादूर्ध्वं मैथुनतः सृष्टिः।
ऋषय ऊचुः।
देवानां दानवानाञ्च गन्धर्वोरगरक्षसाम्।
उत्पत्तिविस्तरेणैव सूत ब्रूहि यथातथम्।। ५.१ ।।
सूत उवाच।
सङ्कल्पाद्दर्शनात् स्पर्शात् पूर्वेषां सृष्टिरुच्यते।
दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसम्भवा।। ५.२ ।।
प्रजासृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा।
यथा ससर्ज चैवादौ तथैव श्रृणुत द्विजाः!।। ५.३ ।।
यदा तु सृजतस्तस्य देवर्षिगणपन्नगात्।। ५.४ ।।
तांस्तु दृष्ट्वा महाभागः सिसृक्षुर्विविधाः प्रजाः।
नारदः प्राह हर्यश्वान् दक्षपुत्रान् समागतान्।। ५.५ ।।
भुवः प्रमाणं सर्वत्र ज्ञात्वोर्ध्वमध एव च।
ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः।। ५.६ ।।
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशं।
अद्यापि न निवर्त्तन्ते समुद्रादिव सिन्धवः।। ५.७ ।।
हर्यश्वेषु प्रणष्टेषु पुनर्दक्षः प्रजापतिः।
वीरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः।। ५.८ ।।
शबला नाम ते विप्राः समेताः सृष्टिहेतवः।
नारदोऽनुगतान् प्राह पुनस्तान् पूर्ववत्सतान्
भुवः प्रमाणं सर्वत्र ज्ञात्वा भ्रातॄनथो पुनः।। ५.९ ।।
आगत्य चाथ सृष्टिञ्च करिष्यथ विशेषतः।
तेऽपि तेनैव मार्गेण जग्मुर्भ्रातॄन् यथा पुरा।। ५.१० ।।
ततः प्रभृति न भ्रातुः कनीयान् मार्गमिच्छति।
अन्विषन्दुःखमाप्नोति तेन तत्परिवर्जयेत्।। ५.११ ।।
ततस्तेषु विनष्टेषु षष्टिं कन्याः प्रजापतिः।
वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा।। ५.१२ ।।
प्रादात्स दश धर्माय कश्यपाय त्रयोदश।
सप्तविंशति सोमाय चतस्त्रोऽरिष्टनेमये (मिने)।। ५.१३ ।।
द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते।
द्वे चैवाङ्गिरसे तद्वत्तासान्नामानि विस्तरात्।। ५.१४ ।।
श्रृणुध्वं देवमातॄणां प्रजाविस्तरमादितः।
मरुत्वती वसूर्यामी लम्बा भानुररुन्धती।। ५.१५ ।।
सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च भामिनी।
धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोधत।। ५.१६ ।।
विश्वेदेवांस्तु विश्वायाः साध्या साध्यानजीजनत्।
मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा।। ५.१७ ।।
भानोस्तु भानवस्तद्वन् मुहूर्त्तायां मुहूर्तकाः।
लम्बायां घोषनामानो नागवीथी तु यामिजा।। ५.१८ ।।
पृथिवीतलसम्भूतमरुन्धत्यामजायत ।
सङ्कल्पायास्तु सङ्कल्पो वसुसृष्टिन्निबोधत।। ५.१९ ।।
ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतोदिशम्।
वसवस्ते समाख्यातास्तेषां सर्गन्निबोधत।। ५.२० ।।
आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः।। ५.२१ ।।
आपस्य पुत्राश्चत्वारः शान्तो वै दण्ड एव च।
शाम्बोऽथ मणिवक्त्रश्च यज्ञरक्षाधिकारिणा।। ५.२२ ।।
ध्रुवस्य कालपुत्रस्तु वर्चाः सोमादजायत।
द्रविणो हव्यवाहश्च धरपुत्रावुभौ स्मृतौ।। ५.२३ ।।
कल्याणिन्यां ततः प्राणो रमणः शिशिरोऽपि च।
मनोहराधरात्पुत्रानवापाथ हरेः सुता।। ५.२४ ।।
शिवा मनोजवं पुत्रमविज्ञातगतिं तथा!
अवापाचानलात् पुत्रावग्निप्रायगुणौ पुनः।। ५.२५ ।।
अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः।। ५.२६ ।।
अपत्यं कृत्तिकानां तु कार्तिकेयस्ततः स्मृतः।
प्रत्यूष स ऋषेः पुत्रो विभुर्नाम्नाथ देवलः।
विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः।। ५.२७ ।।
प्रासादभवनोद्यानप्रतिमाभूषणादिषु।
तडागारामकूपेषु स्मृतः सोमरवर्धकिः।। ५.२८ ।।
अजैकपादहिर्बुध्न्य विरूपाक्षोऽथ रैवतः।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः।। ५.२९ ।।
सावित्रश्च जयन्तश्च पिनाकी चापराजितः।
एते रुद्राः समाख्याता एकादश गणेश्वराः।। ५.३० ।।
एतेषां मानसानान्तु त्रिशूलवरधारिणाम्।
कोटयश्चतुराशीतिस्तत्पुत्राश्चाक्षया मताः।। ५.३१ ।।
दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः।
पुत्रपौत्रसुताश्चैते सूरभी गर्भसम्भवाः।। ५.३२ ।।