महाभारतम्-05-उद्योगपर्व-082

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-081 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-082
वेदव्यासः
उद्योगपर्व-083 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

युधिष्ठिरादिभिरनुगम्यमानेन श्रीकृष्णेन रथमधिरुह्य सात्यकिना सह हास्तिनपुरंप्रति प्रस्थानम् ।। 1 ।।

अर्जुन उवाच।

5-82-1x

कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः।
संबन्धी दयितो नित्यमुभयोः पक्षयोरपि ।।

5-82-1a
5-82-1b

पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम्।
समर्थः प्रशमं चैव कर्तुमर्हसि केशव ।।

5-82-2a
5-82-2b

त्वमित्तः पुण्डरीकाक्ष सुयोधनममर्षणम् ।
शान्त्यर्थं भ्रातरं ब्रूया यत्तद्वाच्यममित्रहन् ।।

5-82-3a
5-82-3b

त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम्।
हितं नादास्यते बालो दिष्टस्य वशमेष्यति ।।

5-82-4a
5-82-4b

श्रीभगवानुवाच।

5-82-5x

धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम्।
एष यास्यामि राजानं धृतराष्ट्रमभीप्सया ।।

5-82-5a
5-82-5b

वैशंपायन उवाच।

5-82-6x

ततो व्यपेते तमसि सूर्ये विमल उद्गते ।
मैत्रे मुहूर्ते संप्राप्ते मद्वर्चिषि दिवाकरे ।।

5-82-6a
5-82-6b

कौमुदे मासि रेवत्यां शरदन्ते हिमागमे ।
स्फीतसस्यसुखे काले कल्यः सत्ववतां वरः ।।

5-82-7a
5-82-7b

मङ्गल्याः पुण्यनिर्घोषा वाचः श्रृण्वंश्च सूनृताः ।
ब्राह्मणानां प्रतीतानामृषीणामिव वासवः ।।

5-82-8a
5-82-8b

कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलङ्कृतः ।
उपतस्थे विवस्वन्तं पावकं च जनार्दनः ।।

5-82-9a
5-82-9b

ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च।
अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः ।।

5-82-10a
5-82-10b

तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः।
शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् ।।

5-82-11a
5-82-11b

रथ आरोप्यतां शङ्खश्चक्रं च गदया सह।
उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च ।।

5-82-12a
5-82-12b

दुर्योधनश्च दुष्टात्मा कर्णश्च सहसौबलः ।
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ।।

5-82-13a
5-82-13b

ततस्तन्मतमाज्ञाय केशवस्य पुनःसराः ।
प्रसस्त्नुर्योजयिष्यन्तो रथं चक्रगदाभृतः ।।

5-82-14a
5-82-14b

तं दीप्तमिव कालाग्निमाकाशगमिवाशुगम् ।
सूर्यचन्द्रप्रकाशाभ्यां चक्राभ्यां समलङ्कृतम्।।

5-82-15a
5-82-15b

अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः ।
पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः ।।

5-82-16a
5-82-16b

तरुणादित्यसङ्काशं बृहन्तं चारुदर्शनम् ।
मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् ।।

5-82-17a
5-82-17b

सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम्।
यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् ।।

5-82-18a
5-82-18b

वाजिभिः शैब्यसुग्रीवमेधपुष्पबलाहकैः ।
स्नातैः संपादयामासुः संपन्नैः सर्वसंपदा ।।

5-82-19a
5-82-19b

महिमानं तु कृष्णस्य भूय एवाभिवर्धयन्।
सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः ।।

5-82-20a
5-82-20b

तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् ।
आरुरोह रथं सौरिर्विमानमिव कामगम् ।।

5-82-21a
5-82-21b

ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः।
पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् ।।

5-82-22a
5-82-22b

व्यपोढाभ्रस्ततः कालः क्षणेन समपद्यत।
शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः ।।

5-82-23a
5-82-23b

प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः।
प्रयाणे वासुदेवस्य बभूवुरनुयायिनः ।।

5-82-24a
5-82-24b

मङ्गल्यार्थप्रदैः शब्दैरन्ववर्तन्त सर्वशः।
सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् ।।

5-82-25a
5-82-25b

मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः ।
प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत ।।

5-82-26a
5-82-26b

वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः।
शुकनारदवाल्मीका मरुत्तः कुशिको भृगुः ।।

5-82-27a
5-82-27b

देवब्रह्मर्षयश्चैव कृष्णं यदुसुखावहम्।
प्रदक्षिणमवर्तन्त सहिता वासवानुजम् ।।

5-82-28a
5-82-28b

एवमेतैर्महाभागैर्महर्षिगणसाधुभिः ।
पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति ।।

5-82-29a
5-82-29b

` देवताभ्यो नमस्कृत्य ब्राह्मणान्स्वस्ति वाच्य च।
प्रययौ पुण्डरीकाक्षः सात्यकेन सहाच्युतः ।।

5-82-30a
5-82-30b

तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ।।

5-82-31a
5-82-31b

चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः ।
द्रुपदः काशिराजश्च शिखण्डी च महारथः ।।

5-82-32a
5-82-32b

धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह।
संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् ।।

5-82-33a
5-82-33b

ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः।
राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा ।।

5-82-34a
5-82-34b

यो वै न कामान्न भयान्न लोभान्नार्थकारणात्।
अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः ।।

5-82-35a
5-82-35b

धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः ।
ईश्वरः सर्वभूतानां देवदेवः सनातनः ।।

5-82-36a
5-82-36b

तं सर्वगुणसंपन्नं श्रीवत्सकृतलक्षणम्।
संरिष्वज्य कौन्तेयः सन्देष्टुमुपचक्रमे ।।

5-82-37a
5-82-37b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि द्व्यशीतितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-82-2 प्रतिपाद्यं संपाद्यात्। अनामयं कुशलम् ।। 5-82-5 अभीप्सया प्राप्तुमिच्छया ।। 5-82-7 कौमुदे कर्तिके ।। 5-82-11 प्रतिज्ञाय अनुस्मृत्य ।। 5-82-15 आकाशगः सूर्यः ।। 5-82-18 सूपस्करं शोभनैरुपकरणैरुपेताम्। नन्दिवर्धनं आनन्दवर्धनम् ।। 5-82-19 संपादयामासुः सज्जीकृतवन्तः ।। 5-82-33 संसाधनार्थं कार्यनिष्पत्त्यर्थम् ।। 5-82- 5-82- 5-82-

उद्योगपर्व-081 पुटाग्रे अल्लिखितम्। उद्योगपर्व-083