महाभारतम्-05-उद्योगपर्व-032

विकिस्रोतः तः
← उद्योगपर्व-031 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-032
वेदव्यासः
उद्योगपर्व-033 →

वैशम्पायन उवाच॥

अनुज्ञातः पाण्डवेन प्रययौ सञ्जयस्तदा |
शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः ॥१॥

सम्प्राप्य हास्तिनपुरं शीघ्रं च प्रविवेश ह |
अन्तःपुरमुपस्थाय द्वाःस्थं वचनमब्रवीत् ॥२॥

आचक्ष्व मां धृतराष्ट्राय द्वाःस्थ; उपागतं पाण्डवानां सकाशात् |
जागर्ति चेदभिवदेस्त्वं हि क्षत्तः; प्रविशेयं विदितो भूमिपस्य ॥३॥

द्वाःस्थ उवाच॥

सञ्जयोऽयं भूमिपते नमस्ते; दिदृक्षया द्वारमुपागतस्ते |
प्राप्तो दूतः पाण्डवानां सकाशा; त्प्रशाधि राजन्किमयं करोतु ॥४॥

धृतराष्ट्र उवाच॥

आचक्ष्व मां सुखिनं काल्यमस्मै; प्रवेश्यतां स्वागतं सञ्जयाय |
न चाहमेतस्य भवाम्यकाल्यः; स मे कस्माद्द्वारि तिष्ठेत क्षत्तः ॥५॥

वैशम्पायन उवाच॥

ततः प्रविश्यानुमते नृपस्य; महद्वेश्म प्राज्ञशूरार्यगुप्तम् |
सिंहासनस्थं पार्थिवमाससाद; वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः ॥६॥

सञ्जय उवाच॥

सञ्जयोऽहं भूमिपते नमस्ते; प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् |
अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी; युधिष्ठिरः कुशलं चान्वपृच्छत् ॥७॥

स ते पुत्रान्पृच्छति प्रीयमाणः; कच्चित्पुत्रैः प्रीयसे नप्तृभिश्च |
तथा सुहृद्भिः सचिवैश्च राज; न्ये चापि त्वामुपजीवन्ति तैश्च ॥८॥

धृतराष्ट्र उवाच॥

अभ्येत्य त्वां तात वदामि सञ्जय; अजातशत्रुं च सुखेन पार्थम् |
कच्चित्स राजा कुशली सपुत्रः; सहामात्यः सानुजः कौरवाणाम् ॥९॥

सञ्जय उवाच॥

सहामात्यः कुशली पाण्डुपुत्रो; भूयश्चातो यच्च तेऽग्रे मनोऽभूत् |
निर्णिक्तधर्मार्थकरो मनस्वी; बहुश्रुतो दृष्टिमाञ्शीलवांश्च ॥१०॥

परं धर्मात्पाण्डवस्यानृशंस्यं; धर्मः परो वित्तचयान्मतोऽस्य |
सुखप्रिये धर्महीने न पार्थो; ऽनुरुध्यते भारत तस्य विद्धि ॥११॥

परप्रयुक्तः पुरुषो विचेष्टते; सूत्रप्रोता दारुमयीव योषा |
इमं दृष्ट्वा नियमं पाण्डवस्य; मन्ये परं कर्म दैवं मनुष्यात् ॥१२॥

इमं च दृष्ट्वा तव कर्मदोषं; पादोदर्कं घोरमवर्णरूपम् |
यावन्नरः कामयतेऽतिकाल्यं; तावन्नरोऽयं लभते प्रशंसाम् ॥१३॥

अजातशत्रुस्तु विहाय पापं; जीर्णां त्वचं सर्प इवासमर्थाम् |
विरोचतेऽहार्यवृत्तेन धीरो; युधिष्ठिरस्त्वयि पापं विसृज्य ॥१४॥

अङ्गात्मनः कर्म निबोध राज; न्धर्मार्थयुक्तादार्यवृत्तादपेतम् |
उपक्रोशं चेह गतोऽसि राज; न्नोहेश्च पापं प्रसजेदमुत्र ॥१५॥

स त्वमर्थं संशयितं विना तै; राशंससे पुत्रवशानुगोऽद्य |
अधर्मशब्दश्च महान्पृथिव्यां; नेदं कर्म त्वत्समं भारताग्र्य ॥१६॥

हीनप्रज्ञो दौष्कुलेयो नृशंसो; दीर्घवैरी क्षत्रविद्यास्वधीरः |
एवन्धर्मा नापदः सन्तितीर्षे; द्धीनवीर्यो यश्च भवेदशिष्टः ॥१७॥

कुले जातो धर्मवान्यो यशस्वी; बहुश्रुतः सुखजीवी यतात्मा |
धर्मार्थयोर्ग्रथितयोर्बिभर्ति; नान्यत्र दिष्टस्य वशादुपैति ॥१८॥

कथं हि मन्त्राग्र्यधरो मनीषी; धर्मार्थयोरापदि सम्प्रणेता |
एवंयुक्तः सर्वमन्त्रैरहीनो; अनानृशंस्यं कर्म कुर्यादमूढः ॥१९॥

तवापीमे मन्त्रविदः समेत्य; समासते कर्मसु नित्ययुक्ताः |
तेषामयं बलवान्निश्चयश्च; कुरुक्षयार्थे निरयो व्यपादि ॥२०॥

अकालिकं कुरवो नाभविष्य; न्पापेन चेत्पापमजातशत्रुः |
इच्छेज्जातु त्वयि पापं विसृज्य; निन्दा चेयं तव लोकेऽभविष्यत् ॥२१॥

किमन्यत्र विषयादीश्वराणां; यत्र पार्थः परलोकं ददर्श |
अत्यक्रामत्स तथा संमतः स्या; न्न संशयो नास्ति मनुष्यकारः ॥२२॥

एतान्गुणान्कर्मकृतानवेक्ष्य; भावाभावौ वर्तमानावनित्यौ |
बलिर्हि राजा पारमविन्दमानो; नान्यत्कालात्कारणं तत्र मेने ॥२३॥

चक्षुः श्रोत्रे नासिका त्वक्च जिह्वा; ज्ञानस्यैतान्यायतनानि जन्तोः |
तानि प्रीतान्येव तृष्णाक्षयान्ते; तान्यव्यथो दुःखहीनः प्रणुद्यात् ॥२४॥

न त्वेव मन्ये पुरुषस्य कर्म; संवर्तते सुप्रयुक्तं यथावत् |
मातुः पितुः कर्मणाभिप्रसूतः; संवर्धते विधिवद्भोजनेन ॥२५॥

प्रियाप्रिये सुखदुःखे च राज; न्निन्दाप्रशंसे च भजेत एनम् |
परस्त्वेनं गर्हयतेऽपराधे; प्रशंसते साधुवृत्तं तमेव ॥२६॥

स त्वा गर्हे भारतानां विरोधा; दन्तो नूनं भवितायं प्रजानाम् |
नो चेदिदं तव कर्मापराधा; त्कुरून्दहेत्कृष्णवर्त्मेव कक्षम् ॥२७॥

त्वमेवैको जातपुत्रेषु राज; न्वशं गन्ता सर्वलोके नरेन्द्र |
कामात्मनां श्लाघसे द्यूतकाले; नान्यच्छमात्पश्य विपाकमस्य ॥२८॥

अनाप्तानां प्रग्रहात्त्वं नरेन्द्र; तथाप्तानां निग्रहाच्चैव राजन् |
भूमिं स्फीतां दुर्बलत्वादनन्तां; न शक्तस्त्वं रक्षितुं कौरवेय ॥२९॥

अनुज्ञातो रथवेगावधूतः; श्रान्तो निपद्ये शयनं नृसिंह |
प्रातः श्रोतारः कुरवः सभाया; मजातशत्रोर्वचनं समेताः ॥३०॥