महाभारतम्-05-उद्योगपर्व-033

विकिस्रोतः तः
← उद्योगपर्व-032 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-033
वेदव्यासः
उद्योगपर्व-034 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

धृतराष्ट्रेण रात्रौ विदुरानयनम् ।। 1 ।। चिन्तया प्रजागरंगतेन धृतराष्ट्रेण दुर्योधनादिसुखोपायप्रश्ने विदुरेण नीतिकथन पूर्वकं पाण्डवेभ्यो राज्यदानस्य तदुपायत्वकथनम् ।। 2 ।।



























वैशंपानय उवाच।

5-33-1x

द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः ।
विदुरं द्रष्टुमिच्छामि तमिहानय मा चिरम् ।।

5-33-1a
5-33-1b

प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् ।
ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ।।

5-33-2a
5-33-2b

एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् ।
अब्रवीद्धृतराष्ट्राय द्वाःस्थं मां प्रतिवेदय ।।

5-33-3a
5-33-3b

द्वाःस्थ उवाच।

5-33-4x

विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात्।
द्रुष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ।।

5-33-4a
5-33-4b

धृतराष्ट्र उवाच।

5-33-5x

प्रवेशय महाप्रज्ञं विदुरं दीर्घदर्शिनम् ।
अहं हि विदुरस्यास्य नाकल्पो जातु दर्शने ।।

5-33-5a
5-33-5b

द्वाःस्थ उवाच।

5-33-6x

प्रविशान्तःपुरं क्षत्तर्महारादजस्य धीमतः।
न हि ते दर्शनेऽकल्पो जातु राजाऽब्रवीद्धि माम् ।।

5-33-6a
5-33-6b

वैशंपायन उवाच।

5-33-7x

ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् ।
अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ।।

5-33-7a
5-33-7b

विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात्।
यदि किंचन कर्तव्यमयमस्मि प्रशाधि माम् ।।

5-33-8a
5-33-8b

धृतराष्ट्र उवाच।

5-33-9x

सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः।
अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ।।

5-33-9a
5-33-9b

तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया।
तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ।।

5-33-10a
5-33-10b

आग्रतो दह्यमानस्य श्रेयो यदनुपश्यसि।
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ।।

5-33-11a
5-33-11b

यतः प्राप्तः सञ्जयः पाण्डवेभ्यो
न मे यथावन्मनसः प्रशान्तिः ।
सर्वेन्द्रियाण्यप्रकृतिं गतानि
किं वक्ष्यतीत्येव मेऽद्य प्रचिन्ता ।।

5-33-12a
5-33-12b
5-33-12c
5-33-12d

` तन्मे ब्रूहि विदुर त्वं यथाव-
न्मनीषितं सर्वमजातशत्रोः ।
यथा न नस्तात हितं भवेच्च
प्रजाश्च सर्वाः सुखिता भवेयुः ।।'

5-33-13a
5-33-13b
5-33-13c
5-33-13d

विदुर उवाच।

5-33-14x

अभियुक्तं बलवता दुर्बलं हीनसाधनम् ।
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ।।

5-33-14a
5-33-14b

कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप।
कच्चिच्च परवित्तेषु गृद्ध्यन्न परितप्यसे ।।

5-33-15a
5-33-15b

धृतराष्ट्र उवाच।

5-33-16x

श्रोतुमिच्छामि ते धर्म्यं परं नैश्रेयसं वचः।
अस्मिन्रादर्षिवंशे हि त्वमेकः प्राज्ञसंमतः ।।

5-33-16a
5-33-16b

विदुर उवाच।

5-33-17x

राजा लक्षणसंपन्नस्त्रैलोक्यस्याधिपो भवेत्।
प्रेष्यस्ते प्रेषितश्चैव धृतराष्ट्र युधिष्ठिरः।।

5-33-17a
5-33-17b

विपरीततरश्च त्वं भागधेये न संमतः।
अर्चिषां प्रक्षयाच्चैव धर्मात्मा धर्मकोविदः ।।

5-33-18a
5-33-18b

आनृशंस्यादनुक्रोशाद्धर्मात्सत्यात्पराक्रमात्।
गुरुत्वात्त्वयि संप्रेक्ष्य बहून्क्लेशांस्तितिक्षते ।।

5-33-19a
5-33-19b

दुर्योधने सौबले च कर्णे दुःशासने तथा।
एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिच्छसि ।।

5-33-20a
5-33-20b

आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ।।

5-33-21a
5-33-21b

` एकस्माद्वृक्षाद्यज्ञपात्राणि राज-
न्स्रुक्व द्रोणी पेठनीपीडने च।
एतस्माद्राजन्ब्रुवतो मे निबोध
एकस्माद्वै जायतेऽसच्च सच्च ।।

5-33-22a
5-33-22b
5-33-22c
5-33-22d

निषेवते प्रशस्तानि निन्दितानि न सेवते।
अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् ।।

5-33-23a
5-33-23b

क्रोधो हर्षश्च दर्पश्च ह्रीः स्तम्भो मान्यमानिता।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ।।

5-33-24a
5-33-24b

यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे।
कृतमेवास्य जानन्ति स वै पण्डित उच्यते ।।

5-33-25a
5-33-25b

यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः।
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते।।

5-33-26a
5-33-26b

यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते।
कामादर्थं वृणीते यः स वै पण्डित उच्यते ।।

5-33-27a
5-33-27b

यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते।
किंचिदवमन्यन्ते नराः पण्डितबुद्धयः ।।

5-33-28a
5-33-28b

क्षिप्रं विजानाति चिरं श्रृणोति
विज्ञाय चार्यं भजते न कामात्।
नासंपृष्टो व्युपयुङ्क्ते परार्थे
तत्प्रज्ञानं प्रथमं पण्डितस्य ।।

5-33-29a
5-33-29b
5-33-29c
5-33-29d

नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्।
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ।।

5-33-30a
5-33-30b

निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः।
अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते

5-33-31a
5-33-31b

आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ।।

5-33-32a
5-33-32b

न हृष्यत्यात्मसंमाने नावमानेन तप्यते।
गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ।।

5-33-33a
5-33-33b

तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम्।
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ।।

5-33-34a
5-33-34b

प्रवृत्तवाक् चित्रकथ ऊहवान्प्रतिभानवान्।
आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते ।।

5-33-35a
5-33-35b

श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।
असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ।।

5-33-36a
5-33-36b

` अर्थं महान्तमासाद्य विद्यामेश्वर्यमेव च।
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते '।।

5-33-37a
5-33-37b

अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ।।

5-33-38a
5-33-38b

स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति।
मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ।।

5-33-39a
5-33-39b

अकामान्कामयति यः कामयानान्परित्यजेत्।
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ।।

5-33-40a
5-33-40b

अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ।।

5-33-41a
5-33-41b

संसारयति कृत्यानि सर्वत्र विचिकित्सते।
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ।।

5-33-42a
5-33-42b

श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति ।
सुहृन्मित्रं न लभते तमाहुर्मूढचेतसम् ।।

5-33-43a
5-33-43b

अनाहूतः प्रविशति अपृष्टो बहु भाषते।
अविश्वस्ते विश्वसिति मूढचेता नराधमः ।।

5-33-44a
5-33-44b

परं क्षिपति दोषेण वर्तमानः स्वयं तथा।
यश्च क्रुध्यत्यनीशानः स च मूढतमो नरः ।।

5-33-45a
5-33-45b

आत्मनो बलमाज्ञाय धर्मार्थपरिवर्जितम्।
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ।।

5-33-46a
5-33-46b

अशिष्यं शास्ति यो राजन्यश्च शिष्यं न शास्ति च ।
कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ।।

5-33-47a
5-33-47b

एकः संपन्नमाश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ।।

5-33-48a
5-33-48b

एकः पापानि कुरुते फलं भुङ्क्ते महाजनः।
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ।।

5-33-49a
5-33-49b

एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता।
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ।।

5-33-50a
5-33-50b

एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु।
पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भवा।।

5-33-51a
5-33-51b

एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते।
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रपिप्लवः ।।

5-33-52a
5-33-52b

एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत्।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ।।

5-33-53a
5-33-53b

एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे।
सत्यं स्वगस्य सोपानं पारावारस्य नौरिव ।।

5-33-54a
5-33-54b

एकः क्षमावतां दोषो द्वितीयो नोपपद्यते।
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ।।

5-33-55a
5-33-55b

सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं बलम्।
क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं क्षमा ।।

5-33-56a
5-33-56b

क्षमा वशीकृतीर्लोके क्षमया किं न साध्यते।
शान्तिखङ्गः करे यस्य किं करिष्यति दुर्जनः ।।

5-33-57a
5-33-57b

अतृणे पतितो वह्निः स्वयमेवोपशाम्यति।
अक्षमावान्परं दोषैरात्मानं चैव योजयेत् ।।

5-33-58a
5-33-58b

एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।
विद्यैका परमा तृप्तिरहिंसैका सुखावहा ।।

5-33-59a
5-33-59b

द्वाविमौ ग्रसते भूमिः सर्पो बलिशयानिव।
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ।।

5-33-60a
5-33-60b

द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते ।
अब्रुवन्परुषं किंचिदसतोऽनर्चयंस्तथा ।।

5-33-61a
5-33-61b

द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ ।
स्त्रियः कामितकामिन्यो मूर्खाः पूजितपूजकाः ।।

5-33-62a
5-33-62b

द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ।
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ।।

5-33-63a
5-33-63b

द्वावेव न विराजेते विपरीतेन कर्मणा ।
गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ।।

5-33-64a
5-33-64b

द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः।
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ।।

5-33-65a
5-33-65b

न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ ।
अपात्रे प्रतिपत्तिश्च पात्रे चात्प्रतिपादनम् ।।

5-33-66a
5-33-66b

द्वावभ्यसि निवेष्टव्यौ गले बध्वा दृढां शिलाम् ।
धनवन्तमदातारं दरिद्रं चातपस्विनम् ।।

5-33-67a
5-33-67b

द्वाविमौ पुरुषव्याघ्र सूर्यमण्डलभेदिनौ।
परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ।।

5-33-68a
5-33-68b

त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ ।
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ।।

5-33-69a
5-33-69b

त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।
नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ।।

5-33-70a
5-33-70b

त्रय एवाधना राजन्भार्या दासस्तथा सुतः।
यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनम् ।।

5-33-71a
5-33-71b

हरणं च परस्वानां परदाराभिमर्शनम् ।
सुहृदश्च परित्यागस्त्रयो दोषाः क्षयावहाः ।।

5-33-72a
5-33-72b

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् ।।

5-33-73a
5-33-73b

वरप्रदानं राज्यं च पुत्रजन्म च भारत।
शत्रोश्च मोक्षणं कृच्छ्रात्रीणि चैकं च तत्समम् ।।

5-33-74a
5-33-74b

भक्तं च भजमानं च तवास्मीति च वादिनम् ।
त्रीनेताञ्छरणं प्राप्तान्विषमेऽपि कन सन्त्यजेत् ।।

5-33-75a
5-33-75b

चत्वारि राज्ञा तु महाबलेन
वर्ज्यान्याहुः पण्डितस्तानि विद्यात्।
अल्पप्रज्ञैः सह मन्त्रं न कुर्या-
न्न दीर्घसूत्रैरलसैश्चारणैश्च ।।

5-33-76a
5-33-76b
5-33-76c
5-33-76d

चतवारि ते तात गृहे वसन्तु
श्रियाऽभिजुष्टस्य गृहस्थधर्मे।
वृद्धो ज्ञातिरवसन्नः कुलीनः
सखा दरिद्रो भगिनी चानपत्या ।।

5-33-77a
5-33-77b
5-33-77c
5-33-77d

चत्वार्याह महाराज साद्यस्कानि बृहस्पतिः।
पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ।।

5-33-78a
5-33-78b

देवतानां च सङ्कल्पमनुभावं च धीमताम्।
विनयं कृतविद्यानां विनाशं पापकर्मणाम् ।।

5-33-79a
5-33-79b

चत्वारि कर्माण्यभयंकराणि
भयं प्रयच्छन्त्ययथाकृतानि ।
मानाग्निहोत्रमुत मानमौनं
मानेनाधीतमुत मानयज्ञः ।।

5-33-80a
5-33-80b
5-33-80c
5-33-80d

पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः।
पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ।।

5-33-81a
5-33-81b

पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम्।
देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ।।

5-33-82a
5-33-82b

पञ्च त्वाऽनुगमिष्यन्ति यत्र यत्र गमिष्यसि।
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ।

5-33-83a
5-33-83b

पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम्।
ततोऽस्य स्रवति प्रज्ञा दृतेः पात्रादिवोदकम् ।।

5-33-84a
5-33-84b

षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ।

5-33-85a
5-33-85b

षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे।
अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ।।

5-33-86a
5-33-86b

अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् ।
ग्रामकामं च गोपालं वनकामं च नापितम् ।।

5-33-87a
5-33-87b

षडेव तु गुणाः पुंसा न हातव्याः कदाचन।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः ।।

5-33-88a
5-33-88b

अर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च।
वश्यश्च पुत्रोऽर्थकरी च विद्या
षड्जीवलोकस्य सुखानि राजन् ।।

5-33-89a
5-33-89b
5-33-89c
5-33-89d

षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति।
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ।।

5-33-90a
5-33-90b

षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते।
चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ।।

5-33-91a
5-33-91b

प्रमदाः कामयानेषु यजमानेषु याजकाः ।
राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ।।

5-33-92a
5-33-92b

षडिमानि विनश्यन्ति मुहूर्तमनवेक्षणात्।
गावः सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः ।।

5-33-93a
5-33-93b

षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् ।
आचार्यं शिक्षिताः शिष्याः कृतदाराश्च मातरं ।।

5-33-94a
5-33-94b

नारीं विगतकामास्तु कृतार्थाश्च प्रयोजकम् ।
नावं निस्तीर्णकान्तारा नातुराश्च चिकित्सकं ।।

5-33-95a
5-33-95b

आरोग्यमानृण्यमविप्रवासः
सद्भिर्मनुष्यैः सह संप्रयोगः।
स्वप्रत्यया वृत्तिरभीतवासः
षट् जीवलोकस्य सुखानि राजन् ।।

5-33-96a
5-33-96b
5-33-96c
5-33-96d

ईर्षुर्धृणी नसन्तुष्टः क्रोधनो नित्यशङ्कितः।
परभाग्योपजीवी च षडेते नित्यदुःखिताः ।।

5-33-97a
5-33-97b

सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः।
प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः।।

5-33-98a
5-33-98b

स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम्।
महच्च दण्डपारुष्यमर्थदूषणमेव च।।

5-33-99a
5-33-99b

अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः।
ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते।।

5-33-100a
5-33-100b

ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति।
रमते निन्दया चैषां प्रशंसां नाभिनन्दति ।।

5-33-101a
5-33-101b

नैनान्स्मरति कृत्येषु याचितश्चाभ्यसूयति।
एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुध्वा विसर्जयेत् ।।

5-33-102a
5-33-102b

अष्टाविमानि हर्षस्य नवनीतानि भारत।
वर्तमानानि दृश्यन्ते तान्येव स्वसुखान्यपि ।।

5-33-103a
5-33-103b

समागमश्च सखिभिर्महांश्चैव धनागमः ।
पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने ।।

5-33-104a
5-33-104b

समये च प्रियालापः स्वयूथ्येषु समुन्नतिः ।
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ।।

5-33-105a
5-33-105b

अष्टौ गुमाः पुरुषं दीपयन्ति
प्रज्ञा च कौल्यं च दमः श्रुतं च।
पराक्रमश्चाबहुभाषिता च
दानं यथाशक्ति कृतज्ञता च ।।

5-33-106a
5-33-106b
5-33-106c
5-33-106d

नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम्।
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ।।

5-33-107a
5-33-107b

दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान्।
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः।।

5-33-108a
5-33-108b

त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश।
तस्मादेतेषु भावेषु न प्रसञ्जेत पण्डितः।।

5-33-109a
5-33-109b

अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ।।

5-33-110a
5-33-110b

यः काममन्यू प्रजहाति राजा
पात्रे प्रतिष्ठापयते धनं च।
विशेषविच्छ्रुतवान्क्षिप्रकारी
तं सर्वलोकः कुरुते प्रमाणम् ।।

5-33-111a
5-33-111b
5-33-111c
5-33-111d

जानाति विश्वासयितुं मनुष्यान्
विज्ञातदोषेषु दधाति दण्डम्।
जानाति मात्रां च तथा क्षमां च
तं तादृशं श्रीर्जुषते समग्रा ।।

5-33-112a
5-33-112b
5-33-112c
5-33-112d

सुदुर्बलं नावजानाति कंचि-
द्युक्तो रिपुं सेवते बुद्धिपूर्वम्।
न विग्रहं रोचयते बलस्थैः
काले च यो विक्रमते स धीरः ।।

5-33-113a
5-33-113b
5-33-113c
5-33-113d

प्राप्याप.. न व्यथते कदाचि-
दुद्योगमान्वच्छति चाप्रमत्तः ।
दुःखं च काले सहते महात्मा
धुरन्धरस्तस्य जिताः सपत्नाः ।।

5-33-114a
5-33-114b
5-33-114c
5-33-114d

अनर्थकं विप्रवासं गृहेभ्यः
पापैः सन्धिं परदाराभिमर्शम्।
दम्भं स्तैन्यं पैशुनं मद्यमानं
न सेवते यः स सुखी सदैव ।।

5-33-115a
5-33-115b
5-33-115c
5-33-115d

न संरम्भेणारभते त्रिवर्ग-
माकारितः शंसति तत्त्वमेव।
न मित्रार्थे रोचयते विवादं
नापूजितः कुप्यति चाप्यमूढः ।।

5-33-116a
5-33-116b
5-33-116c
5-33-116d

न योऽभ्यसूयत्सयनुकम्पते च
न दुर्बलः प्रातिभाव्यं करोति।
नात्याह किंचित्क्षमते विवादं
सर्वत्र तादृग्लभते प्रशंसाम्।।

5-33-117a
5-33-117b
5-33-117c
5-33-117d

यो नोद्धतं कुरुते जातु वेषं
न पौरुषेणापि विकत्थतेऽन्यान्।
न मूर्च्छितः कटुकान्याह किंचि-
त्प्रियं सदा तं कुरुते जनो हि ।।

5-33-118a
5-33-118b
5-33-118c
5-33-118d

न वैरमुद्दिपयति प्रशान्तं
न दर्पमारोहति शान्तिमेति।
न दुर्गतोऽस्मीति करोत्यकार्यं
तमार्यशीलं परमाहुरार्याः ।।

5-33-119a
5-33-119b
5-33-119c
5-33-119d

न स्वे सुखे वै कुरुते प्रहर्षं
नान्यस्य दुःखे भवति प्रहृष्टः।
दत्त्वा न पश्चात्कुरुतेऽनुतापं
स कथ्यते सत्पुरुषार्यशीलः ।।

5-33-120a
5-33-120b
5-33-120c
5-33-120d

देशाचारान्समयाञ्जातिधर्मान्
बुभूषते यः स परावरज्ञः।
स यत्र तत्राभिगतः सदैव
महाजनस्याधिपत्यं करोति ।।

5-33-121a
5-33-121b
5-33-121c
5-33-121d

दम्भं मोहं मत्सरं पापकृत्यं
राजद्विष्टं पैशुनं पूगवैरम्।
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं
यः प्रज्ञावान्वर्जयेत्स प्रधानः ।।

5-33-122a
5-33-122b
5-33-122c
5-33-122d

दमं शौचं दैविकं मङ्गलानि
प्रायश्चित्तान्विविधाँल्लोकवादान्।
एतानि यः कुरुते नैत्यकानि
तस्योत्थानं देवता राधयन्ति ।।

5-33-123a
5-33-123b
5-33-123c
5-33-123d

समैर्विवाहं कुरुते न हीनैः
समैः सख्यं व्यवहारं कथां च।
गुणैर्विशिष्टांश्च पुरो दधाति
विपश्चितस्तस्य नयाः सुनीताः ।।

5-33-124a
5-33-124b
5-33-124c
5-33-124d

मितं भुङ्क्ते संविभज्याश्रितेभ्यो
मितं स्वपित्यमितं कर्म कृत्वा।
ददात्यमित्रेष्वपि याचितः सं-
स्तमात्मवन्तं प्रजहत्यनर्थाः ।।

5-33-125a
5-33-125b
5-33-125c
5-33-125d

चिकीर्षितं विप्रकृतं च यस्य
नान्ये जनाः कर्म जानन्ति किंचित्।
मन्त्रे गुप्ते सम्यगनुष्ठिते च
नाल्पोऽप्यस्य च्यवते कश्चिदर्थः ।।

5-33-126a
5-33-126b
5-33-126c
5-33-126d

यः सर्वभूतप्रशमे निविष्टः
सत्यो मृदुर्मानकृच्छुद्धभावः
अतीव स ज्ञायते ज्ञातिमध्ये
महामणिर्जात्य इव सप्रन्नः ।।

5-33-127a
5-33-127b
5-33-127c
5-33-127d

य आत्मनाऽपत्रपते भृशं नरः
स सर्वलोकस्य गुरुर्भवत्युत
अनन्तजेजाः सुमनाः समाहितः
स तेजसा सूर्य इवावभासते ।।

5-33-128a
5-33-128b
5-33-128c
5-33-128d

वने जाताः शापदग्धस्य राज्ञः
पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः ।
त्वयैव बाला वर्धिताः शिक्षिताश्च
तवादेशं पालयन्त्याम्बिकेय ।।

5-33-129a
5-33-129b
5-33-129c
5-33-129d

प्रदायैषामुचितं तातराज्यं
सुखी पुत्रैः सहितो मोदमानः ।
न देवानां नापि च मानुषाणां
भविष्यसि त्वं गर्हणीयो नरेन्द्र ।।

5-33-130a
5-33-130b
5-33-130c
5-33-130d

।। इति श्रीमन्महाभारते उद्योगपर्वणि
प्रजागरपर्वणि त्रयस्त्रिंशोऽध्यायः ।।

[सम्पाद्यताम्]

5-33-5 अकल्पो न किंतु कल्पः समर्थ एव । सर्वदा विदुरसंदर्शनं मय अप्रत्याख्येयमित्यर्थः ।। 5-33-10 प्रजागरं निद्राया अभावम् ।। 5-33-12 यतः यदा प्राप्तः सञ्जयस्तदारभ्येत्यर्थः। प्रचिन्ता प्रकृष्टा चिन्ता ।। 5-33-14 अभियुक्तमित्यर्धोपात् एकः त्रयोऽन्ये च प्रदागरावेशभाजनानि ।। 5-33-15 गृद्ध्यन् लिप्सावान् ।। 5-33-17 प्रेष्यः प्रकर्षेण एषणीयः प्रार्थ्य इतियावत् । ते त्वया प्रेषितो वनमिति शेषः ।। 5-33-18 विपरीतः राजलक्षणहीनः सर्वेषां द्वेष्यः । भागधेये राज्यांशे । अर्चिषां नेत्ररश्मीनां प्रक्षयात्। न संमतस्त्वं धर्मात्मापि सन्निति उपहासः ।। 5-33-19 आनृशंस्यात् क्रूरत्वाभावात्। अनुक्रोशात् दयालुत्वात्। तितिक्षते युधिष्ठिर इति शेषः ।। 5-33-20 एतेष्विति। एतेषामधीनो भूत्वेत्यर्थः ।। 5-33-21 एतेषु पाण्डित्यं नास्तीति वक्तुं पाण्डितलक्षणान्याह आत्मज्ञानमित्यादिना। आत्मज्ञानं शास्त्रीयापेक्षम्। समारम्भः शक्त्यपेक्षः । तितिक्षा वैराग्यापेक्षा। धर्मनित्यता श्रद्धापेक्षा। एतानि अयथाभूतानि मूढान् पुरुषार्थात् भ्रंशयन्ति नतु पण्डितानित्यर्थः ।। 5-33-23 अनास्तिकः परलोकाद्यस्तीति जानन्। श्रद्दधानः श्रद्धा गुरुवेदवाक्यादिषु फलावश्यंभावनिश्चयस्तद्वान् ।। 5-33-24 दर्पः परावज्ञानम्। स्तम्भः असन्नतिः। मान्यमानिता मान्यं मानार्हं आत्मानं मन्यत इति मान्यमानी तस्य भावस्तत्ता ।। 5-33-27 संसारिणी स्वभावतोऽनवस्तितापि कामात् ऐहिक सुखात् उभयलोकसुखावहं धर्ममर्थं वृणीते स पण्डितः। कामो धर्मार्थापेक्षया निकृष्ट इत्यर्थः। कामादिति। यस्तु कामं त्यक्त्वा अर्थं वृणीते सः अर्थार्थी मोक्षादेव सर्वं अर्थं विन्दति ज्ञानफले मोक्षे कृत्स्नस्यार्थस्यान्तर्भावात् स जनकादितुल्यः अतः पण्डित उच्यते ।। 5-33-29 चिरं शृणोति ज्ञानदार्ढ्याय असंपृष्टः यथावदपृष्टः। व्युपयुङ्क्ते वाग्व्ययं करोति। परार्थे विषये प्रज्ञानं चिह्नम् ।। 5-33-31 निश्चित्य स्वयत्नमाध्यत्वम्। कर्मणः अन्तर्मध्ये न वसति नोपरमते किंतु समापयत्येव । अवन्ध्यकालः सर्वदा सप्रयोजनमेव कर्माचरन् ।। 5-33-32 आर्याः शिष्टाःक तद्योग्यकर्मणि । भूरितैश्वर्यं तत्प्राप्त्यर्थं कर्माणि ।। 5-33-34 योगो रचनाप्रकारः। उपायस्तदर्थसाग्री। मनुष्याणां मध्ये स नरः पण्डितः ।। 5-33-35 प्रवृत्तवाक् अकुण्ठितवचनः । चित्रकथो लोककथाभिज्ञः । ऊहस्तर्कः। प्रतिभानं तत्कालस्फूर्तिः ।। 5-33-36 प्रज्ञानुगं बुद्धिवश्यम्। श्रुतानुगा शास्त्रानुसारिणी ।। 5-33-38 महामनाः अधिकेच्छावान्। अकर्मणा हीनकर्मणा द्यूतादिनेत्यर्थः ।। 5-33-42 संसारयति भृत्यादिद्वारा प्रवर्तयति ।। 5-33-46 नैष्कर्म्यात् अयत्नतः।। 5-33-47 कदर्यं अदातारम् ।। 5-33-51 एकया बुद्द्या। द्वे कार्याकार्ये विनिश्चित्य सम्यगवधार्य। त्रीन् मित्रोदासीनशत्रून्। चतुर्भिः सामदानभेददण्डैः। मित्रं साम्नैव दानभेदाभ्यामुदासीनम् सर्वैः शत्रुं वशीकुरु । पञ्च इन्द्रियाणि जित्वा। षड्विदित्वा संधिविग्रहादीन् ज्ञात्वा। सप्त हित्वा-स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम्। महच्च दण्डपारुष्यमर्थदूषणमेव चेति सप्त हेयानि त्यक्त्वा सुखी भव ।। 5-33-54 सत्यं यथार्थभाषणम्। पारावारस्य समुद्रस्य ।। 5-33-69 यद्धं कनीयान्। भेददाने मध्यमः। साम उत्तमः 5-33-71 त्वयिसति त्वत्पुत्रोऽधनोऽतस्त्वमेव पाण्डवानां राज्यं दातुं प्रभुरसीत्यर्थः ।। 5-33-75 शरणं गृहम्। विषमेपि संकटेपि ।।

5-33-76 दीर्घसूत्रैः क्षिप्रसाध्ये कार्ये चिरं कुर्वद्धिः । अलसैः करिष्यामीति कालगमकैः। चारणैः स्तावकैः। अरणैरितिच्छेदो कवा। रणविरोधिभिर्द्यूताद्यासक्तैरित्यर्थः ।। 5-33-77 वृद्धः कुलधर्मानुपदिशति। कुलीनः शिशून् आचारं ग्राहयति। सखा हितं वदति। भगिनी धनं रक्षति ।। 5-33-78 साद्यस्कानि सद्यःफलानि ।। 5-33-79 देवताः स्वर्गभाजः। स्वर्गपदार्थश्च- यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम्। अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् इत्येवंरूपः। अतस्ते सत्यसंकल्पाः। धीमतामगस्त्यादीनामनुभावं समुद्रपानादिप्रभावम्। तेपि देवतुल्या इत्यर्थः। विनयोपि गुरुप्रसादकरत्वेन सद्यःफलः। विनाशहेतुः कर्मापि चौर्यादिकं तच्च त्वय्येवास्ति। तव सर्वं कर्म मानार्थमेवेति भाः। पापकर्मणां विनाशनं विनाशयितुः सद्यःफलम् ।। 5-33-82 पितॄन् अग्निष्वात्तादीन् गोत्रप्रवर्तकानृषींश्च । मनुष्यान् पित्रादीन् ।। 5-33-83 त्वा त्वाम्। उपजीव्याः गुरवः । इह लोके साधिता मित्रादयाः। इह परलोके जन्मान्तरे वा स्वं स्वं कार्यं कुर्वन्तीत्यर्तः ।। 5-33-84 दृतेश्चर्ममयाज्जलपात्रात् 5-33-88 गोपालस्य ग्रामे वासे वनवाससाध्यस्य गोरक्षणस्याभावः। नापितस्य वने वासे ग्रामे तत्कार्याभाव इति भावः ।। 5-33-90 षण्णामिति। आत्मनि चित्ते नित्यानां षण्णाम्- कामक्रोधौ शोकमोहौ मदमानौ च षट्पदीत्युक्तानाम्। ऐश्वर्यं वशित्वम् ।। 5-33-95 नातुराः अरोगाः ।। 5-33-96 स्वप्रत्यया स्वनिश्चयपूर्विका वृत्तिवर्तनं नतु गतानुगतिकयेत्यर्थः ।। 5-33-100 द्वेष्टि मनसानिष्टं चिन्तयति। विरुध्यते कर्मणा ।। 5-33-104 सन्निपातः समरतं (न्नगर्भः) ।। 5-33-107 त्रिस्थूणं वातपित्तश्लेष्माणः स्थूणायरू...। पञ्च साक्षिवदुदासीनाः शब्दादयो ग्राह्या यस्मिन्। क्षेत्रज्ञाधि ....... वीवाधिष्ठितम् ।। 107 ।। 5-33-108 मत्ते मद्यादिना। प्रमत्तो विषयान्तरासक्तयाऽनवहितः। उन्मत्ते धातुदोषात् ।। 5-33-112 मात्रा उपराधानुसारेण दण्डप्रमाणम् । ब्राह्मणादौ अपराधस्य क्षगां च ज...ति ।। 5-33-113 युक्तः छि...पेक्षणि हितः ।। 113 ।। 5-33-114 संभ्य...क्रोध न च स्त्रियोऽर्थे यतते विवादं इति कo पाठः। 5-33-116 न ........इति । खo पाठः। मात्रार्थे अल्पार्थे इति ......।। 5-33-11. प्रातिभाव्यं प्रतिकूलो भावः चित्ताभिप्राया ......... प्रातिभाव्यं विरोधम्। अत्याह अतिकम्य ब्रवीति ।। 5-33-122 दम्भं परवच्चनेच्छया धर्मानुष्ठानम् ।। 5-33-127 जात्य अभिजातः उत्तमे आकरे जातः ।। 5-33-128 आत्मना अपत्रपते परैरज्ञातेऽपि स्वव्यलीके स्वयमेव लज्जते ।।

उद्योगपर्व-032 पुटाग्रे अल्लिखितम्। उद्योगपर्व-034