महाभारतम्-05-उद्योगपर्व-115

विकिस्रोतः तः
← उद्योगपर्व-114 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-115
वेदव्यासः
उद्योगपर्व-116 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

व्ययितवित्तेन ययातिना धनप्रतिनिधितया माधवीनामकस्वकन्यकासमर्पणम् ।। 1 ।।
गरुडेन समधिगततुरगाधिगमोपायं गालवमापृच्छ्य स्वगृहगमनम् ।। 2 ।।
गालवेन सह कन्यया हृर्यश्वनामकनृपसमीपमुपेत्य शुल्कार्पणेन कन्या कलत्रीकरणकथनम् ।। 3 ।।



नारद उवाच।

5-115-1x

एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् ।
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ।।

5-115-1a
5-115-1b

यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः ।
ययातिः सर्वकाशीश इदं वचनमब्रवीत् ।।

5-115-2a
5-115-2b

दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् ।
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ।।

5-115-3a
5-115-3b

अतीत्य च नृपानन्यानादित्यकुलसंभवान् ।
मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च ।।

5-115-4a
5-115-4b

अद्य मे सफलं जन्म तारितं चाद्य मे कलम् ।
अद्यायं तारितो देशो मम तार्क्ष्य त्वयाऽनघ ।।

5-115-5a
5-115-5b

वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा ।
न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे ।।

5-115-6a
5-115-6b

न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग।
न चाशामस्य विपर्षेर्वितथीकर्तुमुत्सहे ।।

5-115-7a
5-115-7b

पुत्रीं दास्यामि यत्कार्यमियं संपादयिष्यति।
अभिगम्य हताशो हि निवृत्तो दहते कुलम् ।।

5-115-8a
5-115-8b

नातः परं वैनतेय किंचित्पापिष्ठमुच्यते ।
प्रथाशानाशनं लोके देहि नास्तीति वा वचः ।।

5-115-9a
5-115-9b

हताशो ह्यकृतार्थः सन्हतः संभावितो नरः ।
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम् ।।

5-115-10a
5-115-10b

तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम।
`माधवी नाम तार्क्ष्येयं सर्वधर्मप्रदायिनी ।।'

5-115-11a
5-115-11b

इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी।
सदा देवमनुष्यणामसुराणां च गालव ।
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ।।

5-115-12a
5-115-12b
5-115-12c

अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रवम्।
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ।।

5-115-13a
5-115-13b

स भवाप्रतिगृह्णातु ममैतां माधवीं सुताम्।
अहं दौहित्रवान्त्स्यां वै वर एष मम प्रभो ।।

5-115-14a
5-115-14b

` स तस्य वचनं श्रुत्वा ब्राह्मणः शंसितव्रतः ।'
प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा।
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ।।

5-115-15a
5-115-15b
5-115-15c

उपलब्धमिदं द्वारमश्वानामिति चाण्डजः।
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ।।

5-115-16a
5-115-16b

गते पतगराजे तु गालवः सह कन्यया।
चिन्तयानः क्षमंदाने राजानं शुल्कतोऽगमत् ।।

5-115-17a
5-115-17b

सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम्।
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ।।

5-115-18a
5-115-18b

कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् ।
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ।।

5-115-19a
5-115-19b

तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् ।
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ।।

5-115-20a
5-115-20b

इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम् ।
शुल्कं ते कीर्तियिष्यामि तच्छ्रुत्वा संप्रधार्यताम् ।।

5-115-21a
5-115-21b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवाद्यनपर्वणि पञ्चदशाधिकशततमोऽध्यायः ।।

उद्योगपर्व-114 पुटाग्रे अल्लिखितम्। उद्योगपर्व-116