सामग्री पर जाएँ

महाभारतम्-05-उद्योगपर्व-076

विकिस्रोतः तः
← उद्योगपर्व-075 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-076
वेदव्यासः
उद्योगपर्व-077 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

श्रीकृष्णेन भीमंप्रति स्वस्य तन्महिमाभिज्ञत्वमभिधाय तत्प्रशंसनपूर्वकं स्वोक्तेः तेजस्सन्दीपनार्थत्वकथनम् ।। 1 ।।

श्रीभगवानुवाच।

5-76-1x

भावं जिज्ञासमानोऽहं प्रणयादिदमब्रवम् ।
न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया ।।

5-76-1a
5-76-1b

वेदाहं तव माहात्म्यसुत ते वेद यद्बलम्।
उत ते वेद कर्माणि न त्वां परिभवाम्यहम् ।।

5-76-2a
5-76-2b

यथा चात्मनि कल्याणं संभावयसि पाण्डव ।
सहस्रगुणमप्येतत्त्वयि संभावयाम्यहम् ।।

5-76-3a
5-76-3b

यादृशे च कुले जन्म सर्वराजाभिपूजिते ।
बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः ।।

5-76-4a
5-76-4b

जिज्ञासन्तो हि धर्मस्य सन्दिग्धस्य वृकोदर ।
पर्यायं नाध्यवस्यन्ति देवमानुषयोर्जनाः ।।

5-76-5a
5-76-5b

स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु।
विनाशेऽपि स एवास्य सन्दिग्धं कर्म पौरुषम् ।।

5-76-6a
5-76-6b

अन्यथा परिदृष्टानि कविभिर्दोवदर्शिभिः ।
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ।।

5-76-7a
5-76-7b

सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् ।
कृतं मानुष्यकं कर्म दैनेनापि विरुद्ध्यते ।।

5-76-8a
5-76-8b

दैवमप्यकृतं कर्म पौरुषेण विहन्यते ।
शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत ।।

5-76-9a
5-76-9b

यदन्यद्दिष्टभावस्य पुरुषस्य स्वयं कृतम् ।
तस्मादनुपरोधश्च विद्यते तत्र लक्षणम् ।।

5-76-10a
5-76-10b

लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः।
एवंबुद्धिः प्रवर्तेत फलं स्यादुभयान्वये ।।

5-76-11a
5-76-11b

य एवं कृतबुद्धिः स कर्मस्वेव प्रवर्तते ।
नासिद्धो व्यथते तस्य न सिद्धौ हर्षमश्रुते ।।

5-76-12a
5-76-12b

तत्रेयमनुमात्रा मे भीमसेन विवक्षिता।
नैकान्तसिद्धिर्वक्तव्या शत्रुभिः सह संयुगे ।।

5-76-13a
5-76-13b

नातिप्रहीणरश्मिः स्यात्तथा भावविपर्यये ।
विषादमर्च्छेद् ग्लानिं वाप्येतमर्थं ब्रवीमिते ।।

5-76-14a
5-76-14b

श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव।
यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् ।।

5-76-15a
5-76-15b

शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम।
भवतां कच कृतः कामस्तेषां च श्रेय उत्तमम् ।।

5-76-16a
5-76-16b

ते चेदभिनिवेक्ष्यन्ते नाभ्युपैष्यन्ति मे वचः ।
कुरवो युद्धमेवात्र घोरं कर्म भविष्यति ।।

5-76-17a
5-76-17b

अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः।
धूरर्जुनेन धार्या स्याद्वेढव्य इतरो जनः ।।

5-76-18a
5-76-18b

अहं हि यन्ता बीभत्सोर्भविता संयुगे सति।
धनञ्जयस्यैष कामो न हि युद्धं न कामये ।।

5-76-19a
5-76-19b

तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव।
गदतः क्लीबया वाचा तेजस्ते समदीदिपम् ।।

5-76-20a
5-76-20b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि षट्सप्ततितमोऽध्यायः ।।

5-76-1 भावमिति । विवक्षया त्वया स्वरूपं वक्तव्यमितीच्छया। प्रागेव तस्य ज्ञातत्वात् ।। 1 ।। 5-76-5 देवमानुषयोर्धर्मस्य पर्यायमिति संबन्धः ।। 5-76-7 परिदृष्टानि कर्तव्यत्वेन निश्चितानि कार्याणि ।। 5-76-10 दिष्टः फलभोगाय आज्ञप्तः भावः सत्ता यस्य तत् दिष्टभावं प्रारब्धकर्म। पञ्चम्यर्थे षष्ठी । प्रारब्धादन्यदित्यर्थः । पुरुषस्य पुरुषेण संचितं यत्स्वयंकृतं कर्म तस्मादनुपरोधो जन्मान्तरे निरोधो नास्ति। तत्र ज्ञानेन प्रायश्चित्तेन वा संचितपापानां नाशे लक्षणं ज्ञापकं श्रुतिस्मृतिजातं विद्यते ।। 5-76-11 कर्मणोऽन्यत्र पौरुषंविना अन्यत एकस्माद्दैवादेव वृत्तिर्जीविका नास्ति । एवं बुद्धिः ईदृक्ज्ञानवान्सन् प्रवर्तेत पुरुषकारं कुर्यात्। तथा सति उभयान्वये दैवपौरुषयोः संबन्धे फलं भवति नान्यतरत इत्यर्थः ।। 5-76-13 अनुमात्राऽवधारणं निश्चय इत्यर्थः ।। 5-76-14 प्रहीणरश्मिः निष्प्रभः। भावः प्रारब्धं कर्म। अर्च्छेत् प्राप्नुयात् ।। 5-76-17 ते कुरव इति संबन्धः ।। 5-76- 5-76- 5-76-

उद्योगपर्व-075 पुटाग्रे अल्लिखितम्। उद्योगपर्व-077