महाभारतम्-05-उद्योगपर्व-077

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-076 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-077
वेदव्यासः
उद्योगपर्व-078 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

अर्जुनेन सन्धिविग्रहपक्षौ प्रस्तुत्य श्रीकृष्णंप्रति यथारुचि अन्यतरपक्षनिर्धारणकरणप्रार्थना ।। 1 ।।

अर्जुन उवाच।

5-77-1x

उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन ।
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परन्तप ।।

5-77-1a
5-77-1b

नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो ।
लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् ।।

5-77-2a
5-77-2b

अफलं मन्यसे वाऽपि पुरुषस्य पराक्रमम् ।
न चान्तरेण कर्माणि पौरुषेण बलोदयः ।।

5-77-3a
5-77-3b

तदिदं भाषितं वाक्यं तथाचन तथैव तत्।
न चैतदेवं द्रष्टव्यमसाध्यमपि किंचन ।।

5-77-4a
5-77-4b

किं चैतन्मन्यसे कृच्छ्रमस्माकमवसादकम्।
कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः ।।

5-77-5a
5-77-5b

संपाद्यमानं सम्यक्व स्यात्कर्म सफलं प्रभो।
स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः ।।

5-77-6a
5-77-6b

पाण्डवानां कुरूणां च भवान्नः प्रथमः सुहृत्।
सुराणामसुराणां च यथा वीर प्रजापतिः ।।

5-77-7a
5-77-7b

कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् ।
अस्मद्धितमनुष्ठानं मन्ये तव न दुष्करम् ।।

5-77-8a
5-77-8b

एवं च कार्यतामेति कार्यं तव जनार्दन ।
गमनादेवमेव त्वं करिष्यसि जनार्दन ।।

5-77-9a
5-77-9b

चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मानि ।
भविष्यति च तत्सर्वं यथा तव चिकीर्षितम् ।।

5-77-10a
5-77-10b

शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् ।
विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः ।।

5-77-11a
5-77-11b

न स नार्हति दुष्टात्मा वधं ससुतबान्धवः।
येन धर्मसुते दृष्टा न सा श्रीरुपमर्षिता ।।

5-77-12a
5-77-12b

यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन।
उपायेन नृशंसेन हृता दुर्द्यूतदेविना ।।

5-77-13a
5-77-13b

कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः ।
समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते ।।

5-77-14a
5-77-14b

अधर्मेण जितान्दृष्ट्वा वने प्रवृजितांस्तथा।
वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः ।।

5-77-15a
5-77-15b

न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि।
क्रिया कथंच मुख्या स्यान्मृदुना चेतरेण वा ।।

5-77-16a
5-77-16b

अथवा मन्यसे ज्यायान्वधस्तेषामनन्तरम् ।
तदेव क्रियतामाशु न विचार्यमतस्त्वया ।।

5-77-17a
5-77-17b

जानासि हि यथैतेन द्रौपदी पापबुद्धिना ।
परिक्लिष्टा सभामध्ये तच्च तस्योपमर्षितम् ।।

5-77-18a
5-77-18b

स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव।
न मे सञ्जायते बुद्धिर्बीजमुप्तमिवोषरे ।।

5-77-19a
5-77-19b

तस्माद्यन्मन्यसे युक्तं पाण्डवानां हितं च यत्।
तथाऽऽशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् ।।

5-77-20a
5-77-20b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि सप्तसप्ततितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-77-2 दैन्याद्वा अस्मदीयात् ।। 5-77-4 नहि युद्धं न कामये इति यत्त्वया भाषित तथाचन तथापिच चनशब्दोऽप्यर्थे । यद्यपि ममैतदनिष्टं तथापि त्वया यद्भाषितं तत्तथैव भविध्यतीत्यर्थः । परंतु शमोपि तव नासाध्योऽस्तीत्याह नचेति ।। 5-77-8 निरामयं कुशलम् ।। 5-77-9 कार्यतां औचित्यम्। कार्यं कर्म ।। 5-77-14 समाहूतो द्यूतार्थम् ।। 5-77-15 निर्गतः निश्चयेन प्राप्तः ।। 5-77-16 कथंच कथमपि। मुख्या फलवती। मृदुना साम्ना। इतरेण युद्धेन ।।

उद्योगपर्व-076 पुटाग्रे अल्लिखितम्। उद्योगपर्व-078