महाभारतम्-05-उद्योगपर्व-078

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-077 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-078
वेदव्यासः
उद्योगपर्व-079 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

श्रीकृष्णेन अर्जुनंप्रति दण्डार्हे सुयोधने शमकरणस्य दुश्शकत्वाभिधानपूर्वकं युधिष्ठिरगौरवेण स्वस्य तदर्थं प्रयतनकथनम् ।। 1 ।।


श्रीभगवानुवाच।

5-78-1x

एवमेतन्महाबाहो यथा वदसि पाण्डव।
पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम्।
सर्वं त्विदं ममायत्तं बीभत्सो कर्मणोर्द्वयोः ।।

5-78-1a
5-78-1b
5-78-1c

क्षेत्रं हि रसवच्छुद्धं कर्मणैवोपपादितम्।
ऋते वर्षान्न कौन्तेय जातु निर्वर्तयेत्फलम् ।।

5-78-2a
5-78-2b

तत्र वै पौरुषं ब्रूयुरासेकं यत्र कारितम्।
तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम्।।

5-78-3a
5-78-3b

तदिदं निश्चित्तं बुद्ध्या पूर्वैरपि महात्मभिः ।
दैवे च मानुषे चैव संयुक्तं लोककारणम् ।।

5-78-4a
5-78-4b

अहं हि तत्करिष्यामि परं पुरुषकारतः ।
देवं तु न मया शक्यं कर्म कर्तुं कथंचन ।।

5-78-5a
5-78-5b

स हि धर्मं च लोकं च त्यक्त्वा चरति दुर्मतिः।
न हि सन्तप्यते तेन तथारूपेण कर्मणा ।।

5-78-6a
5-78-6b

तथापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः ।
शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा ।।

5-78-7a
5-78-7b

स हि त्यागेन राज्यस्य न शमं समुपैष्यति।
अन्तरेण वधं पार्थ सानुबन्धः सुयोधनः ।।

5-78-8a
5-78-8b

न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् ।
याच्यमानश्च राज्यं स न प्रजास्यति दुर्मतिः ।।

5-78-9a
5-78-9b

न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशातनम् ।
उक्तं प्रयोजनं यत्तु धर्मराजेन भारत ।।

5-78-10a
5-78-10b

तथा पापस्तु तत्सर्वं न करिष्यति कौरवः ।
तस्मिंश्चाक्रियमाणेऽसौ लोके वध्यो भविष्यति ।।

5-78-11a
5-78-11b

मम चापि स वध्यो हि जगतश्चापि भारत ।
तेन कौमारके यूयं सर्वे विप्रकृताः सदा ।।

5-78-12a
5-78-12b

विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना।
न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे ।।

5-78-13a
5-78-13b

असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः ।
न मया तद्गृहीतं च पापं तस्य चिकीर्षेतम् ।।

5-78-14a
5-78-14b

जानासि हि महाबाहो त्वमप्यस्य परं मतम्।
प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि ।।

5-78-15a
5-78-15b

संजानंस्तस्य चात्मानं मम चैव परं मतम्।
अजानन्निव मां कस्मादर्जुनाद्याभिशङ्कसे ।।

5-78-16a
5-78-16b

यच्चापि परमं दिव्यं तच्चाप्यनुगतं त्वया।
विधानं विहितं पार्थ कथं शर्म भवेत्परैः ।।

5-78-17a
5-78-17b

यत्तु वाचा मया शक्यं कर्मणा वाऽपि पाण्डव ।
करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः ।।

5-78-18a
5-78-18b

कथं गोहरणे ह्युक्तो नैतच्छर्म तथा हितम् ।
याच्यमानो हि भीष्मेण संवत्सरगतेऽध्वनि ।।

5-78-19a
5-78-19b

तदैव ते पराभूता यदा सङ्कल्पितास्त्वया।
लवशः क्षणशश्चापि न च तुष्टः सुयोधनः ।।

5-78-20a
5-78-20b

सर्वथा तु मया कार्यं धर्मराजस्य शासनम् ।
विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः ।।

5-78-21a
5-78-21b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि अष्टसप्ततितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-78-1 द्वयोः कर्मणोः शमयुद्धयोर्मध्ये इदं अनामयम् ।। 5-78-4 संयुक्तं आहितम्। लोककारणं लोकहितसाधनम् ।। 5-78-17 दिव्यं विधानं भूभारापहारार्थं स्वर्गाद्देवानामवतरणम् ।। 5-78-18 आशंसे संभावयामि ।। 5-78-19 भीष्मेण एतच्छर्म याच्यमानोपि सः हितं कथं नोक्तः अपितु उक्तः। संवत्सरगते गतसंवत्सरे ।। 5-78-20 संकल्पिताः वध्यत्वेन निश्चिताः ।। 5-78-21 विभाव्यं विचारणीयम् ।।

उद्योगपर्व-077 पुटाग्रे अल्लिखितम्। उद्योगपर्व-079