महाभारतम्-05-उद्योगपर्व-072

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-071 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-072
वेदव्यासः
उद्योगपर्व-073 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

श्रीकृष्णेन युधिष्ठिरंप्रति युद्धपक्षस्थिरीकरणपूर्वकं लोकसंशयनिरासाय शमार्थं प्रयतनकथनम् ।। 1 ।।

श्रीभगवानुवाच।

5-72-1x

सञ्जयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया।
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः ।।

5-72-1a
5-72-1b

तव धर्माश्रिता बुद्धिस्तेषां वैराश्रया मतिः।
यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् ।।

5-72-2a
5-72-2b

न चैवं नैष्ठिकं कर्म क्षत्रियस्य विशांपते।
आहुराश्रमिणः सर्वे न भैक्षं क्षत्रियश्चरेत् ।।

5-72-3a
5-72-3b

जयो वधो वा सङ्ग्रामे धात्राऽऽदिष्टः सनातनः।
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशत्यते ।।

5-72-4a
5-72-4b

न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर ।
विक्रमस्व महाबाहो जहि शत्रून्परन्तप ।।

5-72-5a
5-72-5b

अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः ।
कृतमित्राः कृतबला धार्तराष्ट्राः परन्तप ।।

5-72-6a
5-72-6b

न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशांपते ।
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः ।।

5-72-7a
5-72-7b

यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि।
तावदेते हरिष्यन्ति तव राज्यमरिन्दम ।।

5-72-8a
5-72-8b

नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात्।
अलं कर्तुं धार्तराष्ट्रस्तव काममरिन्दम ।।

5-72-9a
5-72-9b

एतदेव निमित्तं ते धार्तराष्ट्रो यथा त्वयि ।
नान्वतप्यत कोपेन तव कृत्वाऽपि दुष्करम् ।।

5-72-10a
5-72-10b

पितामहस्य द्रोणस्य विदुरस्य च धीमतः ।
ब्राह्मणानां च साधूनां राज्ञश्च नगरस्य च ।।

5-72-11a
5-72-11b

पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः।
दानशीलं मृदुं दान्तं धर्मशीलमनुव्रतम् ।।

5-72-12a
5-72-12b

यत्त्वामुपधिना राजन्द्यूते वञ्चितवांस्तदा ।
न चापत्रपते तेन नृशंसः स्वेन कर्मणा ।।

5-72-13a
5-72-13b

तथाशीलसमाचरे राजन्मा प्रणयं कृथाः ।
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत ।।

5-72-14a
5-72-14b

वाग्भिस्त्वप्रतिरूपाभिरतुदत्त्वां सहानुजम् ।
श्लाघमानः प्रहृष्टः सन्भ्रातृभिः सह भाषते ।।

5-72-15a
5-72-15b

एतावत्पाण्डवानां हि नास्ति किंचिदिह स्वकम् ।
नामधेयं च गोत्रं च तदप्येषां न शिष्यते ।।

5-72-16a
5-72-16b

कालेन महता चैषां भविष्यति पराभवः ।
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो मयि ।।

5-72-17a
5-72-17b

दुःशासनेन पापेन तदा द्यूते प्रवर्तिते ।
अनाथवत्तदा देवी द्रौपदी सुदुरात्मना ।।

5-72-18a
5-72-18b

आकृष्य केशे रुदती सभायां राजसंसदि ।
भीष्मद्रोणप्रमुखतो गौरिति व्याहृता मुहुः ।।

5-72-19a
5-72-19b

भवता वारिताः सर्वे भ्रातरो भीमविक्रमाः ।
धर्मपाशनिबद्धाश्च न किंचित्प्रतिपेदिरे ।।

5-72-20a
5-72-20b

एताश्चान्याश्च परुषा वाचः स समुदीरयन् ।
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् ।।

5-72-21a
5-72-21b

ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम्।
अश्रुकण्ठा रुदन्तश्च सभायामासते सदा ।।

5-72-22a
5-72-22b

न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह।
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः ।।

5-72-23a
5-72-23b

कुलीनस्य च या निन्दा वधो वाऽमित्रकर्शन ।
महागुणो वधो राजन्नु तु निन्दा कुजीविका ।।

5-72-24a
5-72-24b

तदैव निहतो राजन्यदैव निरपत्रपः।
निन्दितश्च महाराज पृथिव्यां सर्वराजभिः ।।

5-72-25a
5-72-25b

ईषत्करो वधस्तस्य यस्य चारित्रमीदृशम् ।
प्रस्कुन्देन प्रतिस्तब्धश्छिन्नमूल इव द्रुमः ।।

5-72-26a
5-72-26b

वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः ।
जह्येन त्वममित्रघ्न मा राजन्विचिकित्सिथाः ।।

5-72-27a
5-72-27b

सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ।
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः ।।

5-72-28a
5-72-28b

अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम्।
येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति ।।

5-72-29a
5-72-29b

मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् ।
तव सङ्कीर्तयिष्यामि ये च तस्य व्यतिक्रमाः ।।

5-72-30a
5-72-30b

ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम्।
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ।।

5-72-31a
5-72-31b

त्वयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति ।
तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत ।।

5-72-32a
5-72-32b

गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि ।
वृद्धबालानुपादाय चातुर्वर्ण्ये समागते ।।

5-72-33a
5-72-33b

शमं वै याचमानस्त्वं नाधर्मं तत्र लप्स्यसे ।
कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः ।।

5-72-34a
5-72-34b

तस्मिंल्लोकपरित्यक्ते किं कार्यमवशिष्यते।
हते दुर्योधने राजन्यदन्यत्क्रियतामिति ।।

5-72-35a
5-72-35b

यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् ।
यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् ।।

5-72-36a
5-72-36b

कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् ।
निशम्य विनिवर्तिष्ये जयाय तव भारत ।।

5-72-37a
5-72-37b

सर्वथा युद्धमेवाहमाशंसापि परैः सह ।
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे ।।

5-72-38a
5-72-38b

मृगाः शकुन्ताश्च वदन्ति घोरं
हस्त्यश्वमुख्येषु निशामुखेषु ।
घोराणि रूपाणि तथैव चाग्नि-
र्वर्णान्बहून्पुष्यति घोररूपान् ।।

5-72-39a
5-72-39b
5-72-39c
5-72-39d

मनुष्यलोकक्षयकृत्सुघोरो
नो चेदनुप्राप्त इहान्तकः स्यात्।
शस्त्राणि यन्त्रं कवचान्रथांश्च
नागान्हयांश्च प्रतिपादयित्वा ।।

5-72-40a
5-72-40b
5-72-40c
5-72-40d

योधाश्च सर्वे कृतनिश्चयास्ते
भवन्तु हस्त्यश्वरथेषु यत्ताः।
साङ्‌ग्रामिकं ते यदुपार्जनीयं
सर्वं समग्रं कुरु तन्नरेन्द्र ।।

5-72-41a
5-72-41b
5-72-41c
5-72-41d

दुर्योधनो न ह्यलमद्य दातुं
जीवंस्तवैतन्नृपते कथंचित्।
यत्ते पुरस्तादभवत्समृद्धं
द्यूते हृतं पाण्डवमुख्य राज्यम् ।।

5-72-42a
5-72-42b
5-72-42c
5-72-42d

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि द्विसप्ततितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-72-3 नैष्ठिकं कर्म यावज्जीवं ब्रह्मचर्यं पारिव्राज्यं च। विहितमिति शेषः ।। 5-72-4 कार्पण्यं ग्रामपञ्चकं देहीति दीनवचनम् ।। 5-72-5 वृत्तिः जीविका कर्तुमिति शेषः ।। 5-72-6 अतिगृद्धाः अत्यन्तलुब्धाः ।। 5-72-7 पर्याय उपायः। यद्येन बलवत्तां स्वस्येति शेषः ।। 5-72-9 अनुक्रोशात् भवत्सु कृपातः । कार्पण्यात् स्वस्य दैन्यात्। अलं कर्तुं पूर्णं कर्तुं न समर्थाः ।। 5-72-10 निमित्तं अशमे कारणम् ।। 5-72-17 प्रकृतिं पञ्चताम् । मयि मत्समीपे नष्टा प्रकृतिः शौर्यादिरूपः स्वभावो येषाम् ।। 5-72-19 गौरिव सर्वभोज्येत्युपहासो गौर्गौरिति ।। 5-72-26 प्रस्कृन्देन चक्राकारया वेदिकया ।। 5-72-29 द्विधाभावः अयं साधुरसाधुर्वेति संशयः ।। 5-72-30 प्रातिपौरुषिकान् सर्वपुरुषसाधारणान् ।। 5-72-35 हते निन्द्यतया नष्टप्राये ।। 5-72-36 यात्वा गत्वा ।। 5-72-37 निशम्य आलोच्य ।। 5-72-40 तर्हि एतन्न स्यादिति शेषः। प्रतिपादयित्वा सञ्जीकृत्य ।।

उद्योगपर्व-071 पुटाग्रे अल्लिखितम्। उद्योगपर्व-073