महाभारतम्-05-उद्योगपर्व-073

विकिस्रोतः तः
← उद्योगपर्व-072 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-073
वेदव्यासः
उद्योगपर्व-074 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भीमसेनेन श्रीकृष्णंप्रति दुर्योधनस्य दुराराध्यत्वकथनपूर्वकं यथाकथंचित् शमस्वावश्यकर्तव्यत्ककथनम् ।। 1 ।।

भीम उवाच।

5-73-1x

यथायथैव शान्तिः स्यात्कुरूणां मधुसूदन।
तथातथैव भाषेथा मा स्म युद्धेन भीषयेः ।।

5-73-1a
5-73-1b

अमर्षी जातसंरम्भः श्रेयोद्वेषी महामनाः।
नोग्रं दुर्योधनो वाच्यः साम्नैवेनं समाचरेः ।।

5-73-2a
5-73-2b

प्रकृत्या पापसत्वश्च तुल्यचेतास्तु दस्युभिः ।
ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः ।।

5-73-3a
5-73-3b

अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः ।
दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः ।।

5-73-4a
5-73-4b

म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम्।
तादृशेन शमः कृष्ण मन्ये परमदुष्करः ।।

5-73-5a
5-73-5b

सुहृदामप्यवाचीनस्त्यक्तधर्मा प्रियानृतः ।
प्रतिहन्त्ये सुहृदां वाचश्चैव मनांसि च।।

5-73-6a
5-73-6b

स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः ।
स्वभावात्पापमभ्येति तृणैश्छन्न इवोरगः ।।

5-73-7a
5-73-7b

दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव ।
यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः ।।

5-73-8a
5-73-8b

पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम्।
इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः ।।

5-73-9a
5-73-9b

दुर्योधनस्य क्रोधेन भरता मधुसूदन।
धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः ।।

5-73-10a
5-73-10b

अष्टादशेमे राजानः प्रख्यात मधुसूदन ।
ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान् ।।

5-73-11a
5-73-11b

असुराणां समृद्धानां ज्वलतामिव तेजसा।
पर्यायकाले धर्मस्य प्राप्ते कलिरजायत ।।

5-73-12a
5-73-12b

हैहयानामुदावर्तो नीपानां जनमेजयः ।
बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः ।।

5-73-13a
5-73-13b

अजबिन्दुः सुवीराणां सुराष्ट्राणां रुषर्द्धिकः।
अर्कजश्च बलीहानां चीनानां धौतमूलकः ।।

5-73-14a
5-73-14b

हयग्रीवो विदेहानां वरयुश्च महौजसाम् ।
बाहुः सुन्दरवंशानां दीप्ताक्षाणां पुरूरवाः ।।

5-73-15a
5-73-15b

सहजश्चेदिमत्स्यानां प्रवीराणां वृषध्वजः ।
धारणश्चन्द्रवत्सानां मुकुटानां विगाहनः ।।

5-73-16a
5-73-16b

शमश्च नन्दिवेगानामित्येते कुलपांसनाः ।
युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः ।।

5-73-17a
5-73-17b

अप्ययं नः कुरूणां स्याद्युगान्ते कालसंभृतः ।
दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः ।।

5-73-18a
5-73-18b

तस्मान्मृदु शनैर्ब्रूया धर्मार्थसहितं हितम् ।
कामानुबद्धं बहुलं नोग्रमुग्रपराक्रमम् ।।

5-73-19a
5-73-19b

अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः।
नीचैर्भूत्वाऽनुयास्यामो मा स्म नो भरता नशन् ।।

5-73-20a
5-73-20b

अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह।
वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् ।।

5-73-21a
5-73-21b

वाच्यः पितामहो वृद्धो ये च कृष्ण समासदः ।
भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् ।।

5-73-22a
5-73-22b

अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति ।
अर्जुनो नैव युद्धार्थी भूयसी हि दयाऽर्जुने ।।

5-73-23a
5-73-23b

।। इति श्रीमन्महाभारते उग्योगपर्वणि
भगवद्यानपर्वणि त्रिसप्ततितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-73-4 निष्ठूरी निष्ठुरवाक् । क्षेप्ता निन्दकः । अनेयः शिक्षयितुमयोग्यः ।। 5-73-6 अवाचीनो विपरीतः ।। 5-73-12 पर्यायकाले धर्मान्तकाले ।। 5-73-19 कामानुबद्धं बहुलं बाहुल्येन तस्य चित्तानुसारी ।।

उद्योगपर्व-072 पुटाग्रे अल्लिखितम्। उद्योगपर्व-074