महाभारतम्-05-उद्योगपर्व-102

विकिस्रोतः तः
← उद्योगपर्व-101 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-102
वेदव्यासः
उद्योगपर्व-103 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

नारदेन मातलिं रसातलमुपनीय तत्र वास्तव्यसुरभिसन्ततिगुणस्तवनम् ।। 1 ।।

नारद उवाच।

5-102-1x

इदं रसातलं नाम सप्तमं पृथिवीतलम्।
यत्रास्ते सुरभिर्माता गवाममृतसंभवा ।।

5-102-1a
5-102-1b

क्षरन्ती सततं क्षीरं पृथिवीसारसंभवम् ।
षण्णं रसानां सारेण रसमेकमनुत्तमम् ।।

5-102-2a
5-102-2b

अमृतेनाभितृप्तस्य सारमुद्गिरतः पुरा।
पितामहस्य वदनादुदतिष्ठदनिन्दिता ।।

5-102-3a
5-102-3b

यस्याः क्षीरस्य धाराया निपतन्त्या महीतले।
ह्रदः कृतः क्षीरनिधिः पवित्रं परमुच्यते ।।

5-102-4a
5-102-4b

पुष्पितस्येव फेनेन पर्यन्तमनुवेष्टितम्।
पिबन्तो निवसन्त्यत्र फेनपा मुनिसत्तमाः ।।

5-102-5a
5-102-5b

फेनपा नाम ते ख्याताः फेनाहाराश्च मातले।
उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः ।।

5-102-6a
5-102-6b

अस्याश्चतस्रो धेन्वोऽन्या दिक्षु सर्वासु मातले।
निवसन्ति दिशां पाल्यो धारयन्त्योदिशःस्म ताः ।।

5-102-7a
5-102-7b

पूर्वां दिशं धारयते सुरूपा नाम सौरभी ।
दक्षिणां हंसिका कनाम धारयत्यपरां दिशम्।।

5-102-8a
5-102-8b

पश्चिमा वारुणी दिक्च धार्यते वै सुभद्रया।
महानुभावया नित्यं मातले विश्वरूपया ।।

5-102-9a
5-102-9b

सर्वकामदुघा नाम धेनुर्धारयते दिशम्।
उत्तरां मातले धर्म्यां तथैलविलसंश्रिताम् ।।

5-102-10a
5-102-10b

आसां त पयसा मिश्रं पयो निर्मथ्य सागरे ।
मन्थानं मन्दरं कृत्वा देवैरसुरसंहितैः ।।

5-102-11a
5-102-11b

अद्धृता वारुणी लक्ष्मीरमृतं चापि मातले।
उच्चैःश्रवाश्चाश्वराजो मणिरत्नं च कौस्तुभम् ।।

5-102-12a
5-102-12b

सुधाहारेषु च सुधां स्वधाभोजिषु च स्वधाम्।
अमृतं चामृताशेषु सुरभी क्षरते पयः ।।

5-102-13a
5-102-13b

अत्र गाथा पुरा गीता रसातलनिवासिभिः ।
पौराणी श्रूयते लोके गीयते या मनीषिभिः ।।

5-102-14a
5-102-14b

न नागलोके न स्वर्गे न विमाने त्रिविष्टपे।
परिवासः सुखस्तादृक् रसातलतले यथा ।।

5-102-15a
5-102-15b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवाद्यानपर्वणि द्‌व्यधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-102-11 असुरसंहितैः असुरसहितैः ।। 5-102-15 परिवासः निवासः । सुखः सुखकरः ।। 15 ।।

उद्योगपर्व-101 पुटाग्रे अल्लिखितम्। उद्योगपर्व-103