महाभारतम्-05-उद्योगपर्व-103

विकिस्रोतः तः
← उद्योगपर्व-102 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-103
वेदव्यासः
उद्योगपर्व-104 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

नारदेन मातलिं भोगवतीं नीत्वा वरान्वेषणचोदनम् ।। 1 ।।
तत्र सुमुखं नाम कंचन भुजगराजमभिरोचमानेन मातलिना नारदंप्रति तस्य जन्मकर्मादिप्रश्नः ।। 2 ।।
नारदेन तस्य आर्यकनाम्नो भोगिनः पौत्रत्वे कीर्तिते मातलिना नारदंप्रति तद्धटनाभ्यर्थना ।। 3 ।।

नारद उवाच।

5-103-1x

इयं भोगवती नाम पुरी वासुकिपालिता।
यादृशी देवराजस्य पुरी वर्याऽमरावती ।।

5-103-1a
5-103-1b

एष शेषः स्थितो नागो येनेयं धार्यते सदा।
तपसा लोकमुख्येन प्रभावसहिता मही ।।

5-103-2a
5-103-2b

श्वेताचलनिभाकारो दिव्याभरणभूषितः ।
सहस्रं धारयन्मूर्ध्नां ज्वालाजिह्वो महाबलः ।।

5-103-3a
5-103-3b

इह नानाविधाकारा नानाविधविभूषणाः।
सुरसायाः सुता नागा निवसन्ति गतव्यथाः ।।

5-103-4a
5-103-4b

मणिस्वस्तिकचक्राङ्काः कमण्डलुकलक्षणाः।
सहस्रसंख्या बलिन सर्वे रौद्राः स्वभावतः ।।

5-103-5a
5-103-5b

सहस्रशिरसः केचित्केचित्पञ्चशताननाः ।
शतशीर्षास्तथा केचित्केचित्रिशिरसोऽपि च ।।

5-103-6a
5-103-6b

द्विपञ्चशिरसः केचित्केचित्सप्तसुखास्तथा।
महाभोगा महाकायाः पर्वताभोगभोगिनः ।।

5-103-7a
5-103-7b

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च।
नागानामेकवंशानां यथाश्रेष्ठं तु मे श्रुणु ।।

5-103-8a
5-103-8b

वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ।
कालीयो नहुषश्चैव कम्बलाश्वतरावुभौ ।।

5-103-9a
5-103-9b

बाह्यकुण्डो मणिर्नागस्तथैवापूरणः खगः।
वामनश्चैलपत्रश्च कुकुरः कुकुणस्तथा ।।

5-103-10a
5-103-10b

आर्यको नन्दकश्चैव तथा कलशपोतकौ ।
कैलासकः पिञ्जरको नागश्चैरावतस्तथा ।।

5-103-11a
5-103-11b

सुमनोमुखो दधिमुखः शङ्खो नन्दोपनन्दकौ ।
आप्तः कोटरकश्चैव शिखी निष्ठूरिकस्तथा ।।

5-103-12a
5-103-12b

तित्तिरिर्हस्तिभद्रश्च कुमुदो माल्यपिण्डकः।
द्वौ पद्मौ पुण्डरीकश्च पुष्पो मुद्गरपर्णकः।।

5-103-13a
5-103-13b

करवीरः पीठरकः संवृत्तो वृत्त एव च।
पिण्डारो बिल्वपत्रश्च मूषिकादः शिरीषकः ।।

5-103-14a
5-103-14b

दिलीपः शङ्खशीर्षश्च ज्योतिष्कोऽथापराजितः ।
कौरव्यो धृतराष्ट्रश्च कुहुरः कृशकस्तथा ।।

5-103-15a
5-103-15b

विरजा धारणश्चैव सुबाहुर्मुखरो जयः ।
बधिरान्धौ विशुण्डिश्च विरसः सुरसस्तथा ।।

5-103-16a
5-103-16b

एते चान्ये च बहवः कश्यपस्यात्मजाः स्मृताः ।
मातले पश्य यद्यत्र कश्चित्ते रोचते वरः ।।

5-103-17a
5-103-17b

कण्व उवाच।

5-103-18x

मातलिस्त्वेकमव्यग्रः सततं संनिरीक्ष्य वै।
पप्रच्छ नारदं तत्र प्रीतिमानिव चाभवत् ।।

5-103-18a
5-103-18b

मातलिरुवाच।

5-103-19x

स्थितो य एष पुरतः कौरव्यस्यार्यकस्य तु।
द्युतिमान्दर्शनीयश्च कस्यैष कुलनन्दनः ।।

5-103-19a
5-103-19b

कः पिता जननी चास्य कतमस्यैष भोगिनः।
वंशस्य कस्यैष महान्केतुभूत इव स्थितः ।।

5-103-20a
5-103-20b

प्रणिधानेन धैर्येण रूपेण वयसा च मे।
मनः प्रविष्टो देवर्षे गुणकेश्याः पतिर्वरः ।।

5-103-21a
5-103-21b

कण्व उवाच।

5-103-22x

मातलिं प्रीतमनसं दृष्ट्वा सुमुखदर्शनात्।
निवेदयामास तदा माहात्म्यं जन्म कर्म च ।।

5-103-22a
5-103-22b

नारद उवाच।

5-103-23x

ऐरावतकुले जातः सुमुखो नाम नागराट्।
आर्यकस्य मतः पौत्रो दौहित्रो वामनस्य च ।।

5-103-23a
5-103-23b

एतस्य हि पिता नागश्चिकुरो नाम मातले।
नचिराद्वैतनेयेन पञ्चत्वमुपपादितः ।।

5-103-24a
5-103-24b

ततोऽब्रवीत्प्रीतमना मातलिर्नारदं वचः ।
एष मे रुचितस्तात जामाता भुजगोत्तमः ।।

5-103-25a
5-103-25b

क्रियतामत्र यत्नो वै प्रीतिमानस्म्यनेन वै।
अस्मै नागाय वै दातुं प्रियां दुहितरं मुने ।।

5-103-26a
5-103-26b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि त्र्यधिकशततमोऽध्यायः ।।

उद्योगपर्व-102 पुटाग्रे अल्लिखितम्। उद्योगपर्व-104