महाभारतम्-05-उद्योगपर्व-104

विकिस्रोतः तः
← उद्योगपर्व-103 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-104
वेदव्यासः
उद्योगपर्व-105 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

नारदेन आर्यकंप्रति पौत्रार्थं मातलिकन्यापरिग्रहचोदनम् ।। 1 ।।
आर्यकेण नारदंप्रति सुमुखजनकं भक्षितवता वैनतेयेन मासान्तरे सुमुखभक्षणप्रतिज्ञानिवेदनम् ।। 2 ।।
मातलिना तार्क्ष्यात्सुमुखरिरक्षया सुमुखनारदाभ्यां सह शक्रसमीपगमनम् ।। 3 ।।
नारदेन मातालेकार्यं विज्ञापितेन विष्णुना सुमुखाय अमृतवितरणाज्ञापनेपि इन्द्रेण अमृताप्रदानेनैव दीर्घायुर्दानम् ।। 4 ।।
मातलिना सुमुखाय स्वकन्यां प्रदाय विवाहनिर्वर्तनम् ।। 5 ।।




कण्व उवाच।

5-104-1x

मातलेर्वचनं श्रुत्वा नारदो मुनिसत्तमः।
अब्रवीद्देवराजं तमार्यकं कुरुनन्दन।।

5-104-1a
5-104-1b

सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत्।
शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली ।।

5-104-2a
5-104-2b

शक्रस्यायं सखा चैव मन्त्री सारथिरेव च ।
अल्पान्तरप्रभावश्च वासवेन रणे रणे ।।

5-104-3a
5-104-3b

अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् ।
देवासुरेषु युद्धेषु मनसैव नियच्छति ।।

5-104-4a
5-104-4b

अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः ।
अनेन बलभित्पूर्वं प्रहृते प्रहरत्युत ।।

5-104-5a
5-104-5b

अस्य कन्या वरारोहा रूपेणासदृशी भुवि ।
सत्यशीलगुणोपेता गुणकेशीति विश्रुता ।।

5-104-6a
5-104-6b

तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते।
सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः ।।

5-104-7a
5-104-7b

यदि ते रोचते सम्यग्भुजगोत्तम मा चिरम् ।
क्रियतामार्यक क्षिप्रं बुद्धिः कन्यापरिग्रहे ।।

5-104-8a
5-104-8b

यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः ।
कुले तव तथैवास्तु गुणकेशी सुमध्यमा ।।

5-104-9a
5-104-9b

पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु ।
सदृशीं प्रतिरूपस्य वासवस्य शचीमिव ।।

5-104-10a
5-104-10b

पितृहीनमपि ह्येनं गुणतो वरयामहे।
बहुमानाच्च भवतस्तथैवैरावतस्य च ।।

5-104-11a
5-104-11b

सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः ।
अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः ।
मातलिस्तस्य संमानं कर्तुमर्हो भवानपि ।।

5-104-12a
5-104-12b
5-104-12c

कण्व उवाच।

5-104-13x

स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः ।
व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते ।।

5-104-13a
5-104-13b

आर्यक उवाच।

5-104-14x

मन्ये नैतद्बहुमतं महर्षे वचनं तव।
सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत्।
कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने ।।

5-104-14a
5-104-14b
5-104-14c

अस्य देहकरस्तात मम पुत्रो महाद्युते।
भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् ।।

5-104-15a
5-104-15b

पुनरेव च तेनोक्तं वैनतेयेन गच्छता ।
मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो ।।

5-104-16a
5-104-16b

ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम्।
तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै ।।

5-104-17a
5-104-17b

कण्व उवाच।

5-104-18x

मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया।
जामातृभावेन वृतः सुमुखस्तव पुत्रजः ।।

5-104-18a
5-104-18b

सोऽयं मया च सहितो नारदेन च पन्नगः।
त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् ।।

5-104-19a
5-104-19b

शेषेणैवास्य कार्येण प्रज्ञास्वाम्यहमायुषः ।
सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम ।।

5-104-20a
5-104-20b

सुमुखश्च मया सार्धं देवेशमिगच्छतु।
कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजङ्गम ।।

5-104-21a
5-104-21b

`कण्व उवाच।

5-104-22x

आर्यकेणाभ्यनुज्ञाता गम्यतामिति भारत।'
ततस्ते सुमुखं गृह्य सर्व एव महौजसः।
ददृशुः शक्रमासीनं देवराजं महाद्युतिम् ।।

5-104-22a
5-104-22b
5-104-22c

सङ्गत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः ।
ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति ।।

5-104-23a
5-104-23b

वैशंपायन उवाच।

5-104-24x

ततः पुरन्दरं विष्णुरुवाच भुवनेश्वरम्।
अमृतं दीयतामस्मै क्रियताममरैः समः ।।

5-104-24a
5-104-24b

मातलिर्नारदश्चैव सुमुखश्चैव वासव।
लभन्तां भवतः कामात्काममेतं यथेप्सितम् ।।

5-104-25a
5-104-25b

पुरन्दरोऽथ संचिन्त्य वैनतेयपराक्रमम् ।
विष्णुमेवाब्रवीदेनं भवानेव ददात्विति ।।

5-104-26a
5-104-26b

विष्णुरुवाच।

5-104-27x

ईशस्त्वं सर्वलोकानां चराणामचराश्च ये।
त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो ।।

5-104-27a
5-104-27b

प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम्।
न त्वेनममृतप्राशं चकार बलवृत्रहा ।।

5-104-28a
5-104-28b

लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह।
कृतदारो यथाकामं जगाम च गृहान्प्रति ।।

5-104-29a
5-104-29b

नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ ।
अभिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् ।।

5-104-30a
5-104-30b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि चतुरधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-104-20 अस्यायुषः शेषेण कार्येण प्रज्ञास्यामि विज्ञापयिष्यामि ।।

उद्योगपर्व-103 पुटाग्रे अल्लिखितम्। उद्योगपर्व-105