महाभारतम्-05-उद्योगपर्व-146

विकिस्रोतः तः
← उद्योगपर्व-145 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-146
वेदव्यासः
उद्योगपर्व-147 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

सूर्येण कर्णंप्रति कुन्तीवचनस्वीकरणविधानम् ।। 1 ।।
कर्णेन कुन्तींप्रति सोपालम्भं दुर्योधनपरित्यागस्य सयुक्तिकमनौचेत्यकथनपूर्वकं अर्जुनवर्जं पाण्डवासंहरणप्रतिज्ञानम् ।। 2 ।।

वैशंपायन उवाच।

5-146-1x

ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम्।
दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् ।।

5-146-1a
5-146-1b

सूर्य उवाच।

5-146-2x

सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु।
श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा ।।

5-146-2a
5-146-2b

वैशंपायन उवाच।

5-146-3x

एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना ।
चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा ।।

5-146-3a
5-146-3b

कर्ण उवाच।

5-146-4x

न चैतच्छ्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया।
धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव ।।

5-146-4a
5-146-4b

अकरोन्मयि यत्पापं भवती सुमहात्ययम् ।
अपाकीर्णोऽस्मि यन्मातस्तद्यशःकीर्तिनाशनम् ।।

5-146-5a
5-146-5b

अहं चेत्क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् ।
त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् ।।

5-146-6a
5-146-6b

क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम।
हीनसंस्क्रासमयमद्य मां समचूचुदः ।।

5-146-7a
5-146-7b

न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया।
सा मां संबोधयस्यद्य केवलात्महितैषिणी ।।

5-146-8a
5-146-8b

कृष्णेन सहितात्को वै न व्यथेत धनंजयात्।
कोद्य भीतं न मां विद्यात्पर्थानां समितिं गतम् ।।

5-146-9a
5-146-9b

अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः ।
पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति ।।

5-146-10a
5-146-10b

सर्वकामैः संविभक्तः पूजितश्च यथासुखम् ।
अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् ।।

5-146-11a
5-146-11b

उपनह्य परैर्वैरं ये मां नित्यमुपासते ।
नमस्कुर्वन्ति च सदा वसवो वासवं यथा ।।

5-146-12a
5-146-12b

मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम्।
मन्यन्ते ते कथं तेषामहं छिन्द्यां मनोरथम् ।।

5-146-13a
5-146-13b

मया प्लवेन संग्रामं तितीर्षन्ति दुरत्ययम्।
अपारे पारकामा ये त्यजेयं तानहं कथम् ।।

5-146-14a
5-146-14b

अयं हि कालः संप्राप्तो धार्तराष्ट्रोपजीविनाम् ।
निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता ।।

5-146-15a
5-146-15b

कृतार्थाः सुभृता ये हि कृत्यकाले ह्युपस्थिते।
अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः ।।

5-146-16a
5-146-16b

राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम्।
नैवायं न परो लोको विद्यते पापकर्मणाम्।

5-146-17a
5-146-17b

धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः ।
बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे।।

5-146-18a
5-146-18b

आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम्।
अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः ।।

5-146-19a
5-146-19b

न च तेऽयं समारम्भो मयि मोघो भविष्यति।
वध्यान्विषह्यान्संग्रामे न हनिष्यामि ते सुतान् ।।

5-146-20a
5-146-20b

युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते ।
अर्जुनेन समं युद्धमपि यौधिष्ठिरे बले ।।

5-146-21a
5-146-21b

अर्जुनं हि निहत्याजौ संप्राप्तं स्यात्फलं मया।
यशसा चापि युज्येयं निहतः सव्यसाचिना ।।

5-146-22a
5-146-22b

न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि ।
निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि ।।

5-146-23a
5-146-23b

इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेषती ।
उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पनम् ।।

5-146-24a
5-146-24b

एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः ।
यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् ।।

5-146-25a
5-146-25b

त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन ।
दत्तं तत्प्रतिजानीहि सङ्गरप्रतिमोचनम् ।।

5-146-26a
5-146-26b

अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् ।
तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् ।।

5-146-27a
5-146-27b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
षट्चत्वारिंशदधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-146-4 न श्रद्दधे कर्तव्यत्वेन न मन्ये। धर्मद्वारं विपरीतलक्षणया धर्मापगमद्वारम्। तव नियोगकरणं त्वदाज्ञप्तार्थानुष्ठानम् ।। 5-146-5 सुमहात्ययं सुमहान् अत्ययो जातिभ्रंशाख्यो विनाशो यस्मात्। अपाकीर्णस्त्यक्तः ।। 5-146-6 त्वत्कृते त्वत्सुखार्थं कानीनो गर्भः प्रकटो माभूदिति हेतोरहं क्षत्रसत्क्रियां चेन्न प्राप्तस्तर्हि त्वदन्यः कः शत्रुः किं ममाहितं पापीय इति इतोपि पापतरं कुर्यान्न कोऽपीत्यर्थः ।। 5-146-7 क्रियाकाले क्षत्रियोचितसंस्कारकाले। अनुक्रोशं दयाम्। समचूचुदः स्वकार्यार्थं प्रेरितवत्यनि ।। 5-146-12 उपनह्य बध्वा ।। 5-146-13 प्रतिसमासितुं जेतुम् ।। 5-146-15 निर्वेष्टव्यं आनृण्यं कर्तव्यम् ।। 5-146-20 विषह्यान् हन्तुं शक्यानपीत्यर्थः ।।

उद्योगपर्व-145 पुटाग्रे अल्लिखितम्। उद्योगपर्व-147