महाभारतम्-05-उद्योगपर्व-147

विकिस्रोतः तः
← उद्योगपर्व-146 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-147
वेदव्यासः
उद्योगपर्व-148 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कृष्णेन पाण्डवान्प्रति संक्षेपेण हास्तिननगरवृत्तान्तकथनम् ।। 1 ।।
पाण्डवैः कृष्णंप्रति विस्तरेण भीष्मादिवचनकथनप्रार्थना ।। 2 ।।
कृष्णेन शमविधायकभीष्मवचनानुवादः ।। 3 ।।





वैशंपायन उवाच।

5-147-1x

आगम्य हास्तिनपुरादुपप्लाव्यमरिन्दमः ।
पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् ।।

5-147-1a
5-147-1b

संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः ।
स्वमेव भवनं शौरिर्विश्रमार्थं जगाम ह ।।

5-147-2a
5-147-2b

विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा।
पाण्डवा भ्रातरः पञ्च भानावस्तंगते सति ।।

5-147-3a
5-147-3b

सन्ध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः।
आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन् ।।

5-147-4a
5-147-4b

युधिष्ठिर उवाच।

5-147-5x

त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः।
किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि ।।

5-147-5a
5-147-5b

वासुदेव उवाच।

5-147-6x

मया नागपुरं गत्वा सभायां धृतराष्ट्रजः।
तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः ।

5-147-6a
5-147-6b

युधिष्ठिर उवाच।

5-147-7x

तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः।
किमुक्तवान्हृषीकेश दुर्योधनममर्षणम् ।।

5-147-7a
5-147-7b

आचार्यो वा महाभाग भारद्वाजः किमब्रवीत्।
पितरौ धृतराष्ट्रस्तं गान्धारी वा किमब्रवीत् ।।

5-147-8a
5-147-8b

पिता यवीयानस्माकं क्षत्ता धर्मविदां वरः।
पुत्रशोकाभिसन्तप्तः किमाह धृतराष्ट्रजम् ।।

5-147-9a
5-147-9b

किंच सर्वे नृपतयः सभायां ये समासते।
उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन ।।

5-147-10a
5-147-10b

उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः।
धार्तराष्ट्रस्य तेषां हि वचनं कुरुसंसदि ।।

5-147-11a
5-147-11b

कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः ।
अप्रियं हृदये मह्यं तन्न तिष्ठति केशव ।।

5-147-12a
5-147-12b

तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो।
यथा च नाभिपद्येत कालस्तात तथा कुरु।
भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः ।।

5-147-13a
5-147-13b
5-147-13c

वासुदेव उवाच।

5-147-14x

श्रृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः।
मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे ।।

5-147-14a
5-147-14b

मया विश्राविते वाक्ये जहास धृतराष्ट्रजः ।
अथ भीष्मः सुसंक्रुद्ध इदं वचनमब्रवीत् ।।

5-147-15a
5-147-15b

दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते।
तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु ।।

5-147-16a
5-147-16b

मम तात पिता राजञ्शन्तनुर्लोकविश्रुतः।
तस्याहमेक एवासं पुत्रः पुत्रवतां वरः ।।

5-147-17a
5-147-17b

तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः।
एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः ।।

5-147-18a
5-147-18b

न चोच्छेदं कुलं यायाद्विस्तीर्येच्च कथं यशः।
तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम् ।।

5-147-19a
5-147-19b

प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च।
अराजा चोर्ध्वरेताश्च यथा सुविदितं तव।
प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन् ।।

5-147-20a
5-147-20b
5-147-20c

तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः ।
विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिव ।।

5-147-21a
5-147-21b

स्वर्यातेऽहं पितरि तं स्वराज्ये सन्न्यवेशयम्।
विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः ।।

5-147-22a
5-147-22b

तस्याहं सदृशान्दारान्राजेन्द्र समुपाहरम्।
जित्वा पार्थिवसङ्घातमपि ते बहुशः श्रुतम् ।।

5-147-23a
5-147-23b

ततो रामेण समरे द्वन्द्वयुद्धमुपागमम्।
स हि रामभयादेभिर्नागरैर्विप्रवासितः ।।

5-147-24a
5-147-24b

दारेष्वप्यतिसक्तश्च यक्ष्माणं समपद्यत।
यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः ।
तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः ।।

5-147-25a
5-147-25b
5-147-25c

प्रजा ऊचुः ।

5-147-26x

उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः।
ईतीः प्रणुद भद्रं शन्तनोः कुलवर्धन ।।

5-147-26a
5-147-26b

पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः ।
अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि ।।

5-147-27a
5-147-27b

व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय।
त्वयि जिवती मा राष्ट्रं विनाशमुपगच्छतु ।।

5-147-28a
5-147-28b

भीष्म उवाच।

5-147-29x

प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः ।
प्रतिज्ञां रक्षमाणस्य तद्वृत्तं स्मरतस्तथा ।
ततः पौरा महाराज माता काली च मे शुभा ।।

5-147-29a
5-147-29b
5-147-29c

भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः।
मामूचुर्भृशसंतप्ता भव राजेति सन्ततम् ।।

5-147-30a
5-147-30b

प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति।
स त्वमस्मद्धितार्थं वै राजा भव महामते ।।

5-147-31a
5-147-31b

इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः ।
तेभ्यो न्यवेदयं तत्र प्रतिज्ञां पितृगोरवात् ।।

5-147-32a
5-147-32b

ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः ।
विशेषतस्त्वदर्थं च धुरि मा मां नियोजय ।।

5-147-33a
5-147-33b

ततोऽहं प्राञ्जलिर्भूत्वा मातरं संप्रसादयम्।
नाम्ब शन्तनुना जातः कौरवं वंशमुद्वहन् ।।

5-147-34a
5-147-34b

प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः ।
विशेषतस्त्वदर्थं च प्रतिज्ञां कृतवानहम् ।।

5-147-35a
5-147-35b

अहं प्रेष्यश्च दासश्च तवाद्य सुतवत्सले ।
एवं तामनुनीयाहं मातरं जनसन्निधौ ।।

5-147-36a
5-147-36b

अयाचं भ्रतृदारेषु तदा व्यासं महामुनिम् ।
सह मात्रा महाराज प्रसाद्य तमृषिं महामुनिम् ।

5-147-37a
5-147-37b

अपत्यार्थं महाराज प्रसादं कृतवांश्च सः ।
त्रीन्स पुत्रानजनयत्तदा भरतसत्तम ।।

5-147-38a
5-147-38b

अन्धः करणहीनत्वान्न वै राजा पिता तव।
राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः ।।

5-147-39a
5-147-39b

स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः ।
मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् ।।

5-147-40a
5-147-40b

मयि जीवति राज्यं कः संप्रशासेत्पुमानिह।
मावमंस्या वचो मह्यं शममिच्छामि वः सदा ।।

5-147-41a
5-147-41b

न विशेषोऽस्ति मे पुत्र त्वयि तेषु च षार्थिव।
मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च ।।

5-147-42a
5-147-42b

श्रोतव्यं खलु वृद्धानां नाभिशङ्कीर्वचो मम।
नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा ।।

5-147-43a
5-147-43b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
सप्तचत्वारिंशदधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-147-13 नाभिपद्येत नातिक्रामेत ।। 5-147-19 कालीं सत्यवतीम् ।। 5-147-20 प्रतीतः तुष्टः ।। 5-147-24 विप्रवासितः दूरेस्थापितः ।।

उद्योगपर्व-146 पुटाग्रे अल्लिखितम्। उद्योगपर्व-148