महाभारतम्-05-उद्योगपर्व-030

विकिस्रोतः तः
← उद्योगपर्व-029 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-030
वेदव्यासः
उद्योगपर्व-031 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

सञ्जयेन गमनाय युधिष्ठिराद्यामन्त्रणम् ।। 1 ।। युधिष्ठिरेण सञ्जयंप्रति आभीष्मं आखञ्जकुब्जं सर्वेषु यथायोग्यं वन्दनादिपूर्वकं स्वस्य कुशलनिवेदनचोदनम् ।। 2 ।। तथा दुर्योधनंप्रति सन्धिविग्रहान्यतरपक्षस्वीकरणाभ्यनुज्ञानकथनचोदनम् ।। 3 ।।
























































सञ्जय उवाच।

5-30-1x

आमन्त्रये त्वां नरदेवदेव
गच्छाम्यहं पाण्डव स्वस्ति तेऽस्तु।
कच्चिन्न वाचा वृजिनं हि किंचि-
दुच्चारितं मे मनसोऽभिषङ्गात् ।।

5-30-1a
5-30-1b
5-30-1c
5-30-1d

जनार्दनं भीमसेनार्जुनौ च
माद्रीसुतौ सात्यकिं चेकितानम् ।
आमन्त्र्य गच्छामि शिवं सुखं वः
सौम्येन मां पश्यत चक्षुषा नृपाः ।।

5-30-2a
5-30-2b
5-30-2c
5-30-2d

युधिष्ठिर उवाच।

5-30-3x

अनुज्ञातः सञ्जय स्वस्ति गच्छ
न नः स्मरस्यप्रियं जातु विद्वन्।
विद्मश्च त्वां ते च वयं च सर्वे
शुद्धात्मानं मध्यगतं सभास्थम् ।।

5-30-3a
5-30-3b
5-30-3c
5-30-3d

आप्तो दूतः सञ्जय सुप्रियोऽसि
कल्याणवाक् शीलवांस्तृप्तिमांश्च।
न मुह्येस्त्वं सञ्जय जातु मत्या
न च क्रुद्ध्येरुच्यमानोऽपि तत्त्वम् ।।

5-30-4a
5-30-4b
5-30-4c
5-30-4d

न मर्मगां जातु वक्ताऽसि रूक्षां
नोपश्रुतिं कटुकां नोति शुष्काम्।
धर्मारामामर्थवतीमहिंस्रा-
मेतां वाचं तव जानीम सूत ।।

5-30-5a
5-30-5b
5-30-5c
5-30-5d

त्वमेव नः प्रियतमोऽसि दूत
इहागच्छेद्विदुरो वा द्वितीयः।
अभीक्ष्णदृष्टोऽसि पुरातनस्त्वं
धनञ्जयस्यात्मसमः सखाऽसि ।।

5-30-6a
5-30-6b
5-30-6c
5-30-6d

इतो गत्वा सञ्जय क्षिप्रमेव
उपातिष्ठेथा ब्राह्मणान्ये तदर्हाः।
विशुद्धवीर्याश्चरणोपपन्नाः
कुले जाताः सर्वधर्मापपन्नाः ।।

5-30-7a
5-30-7b
5-30-7c
5-30-7d

स्वाध्यायिनो ब्राह्मणा भिक्षवश्च
तपस्विनो ये च नित्या वनेषु ।
अभिवाद्य तान्मद्वचनेन वृद्धां-
स्तथैव तान्कुशलं तात पृच्छेः ।।

5-30-8a
5-30-8b
5-30-8c
5-30-8d

पुरोहितं धृतराष्ट्रस्य राज्ञ-
स्तथाचार्यानृत्विजो ये च तस्य।
तांश्चैवत्वं सहितान्वै यथावत्
सङ्गच्छेथाः कुशलेनैव सूत ।।

5-30-9a
5-30-9b
5-30-9c
5-30-9d

अश्रोत्रिया ये च वसन्ति वृद्धा
मनस्विनः शीलबलोपपन्नाः ।
आशंसन्तोऽस्माकमनुस्मरन्तो
यथाशक्ति धर्ममात्रां चरन्तः ।।

5-30-10a
5-30-10b
5-30-10c
5-30-10d

तेषां सर्वषां कुशलं स्म पृच्छेः ।।'

5-30-11f

आचार्य इष्टो नयगो विधेयो
वेदानभीप्सन्ब्रह्मचर्यं चचार।
योऽस्त्रं चतुष्पात्पुनरेव चक्रे
द्रोणः प्रसन्नोऽभिवाद्यस्त्वयासौ ।।

5-30-12a
5-30-12b
5-30-12c
5-30-12d

अधीतविद्यश्चरणोपपन्नो
योऽस्त्रं चतुष्पात्पुनरेव चक्रे।
गन्धर्वपुत्रप्रतिमं तरस्विनं
तमश्वत्थामानं कुशलं स्म पृच्छेः ।।

5-30-13a
5-30-13b
5-30-13c
5-30-13d

शारद्वतस्यावसथं स्म गत्वा
महारथस्यात्मविदां वरस्य।
त्वं मामभीक्ष्णं परिकीर्तयन्वै
कृपस्य पादौ सञ्जय पाणिना स्पृशेः ।।

5-30-14a
5-30-14b
5-30-14c
5-30-14d

यस्मिन्शौर्यमानृशंस्यं तपश्च
प्रज्ञा शीलं श्रुतरूपे धृतिश्च।
पादौ गृहीत्वा कुरुसत्तमस्य
भीष्मस्य मां तत्र निवेदयेथाः ।।

5-30-15a
5-30-15b
5-30-15c
5-30-15d

प्रज्ञाचक्षुर्यः प्रणेता कुरूणां
बहुश्रुतो वृद्धसेवी मनीषी।
तस्मै राज्ञे स्थविरायाभिवाद्य
आचक्षीथाः सञ्जय मामरोगम् ।।

5-30-16a
5-30-16b
5-30-16c
5-30-16d

ज्येष्ठः पुत्रो धृतराष्ट्रस्य मन्दो
मूर्खः शठः सञ्जय पापशीलः।
यस्यापवादः पृथिवीं याति सर्वां
सुयोधनं कुशलं तात पृच्छेः ।।

5-30-17a
5-30-17b
5-30-17c
5-30-17d

भ्राता कनीयानपि तस्य मन्द-
स्तथाशीलः सञ्जय सोपि शश्वत्।
महेष्वासः शूरतमः कुरूणां
दुःशासनः कुशलं तात वाच्यः ।।

5-30-18a
5-30-18b
5-30-18c
5-30-18d

यस्य कामो वर्तते नित्यमेव
नान्यः शमाद्भारतानामिति स्म।
स बाह्लिकानामृषभो मनीषी
पुनर्यथा माऽभिवदेत्प्रसन्नः ।।

5-30-19a
5-30-19b
5-30-19c
5-30-19b

` भूरिश्रवास्तात निपातयोधी
महेष्वासो रथिनामुत्तमोऽग्र्यः ।
गत्वा स्म तं मद्वचनेन ब्रूयाः
शल्यं तथा मद्वचनात्प्रतीतः ।।

5-30-20a
5-30-20b
5-30-20c
5-30-20d

स्तेषां सर्वेषां कुशलं तात पृच्छेः ।।'

5-30-21f

गुणैरनेकैः प्रवरैश्च युक्तो
विज्ञानवान्नैव च निष्ठुरो यः।
स्नेहादमर्षं सहते सदैव
स सोमदत्तः पूजनीयो मतो मे।।

5-30-22a
5-30-22b
5-30-22c
5-30-22d

अर्हत्तमः कुरुषु सौमदत्तिः
स नो भ्राता संजय मत्सखा च।
महेष्वासो रथिनामुत्तमोऽर्हः
सहामात्यः कुशलं तस्य पृच्छेः ।।

5-30-23a
5-30-23b
5-30-23c
5-30-23d

ये चैवान्ये कुरुमुख्या युवानः
पुत्राः पौत्रा भ्रातरश्चैव ये नः।
यंयमेषां मन्यसे येन योग्यं
तत्तत्प्रोच्यानामयं सूत वाच्याः ।।

5-30-24a
5-30-24b
5-30-24c
5-30-24d

ये राजानः पाण्डवायोधनाय
समानीता धार्तराष्ट्रेण केचित्।
वशातयः साल्वकाः केकयाश्च
तथाम्बष्ठा ये त्रिगर्ताश्च मुख्याः ।।

5-30-25a
5-30-25b
5-30-25c
5-30-25d

प्राच्योदीच्या दाक्षिण्यात्याश्च शूरा-
स्तथा प्रतीच्याः पार्वतीयाश्च सर्वे।
अनृशंसाः शीलवृत्तोपुन्ना-
स्तेषां सर्वेषां कुशलं सूत पृच्छेः ।।

5-30-26a
5-30-26b
5-30-26c
5-30-26d

हस्त्यारोहा रथिनः सादिनश्च
पदातयश्चार्यसङ्घा महान्तः।
आख्याय मां कुशलिनं स्म नित्य-
मनामयं परिपृच्छेः समग्रान् ।।

5-30-27a
5-30-27b
5-30-27c
5-30-27d

तथा राज्ञो ह्यर्थयुक्तानमात्यान्
दौवारिकान्ये च सेनां नयन्ति।
आयव्ययं ये गमयन्ति नित्य-
मर्थांश्च ये महतश्चिन्तयन्ति ।।

5-30-28a
5-30-28b
5-30-28c
5-30-28d

वृन्दारकं कुरुमध्येष्वमूढं
महाप्रज्ञं सर्वधर्मोपपन्नम् ।
न तस्य युद्धं रोचते वै कदाचि-
द्वैश्यापुत्रं कुशलं तात पृच्छेः ।।

5-30-29a
5-30-29b
5-30-29c
5-30-29d

निकर्तने देवने योऽद्वितीय-
श्छन्नोपधः साधुदेवी मताक्षः।
यो दुर्जयो देवरथेन सङ्ख्ये
स चित्रसेनः कुशलं तात वाच्यः ।।

5-30-30a
5-30-30b
5-30-30c
5-30-30d

गान्धारराजः शकुनिः पार्वतीयो
निकर्तने योऽद्वितीयोऽक्षदेवी।
मानं कुर्वन्धार्तराष्ट्रस्य सूत
मिथ्याबुद्धेः कुशलं तात पृच्छेः ।।

5-30-31a
5-30-31b
5-30-31c
5-30-31d

यः पाण्डवानेकरथेन वीरः
समुत्सहत्यप्रधृप्यान्विजेतुम् ।
यो मुह्यतां मोहयिताऽद्वितीयो
वैकर्तनः कुशलं तस्य पृच्छेः ।।

5-30-32a
5-30-32b
5-30-32c
5-30-32d

स एव भक्तः स गुरुः स भर्ता
स वै पिता स च माता सुहृच्च।
अगाधबुद्धिर्विदुरो दीर्घदर्शी
स नो मन्त्री कुशलं तं स्म पृच्छेः ।।

5-30-33a
5-30-33b
5-30-33c
5-30-33d

वृद्धाः स्त्रियो याश्च गुणोपपन्ना
ज्ञायन्ते नः सञ्जय मातरस्ताः।
ताभिः सर्वाभिः सहिताभिः समेत्य
स्त्रीभिः सवृद्धाभिरभिवादं वदेथाः ।।

5-30-34a
5-30-34b
5-30-34c
5-30-34d

कच्चित्पुत्रा जीवपुत्राः सुसम्य-
ग्वर्तन्ते वो वृत्तिमनृशंसरूपाः ।
इति स्मोत्का सञ्जय ब्रूहि पश्चा-
दजातशत्रुः कुशली सपुत्रः ।।

5-30-35a
5-30-35b
5-30-35c
5-30-35d

राज्ञो भार्याः सञ्जय वेत्थ तत्र
तासां सर्वासां कुशलं तात पृच्छेः ।
सुसंगुप्ताः सुरभयोऽनवद्याः
कच्चिद्गृहानावसथाप्रमत्ताः ।।

5-30-36a
5-30-36b
5-30-36c
5-30-36d

कच्चिद्वृत्तिं श्वशुरेषु भद्राः
कल्याणीं वर्तध्वमनृशंसरूपाम्।
यथा च वः स्युः पतयोऽनुकूला-
स्तथा वृत्तिमात्मनः स्थापयध्वम् ।।

5-30-37a
5-30-37b
5-30-37c
5-30-37d

या नः स्नुषाः सञ्जय वेत्थ तत्र
प्राप्ताः कुलेभ्यश्च गुणोपपन्नाः।
प्रजावत्यो ब्रूहि समेत्य ताश्च
युधिष्ठिरो वोऽभ्यवदत्प्रसन्नः ।।

5-30-38a
5-30-38b
5-30-38c
5-30-38d

कन्याः स्वजेथाः सदनेषु सञ्जय
अनामयं मद्वचनेन पृष्ट्वा।
कल्याणा वः सन्तु पतयोऽनुकूला
यूयं पतीनां भवतानुकूलाः ।।

5-30-39a
5-30-39b
5-30-39c
5-30-39d

अलङ्कृता वस्त्रवत्यः सुगन्धा
अबीभत्साः सुखिता भोगवत्यः।
लघु यासां दर्शनं वाक्व लघ्वी
वेशस्त्रियः कुशलं तात पृच्छेः ।।

5-30-40a
5-30-40b
5-30-40c
5-30-40d

दास्यः स्युर्या ये च दासाः कुरूणां
तदाश्रया बहवः कुब्जखञ्जाः।
आख्याय मां कुशलिनं स्म तेभ्यो-
ऽप्यनामयं परिपृच्छेर्जघन्यम् ।

5-30-41a
5-30-41b
5-30-41c
5-30-41d

कच्चिद्वृत्तिं वर्तते वै पुराणीं
कच्चिद्भोगान्दार्तराष्ट्रो ददाति।
अङ्गहीनान्कृपणान्वामनान्वा
यानानृशंस्याद्धार्तराष्ट्रो बिभर्ति ।।

5-30-42a
5-30-42b
5-30-42c
5-30-42d

अन्धाश्च सर्वे बधिरास्तथैव
हस्ताजीवा बहवो येऽत्र सन्ति।
आख्याय मां कुशलिनं स्म तेभ्यो-
ऽप्यनामयं परिपृच्छेर्जघन्यम् ।।

5-30-43a
5-30-43b
5-30-43c
5-30-43d

मा भैष्ट दुःखेन कुजीवितेन
नूनं कृतं परलोकेषु पापम्।
निगृह्य शत्रून्सुहृदोऽनुगृह्य
वासोभिरन्नेन च वो भरिष्ये ।।

5-30-44a
5-30-44b
5-30-44c
5-30-44d

त्वयोच्यमानां श्रृणुयुक्तथा कुरु ।।

5-30-45f

सन्त्येव मे ब्राह्मणेभ्यः कृतानि
भावीन्यथो नो बत वर्तयन्ति ।
तान्पश्यामि युक्तरूपांस्तथैव
तामेव सिद्धिं श्रावयेथा नृपं तम् ।।

5-30-46a
5-30-46b
5-30-46c
5-30-46d

ये चानाथा दुर्बलाः सर्वकाल-
मात्मन्येव प्रयतन्तेऽथ मूढाः।
तांश्चापि त्वं कृपणान्सर्वथैव
ह्यस्मद्वाक्यात्कुशलं तात पृच्छेः ।।

5-30-47a
5-30-47b
5-30-47c
5-30-47d

ये चाप्यन्ये संश्रिता धार्तराष्ट्रा-
न्नानादिग्भ्योऽभ्यागताः सूतपुत्र ।
दृष्ट्वा तांश्चैवार्हतश्चापि सर्वा-
न्संपृच्छेथाः कुशलं चाव्ययं च ।।

5-30-48a
5-30-48b
5-30-48c
5-30-48d

एवं सर्वानागताभ्यागतांश्च
राज्ञो दूतान्सर्वदिग्भ्योभ्युपेतान् ।
पृष्ट्वा सर्वान्कुशलं तांश्च सूत
पश्चादहं कुशली तेषु वाच्यः ।।

5-30-49a
5-30-49b
5-30-49c
5-30-49d

न हीदृशाः सन्त्यपरे पृथिव्यां
ये योधका धार्तराष्ट्रेण लब्धाः।
धर्मस्तु नित्यो मम धर्म एव
महाबलः शत्रुनिबर्हणाय ।।

5-30-50a
5-30-50b
5-30-50c
5-30-50d

इदं पुनर्वचनं धार्तराष्ट्रं
सुयोधनं सञ्जय श्रावयेथाः ।
यस्ते शरीरे हृदयं दुनोति
कामः कुरूनसपत्नोऽनुशिष्याम् ।।

5-30-51a
5-30-51b
5-30-51c
5-30-51d

न विद्यते युक्तिरेतस्य काचि-
न्नैवं विधास्यामि यथा प्रियं ते।
ददस्व वा शक्रपुरीं ममैव
युध्वस्व वा भारतमुख्यवीर ।।

5-30-52a
5-30-52b
5-30-52c
5-30-52d

।। इति श्रीमन्महाभारते उद्योगपर्वणि
सञ्जयानपर्वणि त्रिंशोऽध्यायः ।।

[सम्पाद्यताम्]

5-30-1 अभिषङ्गात् आवेशात् ।। 5-30-5 उपश्रुतिं वार्ताम्। रूक्षां मर्मगाम्। कटुकां नीरसाम् ।। 5 ।। 5-30-7 चरणं ब्रह्मचर्येणाध्ययनम् ।। 5-30-10 अश्रोत्रियाः अत्रैवर्णिकाः शूद्रादयः। धर्ममात्रां धर्मलेशं जरन्तः ।। 5-30-11 श्लाघ्यस्व स्तुहि। जघन्यं पश्चातेभ्यस्तेषां अनामयं पृच्छेः। व्यवहारेण वाणिज्यादिना पालयन्तः स्थानाधिकारिणः ।। 5-30-12 चतुष्पात् मन्त्र उपचारः प्रयोगः संहारश्चेति चत्वारः पादा अस्थेति अस्त्रम् ।। 5-30-13 गन्धर्वेति सौन्दर्यं संगीतं च तस्मिन् द्योतितम् ।। 5-30-25 पाण्डवायोधनाय पाण्डवैः सह युद्धाय ।। 5-30-29 वृन्दारकं श्रेष्ठम् ।। 5-30-30 निकर्तनेऽर्थापहारे । छन्नोपधो गुप्तछलः ।। 5-30-32 मुह्यतां धार्तराष्ट्राणाम् ।। 5-30-40 शीघ्रहारि। वेशस्त्रियो वेश्याः ।। 5-30-44 शत्रून् धार्तराष्ट्रान् निगृह्य वः युष्मान् भरिष्ये पोषयिष्ये इति ब्रूया इति शेषः ।। 44 । 5-30-46 मे मया कृतानि वत्सरदेयानि नो वर्तयन्ति न चालयन्ति। त्वदीया अधिकारिणः तान्यहं यथा यथावत्पश्यमि तथैव तां सिद्धिं त्वद्दत्तं सम्यक् परिपालयामीति दूतद्वारा मां श्रावयेथा इति तं नृपं दुर्योधनं ब्रृहीति शेषः ।। 46 ।। 5-30-47 आत्मन्येव प्रयतन्ते न तु कर्तुं शक्नुवन्ति ।। 5-30-50 नित्यः अविनाशिफलः ।। 50 ।। 5-30-52 युक्तिः संभावना एतस्यार्थस्य न विद्यते। शक्रपुरीं इन्द्रप्रस्थम् ।। 52 ।।

उद्योगपर्व-029 पुटाग्रे अल्लिखितम्। उद्योगपर्व-031