महाभारतम्-05-उद्योगपर्व-124

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-123 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-124
वेदव्यासः
उद्योगपर्व-125 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

धृतराष्ट्रेण श्रीकृष्णंप्रति दुर्योधनानुनयप्रार्थन ।। 1 ।।
श्रीकृष्णेन दुर्योधनानुनयः ।। 2 ।।








धृतराष्ट्र उवाच।

5-124-1x

भगवन्नेवमेवैतद्यथा वदसि नारद।
इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् ।।

5-124-1a
5-124-1b

वैशंपायन उवाच।

5-124-2x

एवमुक्त्वा ततः कृष्णमभ्यभाषत कौरवः ।
स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव ।।

5-124-2a
5-124-2b

न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् ।
`न मंस्यन्ते दुरात्मानः पुत्रा मम जनार्दन ।।'

5-124-3a
5-124-3b

अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम।
अनुनेतुं महाबाहो यतस्व पुरुषोत्तम ।।

5-124-4a
5-124-4b

न श्रृणोति महाबाहो वचनं साधु भाषितम् ।
गान्धार्याश्च हृषीकेश विदुरस्य च धीमतः ।
अन्येषां चैव सुहृदां भीष्मादीनां हितैषिणाम् ।।

5-124-5a
5-124-5b
5-124-5c

स त्वं पापमतिं क्रूरं पापचित्तमचेतनम् ।
अनुशाधि दुरात्मानं स्वयं दुर्योधनं नृपम् ।।

5-124-6a
5-124-6b

सुहृत्कार्यं तु सुमहत्कृतं ते स्याञ्जनार्दन ।।

5-124-7a

वैशंपायन उवाच।

5-124-8x

ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् ।
अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् ।।

5-124-8a
5-124-8b

दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम।
शर्मार्थं ते विशेषेण सानुबन्धस्य भारत ।।

5-124-9a
5-124-9b

महाप्रज्ञकुले जातः साध्वेतत्कर्तुमर्हसि ।
श्रुतवृत्तोपसंपन्नः सर्वैः समुदितो गुणैः ।।

5-124-10a
5-124-10b

दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः ।
त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे ।।

5-124-11a
5-124-11b

धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम्।
असतां विपरीता तु लक्ष्यते भरतर्षभ ।
विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि ।।

5-124-12a
5-124-12b
5-124-12c

अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् ।
अनिष्टश्चानिमित्तश्च न च शक्यश्च भारत ।।

5-124-13a
5-124-13b

तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि।
भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप ।।

5-124-14a
5-124-14b

अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे ।।

5-124-15a

प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः।
सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ।
तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः ।।

5-124-16a
5-124-16b
5-124-16c

पितामहस्य द्रोणस्य विदुरस्य महामतेः ।
कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ।।

5-124-17a
5-124-17b

अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विविंशतेः।
ज्ञातीनां चैव भूयिष्ठं मित्राणां च परन्तप ।।

5-124-18a
5-124-18b

शमे शर्म भवेत्तात सर्वस्य जगतस्तथा।
ह्रीमानसि कुले जातः श्रुतवानानृशंस्यवान् ।
तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ ।।

5-124-19a
5-124-19b
5-124-19c

एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत ।
उक्तमापद्गतः पूर्वं पितुः स्मरसि शासनम् ।।

5-124-20a
5-124-20b

रोचते ते पितुस्तात पाण्डवैः सह सङ्गमः।
सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यां तात रोचताम् ।।

5-124-21a
5-124-21c

श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते ।
विपाकान्ते दहत्येनं किंपाकमिव भक्षितम् ।।

5-124-22a
5-124-22b

यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते।
स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते ।।

5-124-23a
5-124-23b

यस्तु न्निःश्रेयसं श्रुत्वा प्राक्तदेवाभिपद्यते।
आत्मनो मतमुत्सृज्य स लोके सुखमेधते ।।

5-124-24a
5-124-24b

योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते।
शृणोति प्रतिकूलानि द्विषतां वशमेति सः ।।

5-124-25a
5-124-25b

सतां मतमतिक्रम्य योऽसतां वर्तते मते।
शोचन्ते व्यसने तस्य सुहृदो नचिरादिव ।।

5-124-26a
5-124-26b

मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते ।
स घोरामापदं प्राप्य नोत्तारमधिगच्छति ।।

5-124-27a
5-124-27b

योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सताम्।
परान्वृणीति स्वान्द्वेष्टि तं गौस्त्यजति भारत ।।

5-124-28a
5-124-28b

तत्वं विरुद्धा तैर्वीरैस्येतत्राणमिच्छसि ।
अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ ।।

5-124-29a
5-124-29b

को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् ।
अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः ।।

5-124-30a
5-124-30b

जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया ।
न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः ।।

5-124-31a
5-124-31b

मिथ्योपचरितास्तात जन्मप्रभृति बान्धवाः ।
त्वयि सम्यङ्भहाबाहो प्रतिपन्ना यशस्विनः ।।

5-124-32a
5-124-32b

त्वयाऽपि प्रतिपत्तव्यं तथैव भरतर्षभ ।
स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः ।।

5-124-33a
5-124-33b

त्रिवर्गयुक्तः प्राज्ञानामारम्भो भरतर्षभ ।
धर्मार्थावनुरुद्ध्यन्ते त्रिवर्गासंभवे नराः ।।

5-124-34a
5-124-34b

पृथक्व विनिविष्टानां धर्मं धीरोऽनुरुध्यते।
मध्यमोऽर्थं कलिं बालः काममेवानुरुद्ध्यते ।।

5-124-35a
5-124-35b

इन्द्रियैः प्राकृतो लोभाद्धर्मं विप्रजहाति यः ।
कामार्थावनुपायेन लिप्समानो विनश्यति ।।

5-124-36a
5-124-36b

कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत्।
न हि धर्मादपैत्यर्थः कामो वाऽपि कदाचन ।।

5-124-37a
5-124-37b

उपायं धर्ममेवाहुस्त्रिवर्गस्य विशांपते ।
लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते ।।

5-124-38a
5-124-38b

स त्वं तातानुपायेन लिप्ससे भरतर्षभ ।
आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु ।।

5-124-39a
5-124-39b

आत्मानं तक्षति ह्येष वनं परशुना यथा।
यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते ।
न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् ।।

5-124-40a
5-124-40b
5-124-40c

अविच्छिन्नमतेरस्य कल्याणे धीयते मतिः।
आत्मवान्नावमन्येत त्रिषु लोकेषु भारत ।।

5-124-41a
5-124-41b

अप्यन्यं प्राकृतं कञ्चित्किमु तान्पाण्डवर्षभान्।
अमर्षवशमापन्नो न किंचिद्बुद्व्यते जनः ।।

5-124-42a
5-124-42b

छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत ।
श्रेयस्ते दुर्जनात्तात पाण्डवैः सह सङ्गतम् ।।

5-124-43a
5-124-43b

तैर्हि संप्रीपमाणस्त्वं सर्वान्कामानवाप्स्यसि।
पाण्डवैर्निर्मितां भूमिं भुञ्जानो राजसत्तम ।।

5-124-44a
5-124-44b

पाण्डवान्पृष्ठतः कृत्वा त्राणमाशससऽन्वतः ।
दुःशासने दुर्विषहे कर्णे चापि ससौबले ।।

5-124-45a
5-124-45b

एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत ।
न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा ।।

5-124-46a
5-124-46b

विक्रमे चाप्यपर्याप्तः पाण्डवान्प्रति भारत।
न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया ।।

5-124-47a
5-124-47b

क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे।
इदं सनिहितं तात समग्रं पार्थिवं बलम् ।।

5-124-48a
5-124-48b

अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः ।
भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः ।।

5-124-49a
5-124-49b

अशक्ताः सर्व एवैते प्रतियोद्धुं धनञ्जयम् ।
अजेयो ह्यर्जुनः सङ्ख्ये सर्वैरपि सुरासुरैः ।
मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः ।।

5-124-50a
5-124-50b
5-124-50c

दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले।
योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् ।।

5-124-51a
5-124-51b

किं ते जनक्षयेणेह कृतेन भरतर्षभ ।
यस्मिञ्चिते जितं ते स्यात्पुमानेकः स दृश्यतां ।।

5-124-52a
5-124-52b

यः सदेवान्सगन्धर्वान्सयक्षासुरपन्नगान् ।
अजयत्खाण्डवप्रस्थे कस्तं युद्धेय मानवः ।।

5-124-53a
5-124-53b

तथा विराटनगरे श्रूयते महदद्भुतम्।
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ।।

5-124-54a
5-124-54b

युद्धे येन महादेवः साक्षात्सन्तोषितः शिवः ।
तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् ।
आशंससीह समरे वीरमर्जुनमूर्जितम् ।।

5-124-55a
5-124-55b
5-124-55c

मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति ।
युद्धे प्रतीपमायान्तमपि साक्षात्पुरन्दरः ।।

5-124-56a
5-124-56b

बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः ।
पातयेत्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ।।

5-124-57a
5-124-57b

पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्संबन्धिनस्तथा।
त्वत्कृते न विनश्येयुरिमे भरतसत्तमाः ।।

5-124-58a
5-124-58b

अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् ।
कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप ।।

5-124-59a
5-124-59b

त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः ।
महाराज्येऽपि पितरं धृतराष्ट्रं जनेश्वरम् ।।

5-124-60a
5-124-60b

मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् ।
अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्नुहि ।।

5-124-61a
5-124-61b

पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः ।
संप्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि ।।

5-124-62a
5-124-62b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
चतुर्विंशत्यधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-124-19 शास्त्रे शासने ।। 5-124-22 किंपाकं महाकालफलम् ।। 5-124-24 निःश्रेयसं कल्याणम् ।। 5-124-28 गौः भूमिः ।। 5-124-32 उपचरिताः प्रचारिताः ।। 5-124-35 अर्थं कलि कलहहेतम ।। 5-124-36 अनुपायन हीनोपायेन ।। 5-124-44 निर्मितां वशीकरणेनोत्पादिताम् ।। 5-124-52 यस्मिन्नर्जुने जिते सति ते तव जितं जयः स्यात् ।।

उद्योगपर्व-123 पुटाग्रे अल्लिखितम्। उद्योगपर्व-125