महाभारतम्-05-उद्योगपर्व-158

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-157 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-158
वेदव्यासः
उद्योगपर्व-159 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

श्रीकृषअणश्यालस्य रुक्मिणः पाण्डवानुपेत्य अर्जुनंप्रति तस्य भयविकल्पपूर्वकं दर्पास्त्वेन साहाय्यकरणोक्तिः ।। 1 ।।
अर्जुनेन तस्य प्रत्याख्यानम् ।। 2 ।।
दुर्योधनमेत्य तथाभाषिणस्तस्य तेनापि प्रत्याख्यानम् ।। 3 ।।




वैशंपायन उवाच।

5-158-1x

एतस्मिन्नैव काले तु भीष्मकस्य महात्मनः ।
हिरण्यरोम्णो नृपतेः साक्षादिन्द्रसखस्य वै ।।

5-158-1a
5-158-1b

आकूतीनामधिपतिर्भोजस्यातियशस्विनः ।
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ।।

5-158-2a
5-158-2b

यः किंपुरुषसिंहस्य गन्धमादनवासिनः ।
कृत्स्नं शिष्यो धनुर्वेदं चतुष्पादमवाप्तवान् ।।

5-158-3a
5-158-3b

यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा।
शार्ङ्गेण च महाबाहुः संमितं दिव्यलक्षणम् ।।

5-158-4a
5-158-4b

त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् ।
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ।
शार्ङ्ग तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः ।।

5-158-5a
5-158-5b
5-158-5c

धारयामास तत्कृष्णः परसेनाभयावहम्।
गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः ।।

5-158-6a
5-158-6b

द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत।
संछिद्य मौरवान्पाशान्निहत्य मुरमोजसा ।।

5-158-7a
5-158-7b

निर्जित्य नरकं भौममाहृत्य मणिकुण्डले ।
षोडश स्त्रीसहस्राणि रत्नानि विविधानि च ।।

5-158-8a
5-158-8b

प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम्।
रुक्मी तु विजयं लब्ध्वा धनुर्मेघनिभस्वनम् ।।

5-158-9a
5-158-9b

विभीषयन्निव जगत्पाण्डवानभ्यवर्तत।
नामृष्यत पुरा योऽसौ स्वबाहुलगर्वितः ।।

5-158-10a
5-158-10b

रुक्मिण्या हरणं वीरो वासुदेवेन धीमता।
कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्ये जनार्दनम् ।।

5-158-11a
5-158-11b

ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरः।
सेनया चतुरङ्गिण्या महत्या दूरपातया ।।

5-158-12a
5-158-12b

विचित्रायुधवर्मिण्या गङ्ग्येव प्रवृद्धया।
स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् ।।

5-158-13a
5-158-13b

व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम्।
यत्रैव कृष्णेन रणे निर्जितः परवीरहा ।।

5-158-14a
5-158-14b

तत्र भोजकटं नाम कृतं नगरमुत्तमम् ।
सैन्येन महता तेन प्रभूतगजवाजिना ।।

5-158-15a
5-158-15b

पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप ।
स भोजराजः सैन्येन महता परिवारितः ।।

5-158-16a
5-158-16b

अक्षौहिण्या महावीर्यः पाण्डवान्क्षिप्रमागमत्।
ततः स कवची धन्वी तली खङ्गी शरासनी ।।

5-158-17a
5-158-17b

रथेनादित्यवर्णेन प्रविवेश महाचमूम् ।
विदितः पाण्डवेयानां वासुदेवप्रियेप्सया ।।

5-158-18a
5-158-18b

युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत्।
स पूजितः पाण्डुपुत्रैर्यथान्यायं सुसंस्तुतः ।।

5-158-19a
5-158-19b

प्रतिगृह्य तु तान्सर्वान्विश्रान्तः सहसैनिकः ।
उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम् ।।

5-158-20a
5-158-20b

सहायोस्मि स्थितो युद्धे यदि भीतोसि पाण्डव ।
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ।।

5-158-21a
5-158-21b

न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन।
हनिष्यामिरणे भागं यन्मे दास्यसि पाण्डव ।।

5-158-22a
5-158-22b

अपि द्रोणकृपौ वीरौ भीष्मकर्णावथो पुनः ।
अथवा सर्व एवैते तिष्ठन्तु वसुधाधिपाः ।।

5-158-23a
5-158-23b

निहत्य समरे शत्रूंस्तव दास्यामि मेदिनीम् ।
इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ ।।

5-158-24a
5-158-24b

श्रृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः ।
वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम्।
उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ।।

5-158-25a
5-158-25b
5-158-25c

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः ।
सहायो घोषयात्रायां कस्तदासीत्सखा मम ।।

5-158-26a
5-158-26b

तथा प्रतिभये तस्मिन्देवदानवसंकुले।
खाण्डवे युध्यमानस्य कः सहायस्तदावभवत् ।।

5-158-27a
5-158-27b

निवातकवचैर्युद्धे कालकेयैश्च दानवैः ।
तत्र मे युध्यमानस्य कः सहायस्तदाभवत् ।।

5-158-28a
5-158-28b

तथा विराटनगरे कुरुभिः सह सङ्गरे।
युध्यतो बहुभिस्तत्र कः सहायोऽभवन्मम ।।

5-158-29a
5-158-29b

उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम्।
वरुणं पावकं चैव कृपं द्रोणं च माधवम् ।।

5-158-30a
5-158-30b

धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् ।
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ।।

5-158-31a
5-158-31b

कौरवामां कुले जातः पाण्डोः पुत्रो विशेषतः ।
द्रोणं व्यपदिशञ्छिष्यो वासुदेवसहायवान् ।।

5-158-32a
5-158-32b

कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीति यशोहरम् ।
वचनं नरशार्दूल वज्रायुधसमस्वनम् ।।

5-158-33a
5-158-33b

नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे ।
यथाकामं यथायोगं गच्छ वात्रैव तिष्ठ वा ।।

5-158-34a
5-158-34b

`वैशंपायन उवाच

5-158-35x

तच्छ्रुत्वा वचनं तस्य विजयस्य च धीमतः ।'
विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् ।
दुर्योधनमुपागच्छत्तथैव भरतर्षभ ।।

5-158-35a
5-158-35b
5-158-35c

तथैव चाभिगम्यैनमुवाच वसुधाधिपः।
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ।।

5-158-36a
5-158-36b

द्वावेव तु महाराज तस्माद्युद्धादपेयतुः।
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिप ।।

5-158-37a
5-158-37b

गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा।
उपाविशन्पाण्डवेया मन्त्राय पुनरेव च ।।

5-158-38a
5-158-38b

समितिर्धर्मराजस्य सा पार्थिवसमाकुला ।
शुशुभे तारकैश्चित्रा द्यौश्चन्द्रेणेव भारत ।।

5-158-39a
5-158-39b

।। इति श्रीमन्महाभारते
उद्योगपर्वमि सैन्यनिर्याणपर्वणि
अष्टप़ञ्चाशदधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-158-1 साक्षात्पुत्र इति संबन्धः ।। 5-158-2 आकूतीनां संकल्पानाम् । सत्यसंकल्प इत्यर्थः ।। 5-158-7 मौरवान् आन्त्रतन्तिमयान् । यैरिदानी शार्ङ्गे धनुषि ज्या क्रियते।। 5-158-30 उपजीव्य आराध्य। रणे युद्धनिमित्तम् ।। 5-158-32 द्रोणं अयं मम गुरुरिति व्यपदिशन् कथयन् ।।

उद्योगपर्व-157 पुटाग्रे अल्लिखितम्। उद्योगपर्व-159