महाभारतम्-05-उद्योगपर्व-159

विकिस्रोतः तः
← उद्योगपर्व-158 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-159
वेदव्यासः
उद्योगपर्व-160 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

धृतराष्ट्रेण सञ्जयंप्रति कुरुपाण्डवसेनयोर्वृत्तवृत्तान्तकथनचोदना ।। 1 ।।
संजयेन धृतराष्ट्रंप्रति पुरुषस्याकर्तृत्वकथनपूर्वकं स्वेन वक्ष्यमाणबन्धुनिधनश्रवणेन शोकानधिगमोपदेशः ।। 2 ।।



जनमेजय उवाच।

5-159-1x

तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ ।
किमर्कुर्वंश्च कुरवः कालेनाभिप्रचोदिताः ।।

5-159-1a
5-159-1b

वैशंपायन उवाच।

5-159-2x

तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ।
धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत् ।।

5-159-2a
5-159-2b

एहि सञ्जय सर्व मे आचक्ष्वानवशेषतः ।
सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः ।।

5-159-3a
5-159-3b

दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् ।
यदहं बुद्ध्यमानोऽपि युद्धदोषान्क्षयोदयान् ।।

5-159-4a
5-159-4b

तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् ।
न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः ।।

5-159-5a
5-159-5b

भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी ।
दुर्योधनं समासाद्य पुनः सा परिवर्तते ।।

5-159-6a
5-159-6b

एवं गते वै यद्भावि तद्भविष्यति सञ्जय ।
क्षत्रधर्मः किल रणे तनुत्यागे हि पूजितः ।।

5-159-7a
5-159-7b

सञ्जय उवाच।

5-159-8x

त्वद्युक्तोऽयमनुप्रश्नो महाराज यथेच्छसि।
न तु दुर्योधने दोषमिममाधातुमर्हसि ।।

5-159-8a
5-159-8b

शृणुष्वानवशेषेण वदतो मम पार्थिव ।
य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः ।
न स कालं न वा देवानेनसा गन्तुमर्हति ।।

5-159-9a
5-159-9b
5-159-9c

महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत्।
स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ।।

5-159-10a
5-159-10b

निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया ।
अनुभूताः सहामात्यैर्निकृतैरधिदेवने ।।

5-159-11a
5-159-11b

हयानां च गजानां च राज्ञां चामिततेजसाम् ।
वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः ।।

5-159-12a
5-159-12b

स्थिरो भूत्वा महाप्राज्ञ सर्वलोकक्षयोदयम्।
यथाभूतं महायुद्धे श्रुत्वा मा विमना भव ।।

5-159-13a
5-159-13b

न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः ।
अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् ।।

5-159-14a
5-159-14b

केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया।
पूर्वकर्मभिरप्यन्ये त्रैधमेतत्प्रदृश्यते।
तस्मादनर्थमापन्नः स्थिरो भूत्वा निशामय ।।

5-159-15a
5-159-15b
5-159-15c

।। इति श्रीमन्महाभारते
उद्योगपर्वणि सैन्यनिर्याणपर्वणि
एकोनषष्ट्यधिकशततमोऽध्यायः ।।

।। समाप्तं च सैन्यनिर्याणपर्व ।।

[सम्पाद्यताम्]

5-159-4 क्षयस्यैव उदयो येभ्यस्तान् क्षयोदयान् ।। 5-159-5 निकृतिप्रज्ञं कपटविषयैव प्रज्ञा न धर्मविषया यस्य तम् ।। 5-159-9 एनसा दोषेण देवान्कालं वा गुन्तुं उपलब्धुं नार्हति। न स कालं न वा देवं वक्तुमेतदिहार्हतीति पाठेप्ययमेवार्थः ।। 5-159-11 निकाराः तिरस्काराः ।।

उद्योगपर्व-158 पुटाग्रे अल्लिखितम्। उद्योगपर्व-160