महाभारतम्-05-उद्योगपर्व-150

विकिस्रोतः तः
← उद्योगपर्व-149 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-150
वेदव्यासः
उद्योगपर्व-151 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कृष्णेन पाण्डवान्प्रति भीष्मादिवचनमवधूय समुत्थितेन दुर्योधनेन चोदितानां राज्ञीं भीष्मं पुरस्कृत्य सेनाभिः सह कुरुक्षत्रेप्रस्थानकथनम् ।। 1 ।।
तथा स्वेन सामादित्रयप्रयोगेऽप्यवशीभूते दुर्योधने दण्डस्यैव प्रयोक्तव्यत्वकथनम् ।। 2 ।।

भगवानुवाच।

5-150-1x

एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च।
गान्धार्या धृतराष्ट्रेण न वै मन्दोऽन्वबुद्ध्यत ।।

5-150-1a
5-150-1b

अवधूयोत्थितो मन्दः क्रोधसंरक्तलोचनः।
अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः ।।

5-150-2a
5-150-2b

आज्ञापयच्च राज्ञस्तान्पार्थिवान्नष्टचेतसः ।
प्रयात वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः ।।

5-150-3a
5-150-3b

ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः ।
भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः ।।

5-150-4a
5-150-4b

अक्षौहिण्यो दशैका च कौरवाणां समागताः ।
तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत ।।

5-150-5a
5-150-5b

यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशांपते ।
उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च ।।

5-150-6a
5-150-6b

गान्धार्या धृतराष्ट्रेण समक्षं मम भारत ।
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ।।

5-150-7a
5-150-7b

साम चादौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता ।
अभेदायास्य वंशस्य प्रजानां च विवृद्धये ।।

5-150-8a
5-150-8b

पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते।
कर्मानुकीर्तनं चैव देवमानुपसंहितम् ।।

5-150-9a
5-150-9b

यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः ।
तदा मया समानीय भेदिताः सर्वपार्थिवाः ।।

5-150-10a
5-150-10b

अद्भुतानि च घोराणि दारुणानि च भारत।
अमानुषाणि कर्माणि दर्शितानि मया विभो ।।

5-150-11a
5-150-11b

निर्भर्त्सयित्वा राज्ञस्तांस्तृणीकृत्य सुयोधनम् ।
राधेयं भीषयित्वा च सौबलं च पुनः पुनः ।।

5-150-12a
5-150-12b

द्यूततो धार्तराष्ट्राणां निन्दां कृत्वा तथा पुनः।
भेदयित्वा नृपास्नर्वान्वाग्भिर्मन्त्रेम चासकृत् ।।

5-150-13a
5-150-13b

पुनः सामाभिसंयुक्तं संप्रदानमथाब्रुवम्।
अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च।।

5-150-14a
5-150-14b

ते शूरा धृतराष्ट्रस्य भीष्मस्य विदुरस्य च ।
तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः ।।

5-150-15a
5-150-15b

प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च।
यथाह राजा गाङ्गेयो विदुरश्च हितं तव ।।

5-150-16a
5-150-16b

सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय।
अवश्यं भरणीया हि पितुस्ते राजसत्तम ।।

5-150-17a
5-150-17b

एवमुक्तोऽपि दुष्टात्मा नैव भागं व्यमुञ्चत।
दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा ।।

5-150-18a
5-150-18b

निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः ।
एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ।।

5-150-19a
5-150-19b

न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव ।
विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः ।।

5-150-20a
5-150-20b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
पञ्चाशदधिकशततमोऽध्यायः ।।

उद्योगपर्व-149 पुटाग्रे अल्लिखितम्। उद्योगपर्व-151