महाभारतम्-05-उद्योगपर्व-167

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-166 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-167
वेदव्यासः
उद्योगपर्व-168 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भीष्मेण दुर्योधनसैन्यस्य रथातिरथसंख्यानम् ।। 1 ।।

भीष्म उवाच।

5-167-1x

शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप।
प्रयुज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः ।।

5-167-1a
5-167-1b

एतस्य सेना दुर्धर्षा समरे प्रतियायिनः।
विकृतायुधभूयिष्ठा वायुवेगसमा जवे ।।

5-167-2a
5-167-2b

द्रोणपुत्रो महेष्वासः सर्वानेवातिधन्विनः ।
समरे चित्रयोधी च दृढास्त्रश्च महारथः ।।

5-167-3a
5-167-3b

एतस्य हि महाराज यथा गाण्डीवधन्वनः।
शरासनविनिर्मुक्ताः संसक्ता यान्ति सायकाः ।।

5-167-4a
5-167-4b

नैष शक्यो मया वीरः संख्यातुं रथसत्तमः ।
निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महारथः ।।

5-167-5a
5-167-5b

क्रोधस्तेजश्च तपसा संभृतोश्रमवासिनाम् ।
द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः ।।

5-167-6a
5-167-6b

दोषस्त्वस्य महानेको येनैव भरतर्षभ ।
न मे रथो नातिरथो मतः पार्थिवसत्तम ।।

5-167-7a
5-167-7b

जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः ।
न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि ।।

5-167-8a
5-167-8b

हन्यादेकरथेनैव देवानामपि वाहिनीम् ।
वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् ।।

5-167-9a
5-167-9b

असंख्येयगुणो वीरः प्रहन्ता दारुणद्युतिः।
दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति ।।

5-167-10a
5-167-10b

युगान्ताग्निसमः क्रोधात्सिंहग्रीवो महाद्युतिः ।
एष भारत युद्धस्य पृष्ठं संशयमिष्यति ।।

5-167-11a
5-167-11b

पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः ।
रणे कर्म महत्कर्ता अत्र मे नास्ति संशयः ।।

5-167-12a
5-167-12b

अस्त्रवेगानिलोद्भूतः सेनाकक्षेन्धनोत्थितः ।
पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति रणे धृतः ।।

5-167-13a
5-167-13b

रथयूथपयूथानां यूथपोऽय नरर्षभः ।
भरद्वाजात्मजः कर्ता कर्म तीव्रं हितं तव ।।

5-167-14a
5-167-14b

सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः ।
गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनञ्जयः ।।

5-167-15a
5-167-15b

नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् ।
हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् ।।

5-167-16a
5-167-16b

श्लाघते यं सदा वीर पार्थस्य गुणविस्तरैः ।
पुत्रादभ्यधिकं चैनं भारद्वाजोऽनुपश्यति ।।

5-167-17a
5-167-17b

हन्यादेकरथेनैव देवगन्धर्वमानुषान् ।
एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् ।।

5-167-18a
5-167-18b

पौरवो राजशार्दूलस्तव राजन्महारथः ।
मतो मम रथोदारः परवीररथारुजः ।।

5-167-19a
5-167-19b

स्वेन सैन्येन महता प्रतपञ्शत्रुवाहिनीम्।
प्रधक्ष्यति स पाञ्चालान्कक्षमग्निगतिर्यथा ।।

5-167-20a
5-167-20b

सत्यश्रवा रथस्त्वेको राजपुत्रो बृहद्बलः।
तव राजन्रिपुबले कालवत्प्रचरिष्यति।।

5-167-21a
5-167-21b

एतस्य योधा राजेन्द्र विचित्रकवचायुधाः ।
विचरिष्यन्ति सङ्‌ग्रामे निन्घन्तः शास्त्रवांस्तव ।।

5-167-22a
5-167-22b

वृषसेनो रथस्तेऽग्र्यः कर्णपुत्रो महारथः ।
प्रधक्ष्यति रिपूणां ते बलं तु बलिनां वरः ।।

5-167-23a
5-167-23b

जघसन्धो महातेजा राजन्रथवरस्तव ।
त्यक्ष्यते समरे प्राणान्माधवः परवीरहा ।।

5-167-24a
5-167-24b

एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः ।
रथेन वा माहबाहुः क्षपयञ्शत्रुवाहिनीम् ।।

5-167-25a
5-167-25b

रथ एष महाराज मतो मे राजसत्तम।
त्वदर्थे त्यक्ष्यते प्राणान्सहसैन्यो महारणे ।।

5-167-26a
5-167-26b

एष विक्रान्तयोधी च चित्रयोधी च संगरे ।
वीतभीश्चापि ते राजञ्शत्रुभिः सह योत्स्यते ।।

5-167-27a
5-167-27b

बाह्लीकोऽतिरथश्चैव समरे चानिवर्तनः ।
मम राजन्मतो युद्धे शूरो वैवस्वतोपमः ।।

5-167-28a
5-167-28b

न ह्येष समरं प्राप्य निवर्तेत कथञ्चन।
यथा सततगो राजन्स हि हन्यात्परान्रणे ।।

5-167-29a
5-167-29b

सेनापतिर्महाराज सत्यवांस्ते महारथः ।
रणेष्वद्भुतकर्मा च रथी पररथारुजः ।।

5-167-30a
5-167-30b

एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन ।
उत्स्मयन्नुत्पतत्येष परान्रथपथे स्थितान् ।।

5-167-31a
5-167-31b

एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् ।
कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः ।।

5-167-32a
5-167-32b

अलम्बुसो राक्षसेन्द्रः क्रूरकर्मा महारथः ।
हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् ।।

5-167-33a
5-167-33b

एष राक्षससैन्यानं सर्वेषां रथसत्तमः ।
मायावी दृढवैरश्च समरे विचरिष्यति ।।

5-167-34a
5-167-34b

प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् ।
गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः ।।

5-167-35a
5-167-35b

एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः ।
दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः ।।

5-167-36a
5-167-36b

ततः सखायं गान्धारे मानयन्पाकशासनम् ।
अकरोत्संविदं तेन पाण्डवेन महात्मना ।।

5-167-37a
5-167-37b

एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः ।
ऐरावतगतो राजा देवानामिव वासवः ।।

5-167-38a
5-167-38b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि रथातिरथसंख्यानपर्वणि
सप्तषष्ट्यधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-167-6 आश्रमवासिनामृषीणां क्रोधस्तेजश्व तयोः समुदायरूप इत्यर्थः ।। 5-167-11 पृष्ठं शेषम् ।। 5-167-31 उत्स्मयन् हृष्यन् ।। 5-167-37 संविदं मैत्रीम् ।।

उद्योगपर्व-166 पुटाग्रे अल्लिखितम्। उद्योगपर्व-168