महाभारतम्-05-उद्योगपर्व-167
← उद्योगपर्व-166 | महाभारतम् पञ्चमपर्व महाभारतम्-05-उद्योगपर्व-167 वेदव्यासः |
उद्योगपर्व-168 → |
महाभारतस्य पर्वाणि |
---|
भीष्मेण दुर्योधनसैन्यस्य रथातिरथसंख्यानम् ।। 1 ।।
भीष्म उवाच। | 5-167-1x |
शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप। | 5-167-1a 5-167-1b |
एतस्य सेना दुर्धर्षा समरे प्रतियायिनः। | 5-167-2a 5-167-2b |
द्रोणपुत्रो महेष्वासः सर्वानेवातिधन्विनः । | 5-167-3a 5-167-3b |
एतस्य हि महाराज यथा गाण्डीवधन्वनः। | 5-167-4a 5-167-4b |
नैष शक्यो मया वीरः संख्यातुं रथसत्तमः । | 5-167-5a 5-167-5b |
क्रोधस्तेजश्च तपसा संभृतोश्रमवासिनाम् । | 5-167-6a 5-167-6b |
दोषस्त्वस्य महानेको येनैव भरतर्षभ । | 5-167-7a 5-167-7b |
जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः । | 5-167-8a 5-167-8b |
हन्यादेकरथेनैव देवानामपि वाहिनीम् । | 5-167-9a 5-167-9b |
असंख्येयगुणो वीरः प्रहन्ता दारुणद्युतिः। | 5-167-10a 5-167-10b |
युगान्ताग्निसमः क्रोधात्सिंहग्रीवो महाद्युतिः । | 5-167-11a 5-167-11b |
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः । | 5-167-12a 5-167-12b |
अस्त्रवेगानिलोद्भूतः सेनाकक्षेन्धनोत्थितः । | 5-167-13a 5-167-13b |
रथयूथपयूथानां यूथपोऽय नरर्षभः । | 5-167-14a 5-167-14b |
सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः । | 5-167-15a 5-167-15b |
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् । | 5-167-16a 5-167-16b |
श्लाघते यं सदा वीर पार्थस्य गुणविस्तरैः । | 5-167-17a 5-167-17b |
हन्यादेकरथेनैव देवगन्धर्वमानुषान् । | 5-167-18a 5-167-18b |
पौरवो राजशार्दूलस्तव राजन्महारथः । | 5-167-19a 5-167-19b |
स्वेन सैन्येन महता प्रतपञ्शत्रुवाहिनीम्। | 5-167-20a 5-167-20b |
सत्यश्रवा रथस्त्वेको राजपुत्रो बृहद्बलः। | 5-167-21a 5-167-21b |
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः । | 5-167-22a 5-167-22b |
वृषसेनो रथस्तेऽग्र्यः कर्णपुत्रो महारथः । | 5-167-23a 5-167-23b |
जघसन्धो महातेजा राजन्रथवरस्तव । | 5-167-24a 5-167-24b |
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः । | 5-167-25a 5-167-25b |
रथ एष महाराज मतो मे राजसत्तम। | 5-167-26a 5-167-26b |
एष विक्रान्तयोधी च चित्रयोधी च संगरे । | 5-167-27a 5-167-27b |
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तनः । | 5-167-28a 5-167-28b |
न ह्येष समरं प्राप्य निवर्तेत कथञ्चन। | 5-167-29a 5-167-29b |
सेनापतिर्महाराज सत्यवांस्ते महारथः । | 5-167-30a 5-167-30b |
एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन । | 5-167-31a 5-167-31b |
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् । | 5-167-32a 5-167-32b |
अलम्बुसो राक्षसेन्द्रः क्रूरकर्मा महारथः । | 5-167-33a 5-167-33b |
एष राक्षससैन्यानं सर्वेषां रथसत्तमः । | 5-167-34a 5-167-34b |
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् । | 5-167-35a 5-167-35b |
एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः । | 5-167-36a 5-167-36b |
ततः सखायं गान्धारे मानयन्पाकशासनम् । | 5-167-37a 5-167-37b |
एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः । | 5-167-38a 5-167-38b |
।। इति श्रीमन्महाभारते |
5-167-6 आश्रमवासिनामृषीणां क्रोधस्तेजश्व तयोः समुदायरूप इत्यर्थः ।। 5-167-11 पृष्ठं शेषम् ।। 5-167-31 उत्स्मयन् हृष्यन् ।। 5-167-37 संविदं मैत्रीम् ।।
उद्योगपर्व-166 | पुटाग्रे अल्लिखितम्। | उद्योगपर्व-168 |