महाभारतम्-05-उद्योगपर्व-048

विकिस्रोतः तः
← उद्योगपर्व-047 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-048
वेदव्यासः
उद्योगपर्व-049 →

सञ्जयेन धृतराष्ट्रंप्रति श्रीकृष्णमहिमादिप्रतिपादकानामर्जुनवचसां विस्तरेण कथनम् ।। 1 ।।



































































































धृतराष्ट्र उवाच।

5-48-1x

पृच्छामि त्वां सञ्जय राजमध्ये
किमब्रवीद्वाक्यमदीनसत्वः।
धनञ्जयस्तात युधां प्रेणता
दुरात्मनां जीवितच्छिन्महात्मा ।।

5-48-1a
5-48-1b
5-48-1c
5-48-1d

सञ्जय उवाच।

5-48-2x

दुर्योधनो वाचमिमां श्रृणोतु
यदब्रवीदर्जुनो योत्स्यमानः।
युधिष्ठिरस्यानुमते महात्मा
धनञ्जयः श्रृण्वतः केशवस्य ।।

5-48-2a
5-48-2b
5-48-2c
5-48-2d

अवित्रस्तो बाहुवीर्यं विजान-
न्नुपह्वरे वासुदेवस्य धीरः।
अवोचन्मां योत्स्यमानः किरीटी
मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् ।।

5-48-3a
5-48-3b
5-48-3c
5-48-3d

संश्रृण्वतस्तस्य दुर्भाषिणो वै
दुरात्मनः सूतपुत्रस्य सूत।
यो योद्धुमाशंसति मां सदैव
मन्दप्रज्ञः कालपक्वोऽतिमूढः ।।

5-48-4a
5-48-4b
5-48-4c
5-48-4d

ये वै राजानः पाण्डवायोधनाय
समानीताः श्रृण्वतां चापि तेषाम् ।
यथा समग्रं वचनं मयोक्तं
सहामात्यं श्रावयेथा नृपं तत ।।

5-48-5a
5-48-5b
5-48-5c
5-48-5d

यथा नूनं देवराजस्य देवाः
शुश्रूषन्ते वज्रहस्तस्य सर्वे।
तथाऽश्रृण्वन्पाण्डवाः सृञ्जयाश्च
किरीटिना वाचमुक्तां समर्थाम् ।।

5-48-6a
5-48-6b
5-48-6c
5-48-6d

इत्यब्रवीदर्जुनो योत्स्यमानो
गाण्डीवधन्वा लोहितपद्मनेत्रः।
न चेद्राज्यं मुञ्चति धार्तराष्ट्रो
यधिष्ठिरस्याजमीढस्य राज्ञः ।।

5-48-7a
5-48-7b
5-48-7c
5-48-7d

अस्ति नूनं कर्म कृतं पुरस्ता-
दनिर्विष्टं पापकं धार्तराष्ट्रैः।
येषां युद्धं भीमसेनार्जुनाभ्यां
तथाश्विभ्यां वासुदेवेन चैव ।।

5-48-8a
5-48-8b
5-48-8c
5-48-8d

शैनयेन ध्रुवमात्तायुधेन
धृष्टद्युम्नेनाथ शिखण्डिना च।
युधिष्ठिरेणेन्द्रकल्पेन चैव
योऽपध्यानान्निर्दहेद्गां दिवं च ।।

5-48-9a
5-48-9b
5-48-9c
5-48-9d

तैश्चेद्योद्धुं मन्यते धार्तराष्ट्रो
निर्वृत्तोऽर्थः सकलः पाण्डवानाम्।
मा तत्कार्षीः पाण्डवस्यार्थहेतो-
रुपैहि युद्धं यदि मन्यसे त्वम् ।।

5-48-10a
5-48-10b
5-48-10c
5-48-10d

यां तां वने दुःखशय्यामवात्सी-
त्प्रव्राजितः पाण्डवो धर्मचारी।
आप्नोतु तां दुःखतरामनर्था-
मन्त्यां शय्यां धार्तराष्ट्रः पराशुः ।।

5-48-11a
5-48-11b
5-48-11c
5-48-11d

ह्रिया ज्ञानेन तपसा दमेन
शौर्येणाथो धर्मगुप्त्या धनेन।
अन्यायवृत्तिः कुरु पाण्डवे या-
नध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा ।।

5-48-12a
5-48-12b
5-48-12c
5-48-12d

मायोपधं प्रतिधानार्जवाभ्यां
तपोदमाभ्यां धर्मगुप्त्या बलेन।
सत्यं ब्रुवन्प्रतिपन्नो नृपो न-
स्तितिक्षमाणः क्लिश्यमानोऽतिवेलम् ।।

5-48-13a
5-48-13b
5-48-13c
5-48-13d

यदा ज्येष्ठः पाण्डवः संशितात्मा
क्रोधं यत्तं वर्षपूगान्सुघोरम्।
अवस्त्रष्टा कुरुपूद्वृत्तचेता-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-14a
5-48-14b
5-48-14c
5-48-14d

कृष्णवर्त्मेव ज्वलितः समिद्धो
यथा दहेत्कक्षमग्निर्निदाघे।
एवं दग्धा धार्तराष्ट्रस्य सेनां
युधिष्ठिरः क्रोधदीप्तोन्ववेक्ष्य ।।

5-48-15a
5-48-15b
5-48-15c
5-48-15d

यदा द्रष्टा भीमसेनं रथस्यं
गदाहस्तं क्रोधविषं वमन्तम्।
अमर्षणं पाण्डवं भीमवेगं
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-16a
5-48-16b
5-48-16c
5-48-16d

सेनागगं दंशितं भीमसेनं
सुलक्षणं वीरहणं परेषाम्।
घ्नन्तं चमूमन्तकसन्निकाशं
तदा स्मर्ता वचनस्यातिमानी ।।

5-48-17a
5-48-17b
5-48-17c
5-48-17d

यदा द्रष्टा भीमसेनेन नागा-
न्निपातितान्गिरिकूटप्रकाशान्।
किम्भैरिवासृग्वमतो भिन्नकुम्भां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-18a
5-48-18b
5-48-18c
5-48-18d

महासिंहो गा इव संप्रविश्य
गदापाणिर्धार्तराष्ट्रानुपेत्य।
यदा भीमो भीमरूपो निहन्ता
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-19a
5-48-19b
5-48-19c
5-48-19d

महाभये वीतभयः कृतास्त्रः
समागमे शत्रुबलावमर्दी।
सकृद्रथेनाप्रतिमान्रथौघा-
न्पदातिसङ्घान्गदयाभिनिघ्नन् ।।

5-48-20a
5-48-20b
5-48-20c
5-48-20d

सैन्याननेकांस्तरसा विगृह्ण-
न्यदा छेत्ता धार्तराष्ट्रस्य सैन्यम्।
छिन्दन्वनं परशुनेव शूर-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-21a
5-48-21b
5-48-21c
5-48-21d

तृणप्रायं ज्वलनेनेव दग्धं
ग्रामं यथा धार्तराष्ट्रान्समीक्ष्य।
पक्वं सस्यं वैद्युतेनेव दग्धं
परासिक्तं विपुलं स्वं बलौघम् ।।

5-48-22a
5-48-22b
5-48-22c
5-48-22d

हतप्रवीरं विमुखं भयार्तं
पराङ्मुखं प्रायशोऽनष्टयोधम्।
शस्त्रार्चिषा भिमसेनेन दग्धं
तदा युद्धं धार्तराष्ट्रोऽन्वतप्त्सत् ।।

5-48-23a
5-48-23b
5-48-23c
5-48-23d

उपासङ्गानाचरेद्दक्षिणेन
वराङ्गानां नकुलश्चित्रयोधी।
यदा रथाग्र्यो रथिनः प्रचेता
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-24a
5-48-24b
5-48-24c
5-48-24d

सुखोचितो दुःखशय्यां वनेषु
दीर्घं कालं नकुलो यामशेत।
आशीविषः क्रुद्ध इवोद्वमन्विषं
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-25a
5-48-25b
5-48-25c
5-48-25d

त्यक्तात्मानः पार्थिवायोधनाय
समादिष्टा धर्मराजेन सूत।
रथैः शुभ्रैः सैन्यमभिद्रवन्तो
दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः ।।

5-48-26a
5-48-26b
5-48-26c
5-48-26d

शिशून्कृतास्त्रानशिशुप्रकाशान्
यदा द्रष्टा कौरवः पञ्च शूरान्।
त्यक्त्वा प्राणान्कौरवानाद्रवन्त-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्।।

5-48-27a
5-48-27b
5-48-27c
5-48-27d

यथा शक्रो दानवनाशनार्थं
सुवर्णतारं रथमुत्तमाश्वैः।
दान्तैर्युक्तं सहदेवोऽधिरूढः
शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः ।।

5-48-28a
5-48-28b
5-48-28c
5-48-28d

महाभये संप्रवृत्ते रथस्थं
विवर्तमानं समरे कृतास्त्रम्।
सर्वा दिशः सपतन्तं समीक्ष्य
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-29a
5-48-29b
5-48-29c
5-48-29d

ह्रीनिषेवो निपुणः सत्यवादी
महाबलः सर्वधर्मोपपन्नः।
गान्धारिमार्छंस्तुमुले क्षिप्रकारी
क्षेप्ता जनान्सहदेवस्तरस्वी ।।

5-48-30a
5-48-30b
5-48-30c
5-48-30d

यदा द्रष्टा द्रौपदेयान्महेषून्
शूरान्कृतास्त्रान्रथयुद्धकोविदान्।
आशीविषान्घोरविषानिवायत-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-31a
5-48-31b
5-48-31c
5-48-31d

यदाभिमन्युः परवीरघाती
शरैः परान्मेघ इवाभिवर्षन्।
विगाहिता कृष्णसमः कृतास्त्र-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-32a
5-48-32b
5-48-32c
5-48-32d

यदा द्रष्टा बालमबालवीर्यं
द्विषच्चमूं मृत्युमिवोत्पतन्तम्।
सौभद्रमिन्द्रप्रतिमं कृतास्त्रं
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-33a
5-48-33b
5-48-33c
5-48-33d

प्रभद्रकाः शीघ्रतरा युवानो
विशारदाः सिंहसमानवीर्याः।
यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-34a
5-48-34b
5-48-34c
5-48-34d

वृद्धौ विराटद्रुपदौ महारथौ
पथक्कमूभ्यामभिवर्तमानौ।
यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-35a
5-48-35b
5-48-35c
5-48-35d

यदा कृतास्त्रो द्रुपदः प्रचिन्वन्
शिरांसि यूनां समरे रथस्थः।
क्रूद्धः शरैश्छेत्स्यति चापमुक्तै-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-36a
5-48-36b
5-48-36c
5-48-36d

यदा विराटः परवीरघाती
रथान्तरे शत्रुचमूं प्रवेष्टा।
मात्स्यैः सार्धमनृशंसरूपै-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-37a
5-48-37b
5-48-37c
5-48-37d

ज्येष्ठं मात्स्यमनृसंसार्यरूपं
विराटपुत्रं रथिनं पुरस्तात्।
यदा द्रष्टा दंशतिं पाण्डवार्थे
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-38a
5-48-38b
5-48-38c
5-48-38d

रणे हते कौरवाणां प्रवीरे
शिखण्डिना शन्तनोर्वै तनूजे।
न जातु नः शत्रवो धारयेयु-
रशंशयं सत्यमेतद्ब्रवीति ।।

5-48-39a
5-48-39b
5-48-39c
5-48-39d

यदा शिखण्डी रथिनः प्रचिन्वन्
भीष्मं रथेनाभियाता वरूथी।
दिव्यैर्हयैरवमृद्गन् रथौघां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-40a
5-48-40b
5-48-40c
5-48-40d

यदा द्रष्टा सृञ्जयानामनीके
धृष्टद्नुम्नं प्रमुखे रोचमानम्।
अस्त्रं यस्मै गुह्यमुवाच धीमा-
न्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः ।।

5-48-41a
5-48-41b
5-48-41c
5-48-41d

यदा स सेनापतिरप्रमेयः
परामृद्गन्निषुभिर्धार्तराष्ट्रान्।
द्रोणं रणे शत्रुसहोभियाता
तदा युद्धं धार्ताराष्ट्रोऽन्वतप्स्यत् ।।

5-48-42a
5-48-42b
5-48-42c
5-48-42d

ह्रीमान्मनीपी बलवान्मनस्वी
स लक्ष्मीवान्सोमकानां प्रबर्हः ।
न जातु तं शत्रवोऽन्ये सहेर-
न्योपां स स्यादग्रणीर्वृष्णिसिंहः ।।

5-48-43a
5-48-43b
5-48-43c
5-48-43d

इदं च ब्रूया मा वृणीष्वेति लोके
युद्धेऽद्वितीयं सचिवं रथस्थम्।
शिनेर्नप्तारं प्रवृणीम सात्यकिं
महाबलं वीतभयं कृतास्त्रम् ।।

5-48-44a
5-48-44b
5-48-44c
5-48-44d

महोरस्को दीर्घबाहुः प्रमाथी
युद्धेऽद्वितीयः परमास्त्रवेदी।
शिनेर्नप्ता तालमात्रायधोऽयं
महारथो वीतभयः कृतास्त्रः ।।

5-48-45a
5-48-45b
5-48-45c
5-48-45d

यदा शिनीनामधिपो मयोक्तः
शरैः परान्मेघ इव प्रवर्षन्।
प्रच्छादयिष्यत्यरिहा योधमुख्यां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-46a
5-48-46b
5-48-46c
5-48-46d

यदा धृतिं कुरुते योत्स्यमानः
स दीर्घबाहुर्दृढधन्वा महात्मा ।
सिंहस्येव गन्धमाघ्राय गावः
संचेष्टन्ते शत्रवोऽस्माद्रणाग्रे ।।

5-48-47a
5-48-47b
5-48-47c
5-48-47d

स दीर्घबाहुर्दृढधन्वा महात्मा
भिन्द्याद्गिरीन्संहरेत्सर्वलोकान्।
अस्त्रे कृती निपुणः क्षिप्रहस्तो
दिवि स्थितः सूर्य इवाभिभाति ।।

5-48-48a
5-48-48b
5-48-48c
5-48-48d

चित्रः सूक्ष्मः सुकृतो यादवस्य
अस्त्रे योगो वृष्णिसिंहस्य भूयान्।
यथाविधं योगमाहुः प्रशस्तं
सर्वैर्गुणैः सात्यकिस्तैरुपेतः ।।

5-48-49a
5-48-49b
5-48-49c
5-48-49d

हिरण्मयं श्वेतहयैश्चतुर्भि-
र्यदा युक्तं स्यन्दनं माधवस्य।
द्रष्टा युद्धे सात्यकेर्धार्तराष्ट्र-
स्तदा तप्स्यत्यकृतात्मा स मन्दः ।।

5-48-50a
5-48-50b
5-48-50c
5-48-50d

यदा रथं हेममणिप्रकाशं
श्वेताश्वयुक्तं वानरकेतुमुग्रम्।
दृष्ट्वा ममाप्यास्थितं केशवेन
तदा तप्स्यत्यकृतात्मा स मन्दः ।।

5-48-51a
5-48-51b
5-48-51c
5-48-51d

यदा मौर्व्यास्तलनिष्पेपमुग्रं
महाशब्दं वज्रनिष्पेपतुल्यम्।
विद्यूयमानस्य महारणे मया
स गाण्डिवस्य श्रोष्यति मन्दबुद्धिः ।।

5-48-52a
5-48-52b
5-48-52c
5-48-52d

तदा मूढो धृतराष्ट्रस्य पुत्र-
स्तप्ता युद्धे दुर्मतिर्दुःसहायः।
दृष्ट्वा सैन्यं बाणवर्षान्धकारे
प्रभज्यन्तं गोकुलवद्रणाग्रे ।।

5-48-53a
5-48-53b
5-48-53c
5-48-53d

बलाहकादुच्चरतः सुभीमा-
न्विद्युत्स्फुलिङ्गानिव घोररूपान्।
सहस्रघ्नान्द्विषतां सङ्गरेषु
अस्थिच्छिदो मर्मभिदः सुपुङ्खान्।।

5-48-54a
5-48-54b
5-48-54c
5-48-54d

यदा द्रष्टा ज्यामुखाद्बाणसङ्घान्
गाण्डीवमुक्तानापततः शिताग्रान्।
हयान्गजान्वर्मिणश्चाददानां-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-55a
5-48-55b
5-48-55c
5-48-55d

यदा मन्दः परबाणान्विमुक्ता-
न्ममेषुभिर्हियमाणान्प्रतीपम्।
तिर्यग्विध्य च्छिद्यमानान्पृषत्कै-
स्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-56a
5-48-56b
5-48-56c
5-48-56d

यदा विपाठा मद्भुजविप्रमुक्ता
द्विजाः फलानीव महीरुहाग्रात्।
प्रचेतार उत्तमाङ्गानि यूनां
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-57a
5-48-57b
5-48-57c
5-48-57d

यदा द्रष्टा पततः स्यन्दनेभ्यो
महागजेभ्योऽश्वगतान्सुयोधनान्।
शरैर्हतान्पातितांश्चैव रङ्गे
तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत्।।

5-48-58a
5-48-58b
5-48-58c
5-48-58d

असंप्राप्तानस्त्रपथं परस्य
यदा द्रष्टा नश्यतो धार्तराष्ट्रान्।
अकुर्वतः कर्म युद्धे समन्ता-
त्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-59a
5-48-59b
5-48-59c
5-48-59d

पदातिसङ्घान्रथसङ्घान्समन्ता-
द्व्यात्ताननः काल इवाततेषुः।
प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः
शत्रूंस्तदा तप्स्यति मन्दबुद्धिः ।।

5-48-60a
5-48-60b
5-48-60c
5-48-60d

सर्वा दिशः संपतता रथेन
रजोध्वस्तं गाण्डिवेन प्रकृत्तम्।
यदा द्रष्टा स्वबलं संप्रमूढं
तदा पश्चात्तप्स्यति मन्दबुद्धिः ।।

5-48-61a
5-48-61b
5-48-61c
5-48-61d

कान्दिग्भूतं छिन्नगात्रं विसंज्ञं
दुर्योधनो द्रक्ष्यति सर्वसैन्यम्।
हताश्ववीराग्र्यनरेन्द्रनागं
पिपासितं श्रान्तपत्रं भयार्तम् ।।

5-48-62a
5-48-62b
5-48-62c
5-48-62d

आर्तस्वरं हन्यमानं हतं च
विकीर्णकेशास्थिकपालसङ्घम्।
प्रजापतेः कर्म यथार्थनिष्ठितं
तदा दृष्ट्वा तप्स्यति मन्दबुद्धिः ।।

5-48-63a
5-48-63b
5-48-63c
5-48-63d

यदा रथे गाण्डिवं वासुदेवं
दिव्यं शङ्खं पाञ्चजन्यं हयांश्च।
तूणावक्षय्यौ देवदत्तं च मां च
दृष्ट्वा युद्धे धार्तराष्ट्रोऽन्वतप्स्यत् ।।

5-48-64a
5-48-64b
5-48-64c
5-48-64d

उद्वर्तयन्दस्युसङ्घान्समेतान्
प्रवर्तयन्युगमन्यद्युगान्ते।
यदा धक्ष्याम्यग्निवत्कौरवेयां-
स्तदा तप्ता धृतराष्ट्रः सपुत्रः।।

5-48-65a
5-48-65b
5-48-65c
5-48-65d

सभ्राता वै सहसैन्यः सभृत्यो
भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः।
दर्पस्यान्ते निहतो वेपमानः
पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः ।।

5-48-66a
5-48-66b
5-48-66c
5-48-66d

पूर्वाह्णे मां कृतजप्यं कदाचि-
द्विप्रः प्रोवाचोदकान्ते मनोज्ञम्।
कर्तव्यं ते दुष्करं कर्म पार्थ
योद्धव्यं कते शत्रुभिः सव्यसाचिन् ।।

5-48-67a
5-48-67b
5-48-67c
5-48-67d

इन्द्रो वा ते हरिवान्वज्रहस्तः
पुरस्ताद्यातु समरेऽरीन्विनिघ्नन्।
सुग्रीवयुक्तेन रथेन वा ते
पश्चात्कृष्णो रक्षतु वासुदेवः ।।

5-48-68a
5-48-68b
5-48-68c
5-48-68d

वज्रे चाहं वज्रहस्तान्महेन्द्रा-
दस्मिन्युद्धे वासुदेवं सहायम्।
स मे लब्धो दस्युवधाय कृष्णो
मन्ये चेतद्विहितं दैवतेर्मे ।।

5-48-69a
5-48-69b
5-48-69c
5-48-69d

अयुद्ध्यमानो मनसापि यस्य
जयं कृष्णः पुरुषस्याभिनन्देत्।
एवं सर्वान्स व्यतीयादमित्रान्
सेन्द्रान्देवान्मानुषे नास्ति चिन्ता ।।

5-48-70a
5-48-70b
5-48-70c
5-48-70d

स बाहुभ्यां सागरमुत्तितीर्षे-
न्महोदधिं सलिलस्याप्रमेयम्।
तेजस्विनं कृष्णमत्यन्तशूरं
युद्धेन यो वासुदेवं जिगीषेत् ।।

5-48-71a
5-48-71b
5-48-71c
5-48-71d

गिरिं य इच्छेत्तु तलेन भेत्तुं
शिलोच्चयं श्वेतमतिप्रमाणम्।
तस्यैव पाणिः सनखो विशीर्ये-
न्न चापि किञ्चित्स गिरेस्तु कुर्यात् ।।

5-48-72a
5-48-72b
5-48-72c
5-48-72d

अग्निं समिद्धं शमयेद्भुजाभ्यां
चन्द्रं च सूर्यं च निवारयेत।
हरेद्देवानाममृतं प्रसह्य
युद्धेन यो वासुदेवं जिगीषेत्।।

5-48-73a
5-48-73b
5-48-73c
5-48-73d

यो रुक्मिणीमेकरथेन भोज-
नुत्साद्य राज्ञः समरे प्रसह्य।
उवाह भार्यां यशसा ज्वलन्तीं
यस्यां जज्ञे रौक्मिणेयो महात्मा ।।

5-48-74a
5-48-74b
5-48-74c
5-48-74d

अयं गान्धारांस्तरसा संप्रमथ्य
जित्वा पुत्रान्नग्नजितः समग्रान्
बद्धं मुमोच विनदन्तं प्रसह्य
सुदर्शनं वै देवतानां ललामम् ।।

5-48-75a
5-48-75b
5-48-75c
5-48-75d

अयं कवाटे निजघान पाण्ड्यं
तथा कलिङ्गान्दन्तवक्रं ममर्द।
अनेन दग्धा वर्षपूगान्विनाथा
वाराणसी नगरी संबभूव ।।

5-48-76a
5-48-76b
5-48-76c
5-48-76d

अयं स्म युद्धे मन्यतेऽन्यैरजेयं
तमेकलव्यं नाम निषादराजम्।
वेगेनैव शैलमभिहत्य जम्भः
शेते स कृष्णेन हतः परासुः ।।

5-48-77a
5-48-77b
5-48-77c
5-48-77d

तथोग्रसेनस्य सुतं सुदुष्टं
वृष्ण्यन्धकानां मध्यगतं सभास्थम्।
अपातयद्बलदेवद्वितीयो
हत्वा ददौ चोग्रसेनाय राज्यम्।।

5-48-78a
5-48-78b
5-48-78c
5-48-78d

अयं सौभं योधयामास स्वस्थं
विभीषणं मायया साल्वराजम्।
सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं
दोर्भ्यां क एनं विषहेत मर्त्यः ।।

5-48-79a
5-48-79b
5-48-79c
5-48-79d

प्राग्ज्योतिषं नाम बभूव दुर्गं
पुरं घोरमसुराणामसह्यम्।
महाबलो नरकस्तत्र भौमो
जहारादित्या मणिकुण्डले शुभे ।।

5-48-80a
5-48-80b
5-48-80c
5-48-80d

न तं देवाः सह शक्रेण शेकुः
समागता युधि मृत्योरभीताः ।
दृष्ट्वा च तं विक्रमं केशवस्य
बलं तथैवास्त्रमवारणीयम् ।।

5-48-81a
5-48-81b
5-48-81c
5-48-81d

जानन्तोऽस्य प्रकृतिं केशवस्य
न्ययोजयन्दस्युवधाय कृष्णम्।
स तत्कर्म प्रतिशुश्राव दुष्कर-
मैश्वर्यवान्सिद्धिषु वासुदेवः ।।

5-48-82a
5-48-82b
5-48-82c
5-48-82d

निर्मोचने षट्सहस्राणि हत्वा
संच्छिद्य पाशान्सहसा क्षुरान्तान्।
मुरं हत्वा विनिहत्यौघरक्षो
निर्मोचनं चापि जगाम वीरः ।।

5-48-83a
5-48-83b
5-48-83c
5-48-83d

तत्रैव तेनास्य बभूव युद्धं
महाबलेनातिबलस्य विष्णोः ।
शेते स कृष्णेन हतः परासु-
र्वातेनेव मथितः कर्णिकारः ।।

5-48-84a
5-48-84b
5-48-84c
5-48-84d

आहृत्य कृष्णो मणिकुण्डले ते
हत्वा च भौमं नरकं मुर च।
श्रिया वृतो यशसा चैव विद्वा-
न्प्रत्याजगामाप्रतिमप्रभावः ।।

5-48-85a
5-48-85b
5-48-85c
5-48-85d

अस्मै वराण्यददंस्तत्र देवा
दृष्ट्वा भीमं कर्म कृतं रणे तत्।
श्रमश्च ते युध्यमानस्य न स्या-
दाकाशे चाप्सु च ते क्रमः स्यात् ।।

5-48-86a
5-48-86b
5-48-86c
5-48-86d

शस्त्राणि गात्रे न च ते क्रमेर-
न्नित्येव कृष्णश्च ततः कृतार्थः ।
एवं रूपे वासुदेवेऽप्रमेये
महाबले गुणसंपत्सदैव ।।

5-48-87a
5-48-87b
5-48-87c
5-48-87d

तमसह्यं विष्णुमनन्तवीर्य-
माशंसते धार्तराष्ट्रो विजेतुम् ।
सदा ह्येनं तर्कयते दुरात्मा
तच्चाप्ययं सहतेऽस्मान्समीक्ष्य ।।

5-48-88a
5-48-88b
5-48-88c
5-48-88d

पर्यागतं मम कृष्णस्य चैव
यो मन्यते कलहं संप्रसह्य।
शक्यं हर्तुं पाण्डवानां ममत्वं
तद्वेदिता संयुगं तत्र गत्वा ।।

5-48-89a
5-48-89b
5-48-89c
5-48-89d

नमस्कृत्वा शान्तनवाय राज्ञे
द्रोणायाथो सहपुत्राय चैव।
शारद्वतायाप्रतिद्वन्द्विने च
योत्स्याम्यहं राज्यमभीप्समानः ।।

5-48-90a
5-48-90b
5-48-90c
5-48-90d

धर्मेणाप्तं निधनं तस्य मन्ये
यो योत्स्यते पाण्डवैर्धर्मचारी ।
मिथ्या ग्लहे निर्जिता वै नृशंसैः
संवत्सरान्वै द्वादश राजपुत्राः ।।

5-48-91a
5-48-91b
5-48-91c
5-48-91d

वासः कृच्छ्रो विहितश्चाप्यरण्ये
दीर्घं कालं चैकमज्ञातवर्षम्।
ते हि कस्माज्जीवतां पाण्डवानां
नन्दिष्यन्ते धार्तराष्ट्राः पदस्थाः ।।

5-48-92a
5-48-92b
5-48-92c
5-48-92d

ते चेदस्मान्युध्यमानाञ्जयेयु-
र्देवैर्महेन्द्रप्रमुखैः सहायैः।
धर्मादधर्मश्चरितो गरीयां-
स्ततो ध्रुवं नास्ति कृतं च साधु ।।

5-48-93a
5-48-93b
5-48-93c
5-48-93d

न चेदिदं पौरुषं कर्मबद्धं
न चेदस्मान्मन्यतेऽसौ विशिष्टान्।
आशंसेऽहं वासुदेवद्वितीयो
दुर्योधनं सानुबन्धं निहन्तुम्।।

5-48-94a
5-48-94b
5-48-94c
5-48-94d

न चेदिदं कर्म नरेन्द्र वन्ध्यं
न चेद्भवेत्सुकृतं निष्फलं वा।
इदं च तच्चाभिसमीक्ष्य नूनं
पराजयो धार्तराष्ट्रस्य साधुः ।।

5-48-95a
5-48-95b
5-48-95c
5-48-95d

प्रत्यक्षं वः कुरवो यद्ब्रवीमि
युद्ध्यमाना धार्तराष्ट्रा न सन्ति।
अन्यत्र युद्धात्कुरवो यदि स्यु-
र्न युद्धे वै शेष इहास्ति कश्चित्।।

5-48-96a
5-48-96b
5-48-96c
5-48-96d

हत्वा त्वहं धार्तराष्ट्रान्सकर्णा-
न्राज्यं कुरूणामवजेता समग्रम्।
यद्वः कार्यं तत्कुरुध्वं यथास्व-
मिष्टान्दरानात्मभोगान्भजध्वम् ।।

5-48-97a
5-48-97b
5-48-97c
5-48-97d

अप्येवं नो ब्राह्मणाः सन्ति वृद्धा
बहुश्रुताः शीलवन्तः कुलीनाः।
सांवत्सरा ज्योतिषि चाभियुक्ता
नक्षत्रयोगेषु च निश्चयज्ञाः ।।

5-48-98a
5-48-98b
5-48-98c
5-48-98d

उच्चावचं दैवयुक्तं रहस्यं
दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः ।
क्षयं महान्तं कुरुसृञ्‍जयानां
निवेदयन्ते पाण्डवानां जयं च ।।

5-48-99a
5-48-99b
5-48-99c
5-48-99d

यथा हि नो मन्यतेऽजातशत्रुः
संसिद्धार्थो द्विपतां निग्रहाय।
जनार्दनश्चाप्यपरोक्षविद्यो
न संशयं पश्यति वृष्णिसिंहः ।।

5-48-100a
5-48-100b
5-48-100c
5-48-100d

अहं तथैनं खलु भाविरूपं
पश्यामि बुद्धया स्वयमप्रमत्तः।
दृष्टिश्च मे न व्यथते पुराणी
संयुध्यमाना धार्तराष्ट्रा न सन्ति ।।

5-48-101a
5-48-101b
5-48-101c
5-48-101d

अनालब्धं जृम्भति गाण्डिवं धनु-
रनाहता कम्पति मे धनुर्ज्या।
बाणाश्च मे तूणमुखाद्विसृत्य
मुहुर्मुहुर्गन्तुमुशन्ति चैव ।।

5-48-102a
5-48-102b
5-48-102c
5-48-102d

खङ्गः कोशान्निःसरति प्रसन्नो
हित्वेव जीर्णासुरगस्त्वचं स्वाम्।
ध्वजे वाचो रौद्ररूपा भवन्ति
कदा रथो योक्ष्यते ते किरीटिन् ।।

5-48-103a
5-48-103b
5-48-103c
5-48-103d

गोमायुसङ्घाश्च नदन्ति रात्रौ
रक्षांस्यथो निष्पतन्त्यन्तरिक्षात्।
मृगाः श्रृगालाः शितिकण्ठाश्च काका
गृध्रा बकाश्चैव तरक्षवश्च।।

5-48-104a
5-48-104b
5-48-104c
5-48-104d

सुवर्णपत्राश्च पतन्ति पञ्चा-
दृष्ट्वा रथं श्वेतहयप्रयुक्तम् ।
अहं ह्येकः पार्थिवान्सर्वयोधान्
शरान्वर्पन्मृत्युलोकं नयेयम् ।।

5-48-105a
5-48-105b
5-48-105c
5-48-105d

समादेदानः पृथगस्त्रमार्गा-
न्यथाप्रिरिद्धो गहनं निदाघे।
स्थूणाकर्णं पाशुपतं महास्त्रं
ब्राह्मं चास्त्रं यच्च शक्रोऽप्यदान्मे ।।

5-48-106a
5-48-106b
5-48-106c
5-48-106d

वधे धृतो वेगवतः प्रमुञ्च-
न्नाहं प्रजाः किञ्चिदिहावशिष्ये ।
शान्तिं लप्स्ये परमो ह्येप भावः
स्थिरो मम ब्रूहि गावल्गणे तान् ।।

5-48-107a
5-48-107b
5-48-107c
5-48-107d

ये वैजय्याः समरे सूत लब्ध्वा
देवानपीन्द्रग्रमुखान्समेतात्।
तैर्मन्मते कलहं संप्रसह्य
स धार्तराष्ट्रः पश्यत मोहमस्य ।।

5-48-108a
5-48-108b
5-48-108c
5-48-108d

वृद्धो भीष्मः शान्तनवः कृपश्च
द्रोणः सपुत्रो विदुरश्च धीमान्।
एते सर्वे यद्वदन्ते तदस्तु
आयुष्मन्तः कुरवः सन्तु सर्वे ।।

5-48-109a
5-48-109b
5-48-109c
5-48-109d

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि अष्टचत्वारिंशोऽध्यायः ।।

[सम्पाद्यताम्]

5-48-8 कर्म पापम्। अनिर्विष्टं अनुपभुक्तम्। अश्विभ्यां अश्विपुत्राभ्याम् ।। 5-48-9 अपध्यानात अपकारचिन्तनमात्रात् । गां पृथ्वीम् ।। 5-48-12 त्वं एतावत्कुर्वित्याह ह्रियेति। यान् लोकान् अन्यायवृत्तिर्धार्तराष्ट्रोऽध्यतिष्ठत् तान् ह्रीप्रभृतिनिर्गुणैरुपलक्षिते पाण्डवे अनुरक्तान् कुरु ।। 5-48-13 मायया कपटेन उपधीयन्ते उपस्थाप्यन्ते इति मायोपधश्चलवादः तम्। प्रतिपन्नः प्राप्तः प्रणिधानादिभिरुपेतः सत्यं ब्रुवंश्च नः नृपः अतिवेलं क्लिश्यमानोपि तितिक्षमाण एवास्ते इति शेषः ।। 5-48-14 क्रोध अवस्त्रष्टा उत्स्रक्ष्यति। अन्वतप्त्यत् शोचिष्यति। आर्षोलकारव्यत्ययः ।। 5-48-15 कृष्णवर्त्मा दाहेन कृष्णीकृतभूभाग इति प्राञ्चः। दग्धा धक्ष्यति ।। 5-48-22 तृणप्रायं तृणगृहमयं ग्रामम्। परासिक्तं दूरे निरस्तम् ।। 5-48-24 वराङ्गानां शिरसाम्। उपासङ्गान् उच्चयान् । दक्षिणेन कुशलेन अनायासेनेति यावत्। आचरेत् कुर्यात्। रथिनः योधान्। प्रचेता कूटीकरिष्यति ।। 5-48-25 दुःखशय्यां अशेतेत्युत्तरं तां यदा स्मरिष्यतीति शेषः ।। 5-48-28 सुवर्णस्य तारो दीर्घतन्तुः तम्। अतिवेगादलातचक्रवत्सुवर्णरेखातुल्यमित्यर्थ- ।। 5-48-31 आयतः आगच्छतः ।। 5-48-34 क्षेप्तारः क्षेप्स्यन्ति ।। 5-48-39 धारयेयुः जीवेयुः ।। 5-48-40 वरूथी रथगुप्तिमान् ।। 5-48-43 स वृष्णिसिंहः कृष्णाः येषामग्रणीः स्यात् तेभ्योऽन्ये तं न सहेरन् ।। 5-48-44 राज्यं च मा वृणीष्व मा प्रार्थयस्व इति ब्रूयाः । दुर्योधनं प्रतीत्यर्थात्। यतः वयं युद्धेऽद्वितयं सहायं सत्यकिं प्रवृणीम वृतवन्त- ।। 5-48-49 वृष्णिसिंहस्य कृष्णस्य यथाविधं यादृक्प्रकारं योगमाहुः तैः सर्वैर्गुणैः सात्यकिरुपेतः ।। 5-48-55 आददानान् ग्रसमानान् ।। 5-48-57 प्रचेतारः राशीकरिष्यन्ति ।। 5-48-59 अस्त्रपथं असंप्राप्तान् । अस्त्रं दृष्ट्वैव नश्यत इत्यर्थः 5-48-60 प्रणोत्स्यामि दूरीकरिष्यामि ।। 5-48-62 कान्दिग्भूतं भयेन पलायितम्। श्रान्तपत्रं श्रान्तवाहनम् ।। 5-48-63 यथा वाजपेये प्रजापतिदैवत्याः सप्तदश पशवो विशस्यन्ते तद्वद्बहूनामिहापि विशसनं कृतम् ।। 5-48-64 देवदत्तं अर्जुनस्य शङ्खम् ।। 5-48-67 उदूकान्ते संध्यावन्दनाचमनान्ते ।। 5-48-71 सागरं सगरैर्वर्धितम्। सलिलस्य महोदधिं जलसमुद्रम् ।। 5-48-75 सुदर्शनं नाम राजानम्। ललामं ललामभूतः कृष्णः ।। 5-48-76 कवाटे नगरभेदे ।। 5-48-77 अयं सुयोधनः। यथा जम्भो दैत्यः शैलं वेगेन अभिहत्य हतः शेते तद्वत् ।। 5-48-80 भौमो भूमिपुत्रः ।। 5-48-83 निर्मिचने नगरे। क्षुरान्तान् तीक्ष्णधारान् लोहमयानित्यर्थः ।। 5-48-93 साधु कृतं सत्कर्म नास्ति। निष्पलत्वात् वृथैव धर्म इत्यर्थः ।। 5-48-94 कर्मबद्धं न मन्यते चेदित्योकृष्य योज्यम् ।। 5-48-95 इदं राज्यस्याप्रदानं इदानींतनम्। तच्च राज्यात् निःसारणं तदार्नीतनं अभिसमीक्ष्य आलोच्य। पापवशात्पराजय एव तस्येत्यर्थः ।। 5-48-99 मृगचक्रा मृगसमूहाः ।। 5-48-108 विजयः कर्म येषां ते वैजय्याः। देवानपि लब्ध्वा विजयवन्त एवेत्यर्थः ।।

उद्योगपर्व-047 पुटाग्रे अल्लिखितम्। उद्योगपर्व-049