महाभारतम्-05-उद्योगपर्व-057

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-056 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-057
वेदव्यासः
उद्योगपर्व-058 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

पृष्टेन सञ्जयेन धृतराष्ट्रं प्रति पाण्डवसहायानां राज्ञां नामनिर्देशपूर्वकं तैः कुरुसेनागतानां स्वस्वदध्यतया विभजनकथनम् ।। 1 ।। दुर्योधनेन सञ्जयवचनश्रवणेन क्रोशन्तं धृतराष्ट्रमाक्षिप्य स्वपक्षीयाणां प्रतापप्रशंसनम् ।। 2 ।। पुनस्सञ्जयेन धृष्टद्युम्नदन्त्रोवचनपूर्वकं युद्धनिषेधनम् ।। 3 ।।



धृतराष्ट्र उवाच।

5-57-1x

कांस्तत्र सञ्जयापश्यः प्रीत्यर्थेन समागतान्।
ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् ।।

5-57-1a
5-57-1b

सञ्जय उवाच।

5-57-2x

मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम्।
चेकितानं च तत्रैव युयुधानं च सात्यकिम् ।।

5-57-2a
5-57-2b

पृथगक्षौहिणीभ्यां तु पाण्डवानभिसंश्रितौ ।
महारथौ समाख्यातावुभौ पुरुषमानिनौ ।।

5-57-3a
5-57-3b

अक्षौहिण्याऽथ पाञ्चाल्यो दशभिस्तनयैर्वृतः।
सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः ।

5-57-4a
5-57-4b

द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः।
उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः ।।

5-57-5a
5-57-5b

विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च।
सूर्यदत्तादिभिर्वीरैर्मदिराक्षपुरोगमैः ।।

5-57-6a
5-57-6b

सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा ।
अक्षौहिण्यैव सैन्यानां वृतः पार्थं समाश्रितः ।।

5-57-7a
5-57-7b

जारासन्धिर्मागधश्च धृष्टकेतुश्च चेदिराट्।
पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ ।।

5-57-8a
5-57-8b

केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः ।
अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः ।।

5-57-9a
5-57-9b

एतानेतावतस्तत्र तानपश्यं समागतान्।
ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् ।।

5-57-10a
5-57-10b

यो वेद `मानुषं व्यूहं दैवं गान्धर्वमासुरम्।
स तत्र सेनाप्रमुखे धृषटद्युम्नो महारथः ।।

5-57-11a
5-57-11b

भीष्मः शान्तनवो राजन्भागः क्लृप्तः शिखण्डिनः
तं विराटोऽनुसंयाता सार्धं मत्स्यैः प्रहारिभिः ।।

5-57-12a
5-57-12b

ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली।
तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति ।।

5-57-13a
5-57-13b

दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च।
प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः ।।

5-57-14a
5-57-14b

अर्जुनस्य तु भागेन कर्णे वैकर्तनो मतः।
अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः ।।

5-57-15a
5-57-15b

अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः ।
सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः ।।

5-57-16a
5-57-16b

महेष्वांसा राजपुत्रा भ्रातरः पञ्च केकयाः ।
केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे ।।

5-57-17a
5-57-17b

तेषामेव कृतो भागो मालवाः साल्वकास्तथा।
त्रिगर्तानां च वै मुख्यौ यौ तौ संशप्तकाविति ।।

5-57-18a
5-57-18b

दुर्योधनसुताः सर्वे तथा दुःशासनस्य च।
सौभद्रेण कृतो भागो राजा चैव बृहद्बलः ।।

5-57-19a
5-57-19b

द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः ।
धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत ।।

5-57-20a
5-57-20b

चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति।
भोजं तु कृतवर्माणं युयुधानो युयुत्सति ।।

5-57-21a
5-57-21b

सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि।
स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् ।।

5-57-22a
5-57-22b

उलूकं चैव कैतव्यं ये च सारस्वता गणाः।
नकुलः कल्पयामास भागं माद्रवतीसुतः ।।

5-57-23a
5-57-23b

ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति सङ्गरे।
समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् ।।

5-57-24a
5-57-24b

एवमेषामनीकानि प्रविभक्तानि भागशः।
यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् ।।

5-57-25a
5-57-25b

धृतराष्ट्र उवाच।

5-57-26x

न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः।
येषां युद्धं बलवता भीमेन रणमूर्धनि ।।

5-57-26a
5-57-26b

राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा ।
गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् ।।

5-57-27a
5-57-27b

विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः ।
तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि ।।

5-57-28a
5-57-28b

सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः ।
सूर्यपावकयोस्तुल्यास्तेजसा समितिंजयाः ।।

5-57-29a
5-57-29b

येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः ।
योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ ।।

5-57-30a
5-57-30b

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः।
सात्यकिर्द्रुपदश्चैव धृष्टकेतुश्च सानुजः ।।

5-57-31a
5-57-31b

उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः।
शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः ।।

5-57-32a
5-57-32b

काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः ।
विराटपुत्रो बभ्रुश्च पाञ्चालाश्च प्रभद्रकाः ।।

5-57-33a
5-57-33b

येषांमिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम्।
वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि ।।

5-57-34a
5-57-34b

तान्सर्वगुणसंपन्नानमनुष्यप्रतापिनः ।
क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय ।।

5-57-35a
5-57-35b

दुर्योधन उवाच।

5-57-36x

उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ ।
अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् ।।

5-57-36a
5-57-36b

पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम्।
जयद्रथं सोमदत्तमश्वत्थामानमेव च ।।

5-57-37a
5-57-37b

सुतेजसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः ।
अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः ।।

5-57-38a
5-57-38b

सर्वे च पृथिवीपाला मदर्थे तात पाण्डवान्।
आर्याः शस्त्रभृतः शूराः समर्थाः प्रतिबाधितुं ।।

5-57-39a
5-57-39b

न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् ।
पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे ।।

5-57-40a
5-57-40b

मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत ।
ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना ।।

5-57-41a
5-57-41b

महता रथवंशेन शरजालैश्च मामकैः ।
अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह ।।

5-57-42a
5-57-42b

धृतराष्ट्र उवाच।

5-57-43x

उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय।
न हि शक्तो रमे जेतुं धर्मराजं युधिष्ठिरम् ।।

5-57-43a
5-57-43b

जानाति हि यथा भीष्मः पाण्डवानां यशस्विनाम्।
बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् ।।

5-57-44a
5-57-44b

यतो नारोचयदयं विग्रहं तैर्महात्मभिः।
किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम् ।।

5-57-45a
5-57-45b

कस्तांस्तरस्विनो भूयः सन्दीपयति पाण्डवान्।
अर्चिष्मतो महेष्वासान्हविषा पावकानिव ।।

5-57-46a
5-57-46b

सञ्जय उवाच।

5-57-47x

धृष्टद्युम्नः सदैवैतान्सन्दीपयति भारत।
युद्ध्यध्वमिति माभैष्ट युद्धाद्भरतसत्तमाः ।।

5-57-47a
5-57-47b

ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः।
युद्धे समागमिष्यन्ति तुमुले शस्त्रसङ्कुले ।।

5-57-48a
5-57-48b

तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान्।
अहमेकः समादास्ये तिमिर्यत्स्यानिवोदकात् ।।

5-57-49a
5-57-49b

भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् ।
एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् ।।

5-57-50a
5-57-50b

तथा ब्रुवन्तं धर्मात्मा प्राह राजा युधिष्ठिरः।
तव धैर्यं च वीर्यं च पाञ्चालः पाण्डवैः सह ।।

5-57-51a
5-57-51b

सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर ।
जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् ।।

5-57-52a
5-57-52b

समर्थमेकं पर्याप्तं कौरवाणां विनिग्रहे ।
पुरस्तादुपयातानां कौरवाणां युयुत्सताम् ।।

5-57-53a
5-57-53b

भवत्ता यद्विधातव्यं तन्नः श्रेयः परंतप।
सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम् ।।

5-57-54a
5-57-54b

पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान्।
क्रीणीयात्तं सहस्रेण इति नीतिमतां मतम् ।।

5-57-55a
5-57-55b

स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ ।
भयार्तानां परित्राता संयुगेषु न संशयः ।।

5-57-56a
5-57-56b

एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे।
धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसम् ।
सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये ।।

5-57-57a
5-57-57b
5-57-57c

सबाह्लिकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः ।
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् ।।

5-57-58a
5-57-58b

दुःशासनं विकर्णं च तथा दुर्योधनं नृपम्
भीष्मं च ब्रूहि गत्वा त्वमाशु गच्छ च माचिरम् ।।

5-57-59a
5-57-59b

युधिष्ठिरः साधुनैवाभ्युपेयो
मा वोऽवधीदर्जुनो देवगुप्तः।
राज्यं दद्ध्वं धर्मराजस्य तूर्णं
याचध्वं वै पाण्डवं लोकवीरम् ।।

5-57-60a
5-57-60b
5-57-60c
5-57-60d

नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन।
यथाविधः सव्यसाची पाण्डवः सत्यविक्रमः ।।

5-57-61a
5-57-61b

देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः ।
न सजेयोमनुष्येण मा स्म कृद्ध्वं मनो युधि ।।

5-57-62a
5-57-62b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
यानसन्धिपर्वणि सप्तपञ्चाशत्तमोऽध्यायः ।।

[सम्पाद्यताम्]

5-57-25 अकालिकं कालबिलम्बं विना ।। 5-57-27 प्रोक्षिताः पशुवद्वधार्थं संस्कृताः ।। 5-57-41 ऐणेयान् हरिणशावान्। तन्तुनापाशेन ।। 5-57-58 शरद्वतः आयुष्मतः विरुद्वलक्षणया गतायुष इत्यर्थः ।। 5-57-60 दद्धं ददत ।। 5-57-62 कृद्ध्वं कुरुध्वम् ।।

उद्योगपर्व-056 पुटाग्रे अल्लिखितम्। उद्योगपर्व-058