महाभारतम्-05-उद्योगपर्व-090
← उद्योगपर्व-089 | महाभारतम् पञ्चमपर्व महाभारतम्-05-उद्योगपर्व-090 वेदव्यासः |
उद्योगपर्व-091 → |
महाभारतस्य पर्वाणि |
---|
श्रीकृष्णस्य कुन्तीसमीपगमनम् ।। 1 ।।
कृष्णेन प्रत्येकं नामनिर्देशपूर्वकं युधिष्ठिरादिकुशलमापृच्छ्य स्वानुभूतदुःखानुस्मरेन शोचन्त्याः कुन्त्याः समाश्वासनम् ।। 2 ।।
तथा कुन्तीसामन्त्र्य दुर्योधनगृहगमनम् ।। 3 ।।
वैशंपायन उवाच। | 5-90-1x |
अथोपगम्य विदुरमपराह्णे जनार्दनः। | 5-90-1a 5-90-1b |
सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम्। | 5-90-2a 5-90-2b |
तेषां सत्ववतां मध्ये गोविन्दं सहचारिणम् । | 5-90-3a 5-90-3b |
साऽब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् । | 5-90-4a 5-90-4b |
एते बाल्यान्प्रभृत्येव गुरुशुश्रूषणे रताः । | 5-90-5a 5-90-5b 5-90-5c |
विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः । | 5-90-6a 5-90-6b |
अहार्षुश्च वनं यान्तः समूलं हृदयं मम। | 5-90-7a 5-90-7b |
ऊषुर्महावने तात सिंहव्याघ्रगजाकुले । | 5-90-8a 5-90-8b |
अपश्यन्तश्च पितरौ कथमुषूर्महावने। | 5-90-9a 5-90-9b |
पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव । | 5-90-10a 5-90-10b |
रथेनेमिनिनादैश्च व्यबोध्यन्त तदा गृहे । | 5-90-11a 5-90-11b |
पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः । | 5-90-12a 5-90-12b |
गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् । | 5-90-13a 5-90-13b |
प्रासादाग्नेष्वबोध्यन्त राङ्खवाजिनशायिनः । | 5-90-14a 5-90-14b |
न स्मोपयान्ति निद्रां ते नतदर्हा जनार्दन । | 5-90-15a 5-90-15b |
स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ।। | 5-90-16a 5-90-16b |
महावनेष्वबोध्यन्त श्वापदानां रुतेन च । | 5-90-17a 5-90-17b |
कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते । | 5-90-18a 5-90-18b |
भरतस्य दिलीपस्य शिबेरौशीनरस्य च। | 5-90-19a 5-90-19b |
शीलवृत्तोपसंपन्नोः धर्मज्ञः सत्यसङ्गरः । | 5-90-20a 5-90-20b |
अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः । | 5-90-21a 5-90-21b 5-90-21c |
यः स नागायुतप्राणो वातरंहा महाबलः । | 5-90-22a 5-90-22b |
कीचकस्य तु सज्ञातेर्यो हन्ता मधुसूदन । | 5-90-23a 5-90-23b |
पराक्रमे शक्रसमो मातरिश्वसमो बले। | 5-90-24a 5-90-24b |
क्रोधं बलममर्षं च यो निधाय परंतपः । | 5-90-25a 5-90-25b |
तेजोराशिं महात्मानं वरिष्ठमभितौजसम् । | 5-90-26a 5-90-26b |
तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः । | 5-90-27a 5-90-27b |
अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा । | 5-90-28a 5-90-28b |
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः । | 5-90-29a 5-90-29b |
तेजसाऽऽदित्यसदृशो महर्षिसदृशो दमे। | 5-90-30a 5-90-30b |
आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन । | 5-90-31a 5-90-31b |
यस्य बाहुबलं सर्वे पाण्डवाः पर्युपासते। | 5-90-32a 5-90-32b |
यं गत्वाऽभिमुखः सङ्ख्ये न जीवन्तश्चिदाव्रजेत् । | 5-90-33a 5-90-33b |
योऽपाश्रयः पाण्डवानां देवानामिव वासवः । | 5-90-34a 5-90-34b |
दयावान्सर्वभूतेषु ह्रीनिषेवो महास्रवित् । | 5-90-35a 5-90-35b |
सहदेवो महेष्वासः शूरः समितिशोभनः । | 5-90-36a 5-90-36b |
सदैव सहदेवस्य भ्रातरो मधुसूदन । | 5-90-37a 5-90-37b |
ज्येष्ठोपचायिनं वीरं सहदेवं युधां पतिम्। | 5-90-38a 5-90-38b |
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः। | 5-90-39a 5-90-39b |
चित्रयोधी च नकुलो महेष्वासो महाबलः । | 5-90-40a 5-90-40b |
सुखोचितमदुःखार्हं सुकुमारं महारथम् । | 5-90-41a 5-90-41b |
पक्ष्मसंपातजे काले नकुलेन विनाकृता । | 5-90-42a 5-90-42b |
सर्वैः पुत्रैः प्रियतरा द्रौपदी मे जनार्दन । | 5-90-43a 5-90-43b |
पुत्रलोकात्पतिलोकं वृण्वाना सत्यवादिनी। | 5-90-44a 5-90-44b |
महाभिजनसंपन्ना सर्वकामैः सुपूजिता। | 5-90-45a 5-90-45b |
पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः । | 5-90-46a 5-90-46b |
चतुर्दशमिदं वर्षं यन्नापश्यमरिन्दम । | 5-90-47a 5-90-47b |
न नूनं कर्मभिः पुण्यैरश्रुते पुरुषः सुखम् । | 5-90-48a 5-90-48b |
न प्रियो मम कृष्णाया बीभत्सुर्न युधिष्ठिरः । | 5-90-49a 5-90-49b |
न मे दुःखतरं किंचिद्भूतपूर्वं ततोऽधिकम् । | 5-90-50a 5-90-50b |
आनायितामनार्येण क्रोधलोभानुवर्तिना । | 5-90-51a 5-90-51b |
तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः । | 5-90-52a 5-90-52b |
तस्यां संसदि सर्वेषां क्षत्तारं पूजयाम्यहम् । | 5-90-53a 5-90-53b |
तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः। | 5-90-54a 5-90-54b |
वैशंपायन उवाच। | 5-90-55x |
सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम्। | 5-90-55a 5-90-55b |
पूर्वैराचरितं यत्तत्कुराजभिररिन्दम । | 5-90-56a 5-90-56b |
तन्मां दहति यत्कृष्णा सभायां कुरुसन्निधौ । | 5-90-57a 5-90-57b |
निर्वासनं च नगरात्प्रव्रज्या च परन्तप । | 5-90-58a 5-90-58b |
अज्ञातचर्या बालानामवरोधश्च माधव । | 5-90-59a 5-90-59b |
दुर्योधनेन निकृता वर्षमद्य चतुर्दशम्। | 5-90-60a 5-90-60b |
न मे विशेपो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः । | 5-90-61a 5-90-61b 5-90-61c |
नैव शक्याः पराजेतुं सर्वं ह्येषां तथाविधम् । | 5-90-62a 5-90-62b |
येनाहं कुन्तिभोजाय धनं वृत्तैरिवार्पिता । | 5-90-63a 5-90-63b |
अदात्तु कुन्तिभोजाय सखा सख्ये महात्मने । | 5-90-64a 5-90-64b 5-90-64c |
यन्मां वागब्रवीन्नक्तं सूतके सव्यसाचिनः । | 5-90-65a 5-90-65b |
हत्वा कुरून्महाजन्ये राज्यं प्राप्य धनञ्जयः । | 5-90-66a 5-90-66b |
नाहं तामभ्यसूयामि नमो धर्माय वेधसे । | 5-90-67a 5-90-67b |
धर्मश्चेदस्ति वार्ष्णेय यथा वागभ्यभाषत। | 5-90-68a 5-90-68b |
न मां माधव वैधव्यं नार्थनाशो न वैरिता । | 5-90-69a 5-90-69b |
याऽहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम्। | 5-90-70a 5-90-70b 5-90-70c |
धनञ्जयं च गोविन्द यमौ तं च वृकोदरम्। | 5-90-71a 5-90-71b |
अर्थतस्ते मम मृतास्तेषां चाहं जनार्दना । | 5-90-72a 5-90-72b |
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः । | 5-90-73a 5-90-73b |
वृत्तेः कार्पण्यलब्धाया अप्रतिष्ठैव ज्यायसी। | 5-90-74a 5-90-74b |
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः। | 5-90-75a 5-90-75b |
लोकसंभाविताः संतः सुनृशंसं करिष्यथ । | 5-90-76a 5-90-76b |
काले हि समनुप्राप्ते त्यक्तव्यमपि जीवनम् । | 5-90-77a 5-90-77b |
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि । | 5-90-78a 5-90-78b |
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम। | 5-90-79a 5-90-79b |
अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर । | 5-90-80a 5-90-80b |
भीमार्जुनौ नयेतां हि देवानपि परां गतिम्। | 5-90-81a 5-90-81b |
दुःशासतश्च कर्णश्च परुषाण्यभ्यभाषताम्। | 5-90-82a 5-90-82b |
पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् । | 5-90-83a 5-90-83b |
सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति। | 5-90-84a 5-90-84b |
न दुःखं राज्यहरणं न च द्यूते पराजयः । | 5-90-85a 5-90-85b |
यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता। | 5-90-86a 5-90-86b |
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा। | 5-90-87a 5-90-87b |
यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन । | 5-90-88a 5-90-88b |
साऽहमेवंविधं दुःखं सहेयं पुरुषोत्तम । | 5-90-89a 5-90-89b |
वैशंपायन उवाच। | 5-90-90x |
तत आश्वासयामास पुत्राधिभिरभिप्लुताम्। | 5-90-90a 5-90-90b |
वासुदेव उवाच। | 5-90-91x |
का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः । | 5-90-91a 5-90-91b |
महाकुलीना भवती ह्रदाद्ध्रदमिवागता। | 5-90-92a 5-90-92b |
वीरसूर्वीरपत्नी त्वं सर्वैः समुदिता गुणैः । | 5-90-93a 5-90-93b |
निद्रातन्द्रे क्रोधहर्षौ क्षुत्पिपासे हिमातपौ। | 5-90-94a 5-90-94b |
त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः । | 5-90-95a 5-90-95b |
अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः । | 5-90-96a 5-90-96b |
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे । | 5-90-97a 5-90-97b |
अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया । | 5-90-98a 5-90-98b |
अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् । | 5-90-99a 5-90-99b |
एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् । | 5-90-100a 5-90-100b |
कुन्त्युवाच। | 5-90-101x |
यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन। | 5-90-101a 5-90-101b |
अविलोपेन धर्मस्य अनिकृत्या परन्तप। | 5-90-102a 5-90-102b |
व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा। | 5-90-103a 5-90-103b |
त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम्। | 5-90-104a 5-90-104b |
` कुरूणां पाण्डवानां च लोकानां चापराजित । | 5-90-105a 5-90-105b 5-90-105c |
वैशंपायन उवाच। | 5-90-106x |
तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम्। | 5-90-106a 5-90-106b |
।। इति श्रीमन्महाभारते उद्योगपर्वणि |
5-90-6 प्रियं राज्यादि। सुखं भोगोत्थ आह्लादः ।। 5-90-21 प्रियो दर्शो दर्शनं यस्य ।। 5-90-48 तथावृत्ता पुण्यशीला ।। 5-90-59 अवरोधः राज्यप्रदानरूपो वृत्तिनिरोधः ।। 5-90-60 यदि सुखं पुण्यक्षयरूपं अर्थाद्दुःखं पापक्षयरूपं तर्हि दुःखात्पापक्षयहेतोस्तत्सुखं नः अस्माकं स्यात्। तथा च न वयं दुःखाद्भयं प्राप्नुम इत्यर्थः ।। 5-90-61 अस्मात् भाविनः कुरुपाण्डवसंग्रामात् ।। 5-90-62 सर्वं वृत्तम्। एषां पाण्डवानां तथाविधं अविषमम् ।। 5-90-63 वृत्तैर्वदान्यत्वेन ख्यातैर्धनं यथा अक्लेशेनार्प्यते तद्वत् येनाहमर्पिता । वृत्तोऽतीते दृढे ख्याते इति विश्वः। आर्यकः पितामहः । तुभ्यं तव ।। 5-90-66 महाजन्ये महायुद्धे । मेधान् अश्वमेधान् ।। 5-90-75 अतिक्रमिष्यति अयुद्धेनेत्यर्थः ।। 5-90-102 अनिकृत्या अच्छलेन ।।
उद्योगपर्व-089 | पुटाग्रे अल्लिखितम्। | उद्योगपर्व-091 |