महाभारतम्-05-उद्योगपर्व-090

विकिस्रोतः तः
← उद्योगपर्व-089 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-090
वेदव्यासः
उद्योगपर्व-091 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

श्रीकृष्णस्य कुन्तीसमीपगमनम् ।। 1 ।।
कृष्णेन प्रत्येकं नामनिर्देशपूर्वकं युधिष्ठिरादिकुशलमापृच्छ्य स्वानुभूतदुःखानुस्मरेन शोचन्त्याः कुन्त्याः समाश्वासनम् ।। 2 ।।
तथा कुन्तीसामन्त्र्य दुर्योधनगृहगमनम् ।। 3 ।।







वैशंपायन उवाच।

5-90-1x

अथोपगम्य विदुरमपराह्णे जनार्दनः।
पितृष्वसारं स पृथामभ्यगच्छदरिन्दमः ।।

5-90-1a
5-90-1b

सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम्।
कण्ठे गृहीत्वा प्राक्रोशत्स्मरन्ती तनयान्पृथा ।।

5-90-2a
5-90-2b

तेषां सत्ववतां मध्ये गोविन्दं सहचारिणम् ।
चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्मृथा ।।

5-90-3a
5-90-3b

साऽब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् ।
बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता ।।

5-90-4a
5-90-4b

एते बाल्यान्प्रभृत्येव गुरुशुश्रूषणे रताः ।
परस्परस्य सुहृदः संमताः समचेतसः।
निकृत्या भ्रंशिता राज्याञ्जनार्हा निर्जनं गताः ।।

5-90-5a
5-90-5b
5-90-5c

विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः ।
त्यक्त्वा प्रियमुखे पार्था रुदतीमपहाय माम् ।।

5-90-6a
5-90-6b

अहार्षुश्च वनं यान्तः समूलं हृदयं मम।
अतदर्हा महात्मानः कथं केशव पाण्डवाः ।।

5-90-7a
5-90-7b

ऊषुर्महावने तात सिंहव्याघ्रगजाकुले ।
बाला विहीनाः पित्रा ते मया सततलालिताः ।।

5-90-8a
5-90-8b

अपश्यन्तश्च पितरौ कथमुषूर्महावने।
शङ्खदुन्दुभिनिर्घोषैर्भृदङ्गैर्वेणुनिस्वनैः ।।

5-90-9a
5-90-9b

पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव ।
ये स्म वारणशब्देन हयानां हेषितेन च ।।

5-90-10a
5-90-10b

रथेनेमिनिनादैश्च व्यबोध्यन्त तदा गृहे ।
शङ्खभेरीनिनादेन वेणुवीणानुनादिना ।।

5-90-11a
5-90-11b

पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः ।
वस्त्रै रत्नैरलङ्कारैः पूजयन्तो द्विजन्मनः ।।

5-90-12a
5-90-12b

गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् ।
अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः ।।

5-90-13a
5-90-13b

प्रासादाग्नेष्वबोध्यन्त राङ्खवाजिनशायिनः ।
क्रूरं च निनदं श्रुत्वा श्वापदानां महावने ।।

5-90-14a
5-90-14b

न स्मोपयान्ति निद्रां ते नतदर्हा जनार्दन ।
भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः ।।

5-90-15a
5-90-15b

स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ।।
वन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् ।।

5-90-16a
5-90-16b

महावनेष्वबोध्यन्त श्वापदानां रुतेन च ।
ह्रीमात्सत्यधृतिर्दान्तो भूतानामनुकम्पिता ।।

5-90-17a
5-90-17b

कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते ।
अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च ।।

5-90-18a
5-90-18b

भरतस्य दिलीपस्य शिबेरौशीनरस्य च।
राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् ।।

5-90-19a
5-90-19b

शीलवृत्तोपसंपन्नोः धर्मज्ञः सत्यसङ्गरः ।
राजा सर्वगुणोपेतस्त्रौलोक्यस्यापि यो भवेत् ।।

5-90-20a
5-90-20b

अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः ।
श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः ।
प्रियदर्शो दीर्घभुजः कथं कृष्ण युधिष्ठिरः ।।

5-90-21a
5-90-21b
5-90-21c

यः स नागायुतप्राणो वातरंहा महाबलः ।
सामर्षः पाण्डवो नित्यं प्रियो भ्रातुः प्रियंकरः ।।

5-90-22a
5-90-22b

कीचकस्य तु सज्ञातेर्यो हन्ता मधुसूदन ।
शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च ।।

5-90-23a
5-90-23b

पराक्रमे शक्रसमो मातरिश्वसमो बले।
महेश्वरसमः क्रोधे भीमः प्रहरतां वरः ।।

5-90-24a
5-90-24b

क्रोधं बलममर्षं च यो निधाय परंतपः ।
जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने ।।

5-90-25a
5-90-25b

तेजोराशिं महात्मानं वरिष्ठमभितौजसम् ।
भीमं प्रदर्शनेनापि भीमसेनं जनार्दन ।।

5-90-26a
5-90-26b

तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः ।
आस्ते परिघबाहुः स मध्यमः पाण्डवो बली ।।

5-90-27a
5-90-27b

अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा ।
द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव ।।

5-90-28a
5-90-28b

क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः ।
इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः ।।

5-90-29a
5-90-29b

तेजसाऽऽदित्यसदृशो महर्षिसदृशो दमे।
क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः ।।

5-90-30a
5-90-30b

आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन ।
आहृतं येन वीर्येण कुरूणां सर्वराजसु ।।

5-90-31a
5-90-31b

यस्य बाहुबलं सर्वे पाण्डवाः पर्युपासते।
स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः ।।

5-90-32a
5-90-32b

यं गत्वाऽभिमुखः सङ्ख्ये न जीवन्तश्चिदाव्रजेत् ।
यो जेता सर्वभूतानामजेयो जिष्णुरच्युत ।।

5-90-33a
5-90-33b

योऽपाश्रयः पाण्डवानां देवानामिव वासवः ।
स ते भ्राता सखा चैव कथमद्य धनञ्जयः ।।

5-90-34a
5-90-34b

दयावान्सर्वभूतेषु ह्रीनिषेवो महास्रवित् ।
मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे।।

5-90-35a
5-90-35b

सहदेवो महेष्वासः शूरः समितिशोभनः ।
भ्रातृणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा ।।

5-90-36a
5-90-36b

सदैव सहदेवस्य भ्रातरो मधुसूदन ।
वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः ।।

5-90-37a
5-90-37b

ज्येष्ठोपचायिनं वीरं सहदेवं युधां पतिम्।
शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे ।।

5-90-38a
5-90-38b

सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः।
भ्रातॄणां चैव सर्वेषां प्रियः प्राणो बहिश्चरः ।।

5-90-39a
5-90-39b

चित्रयोधी च नकुलो महेष्वासो महाबलः ।
कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः ।।

5-90-40a
5-90-40b

सुखोचितमदुःखार्हं सुकुमारं महारथम् ।
अपि जातु महाबाहो पश्येयं नकुलं पुनः ।।

5-90-41a
5-90-41b

पक्ष्मसंपातजे काले नकुलेन विनाकृता ।
न लभामि धृतिं वीर साऽद्य जीवामि पश्य माम्।।

5-90-42a
5-90-42b

सर्वैः पुत्रैः प्रियतरा द्रौपदी मे जनार्दन ।
कुलीना रूपसंपन्ना सर्वैः समुदिता गुणैः ।।

5-90-43a
5-90-43b

पुत्रलोकात्पतिलोकं वृण्वाना सत्यवादिनी।
प्रियान्पुत्रान्परित्यज्य पाण्डवाननुरुध्यते ।।

5-90-44a
5-90-44b

महाभिजनसंपन्ना सर्वकामैः सुपूजिता।
ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत ।।

5-90-45a
5-90-45b

पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः ।
उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी ।।

5-90-46a
5-90-46b

चतुर्दशमिदं वर्षं यन्नापश्यमरिन्दम ।
पुत्रादिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम् ।।

5-90-47a
5-90-47b

न नूनं कर्मभिः पुण्यैरश्रुते पुरुषः सुखम् ।
द्रौपदी चेत्तथावृत्ता नाश्रुते सुखमव्ययम् ।।

5-90-48a
5-90-48b

न प्रियो मम कृष्णाया बीभत्सुर्न युधिष्ठिरः ।
भीमसेनो यमौ वापि यदपश्यं सभागताम् ।।

5-90-49a
5-90-49b

न मे दुःखतरं किंचिद्भूतपूर्वं ततोऽधिकम् ।
स्त्रीधर्मिणीं द्रौपदीं यच्छ्वशुराणां समीपगाम् ।।

5-90-50a
5-90-50b

आनायितामनार्येण क्रोधलोभानुवर्तिना ।
सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम् ।।

5-90-51a
5-90-51b

तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः ।
कृपश्च कसोमदत्तश्च निर्विष्णाः कुरवस्तथा ।।

5-90-52a
5-90-52b

तस्यां संसदि सर्वेषां क्षत्तारं पूजयाम्यहम् ।
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ।।

5-90-53a
5-90-53b

तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः।
क्षत्तुःक शीलमलङ्कारो लोकान्विष्टभ्य तिष्ठति ।।

5-90-54a
5-90-54b

वैशंपायन उवाच।

5-90-55x

सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम्।
नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयम् ।।

5-90-55a
5-90-55b

पूर्वैराचरितं यत्तत्कुराजभिररिन्दम ।
अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम् ।।

5-90-56a
5-90-56b

तन्मां दहति यत्कृष्णा सभायां कुरुसन्निधौ ।
धार्तराष्ट्रैः परिक्लिष्टा यथा न कुशलं तथा ।।

5-90-57a
5-90-57b

निर्वासनं च नगरात्प्रव्रज्या च परन्तप ।
नानाविधानां दुःखानामावासोऽस्मि जनार्दन ।।

5-90-58a
5-90-58b

अज्ञातचर्या बालानामवरोधश्च माधव ।
न मे क्लेशतमं तत्स्यात्पुत्रैः सह परन्तप ।।

5-90-59a
5-90-59b

दुर्योधनेन निकृता वर्षमद्य चतुर्दशम्।
दुःखादपि सुखं नः स्याद्यदि पुण्यफलक्षयः ।।

5-90-60a
5-90-60b

न मे विशेपो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः ।
तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् ।
अस्माद्विमुक्तं सङ्ग्रामात्पश्येयं पाण्डवैः सह ।।

5-90-61a
5-90-61b
5-90-61c

नैव शक्याः पराजेतुं सर्वं ह्येषां तथाविधम् ।
पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् ।।

5-90-62a
5-90-62b

येनाहं कुन्तिभोजाय धनं वृत्तैरिवार्पिता ।
बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तिकां ।।

5-90-63a
5-90-63b

अदात्तु कुन्तिभोजाय सखा सख्ये महात्मने ।
साऽहं पित्रा च निकृता श्वशुरैश्च परन्तप।
अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम ।।

5-90-64a
5-90-64b
5-90-64c

यन्मां वागब्रवीन्नक्तं सूतके सव्यसाचिनः ।
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् ।

5-90-65a
5-90-65b

हत्वा कुरून्महाजन्ये राज्यं प्राप्य धनञ्जयः ।
भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति ।।

5-90-66a
5-90-66b

नाहं तामभ्यसूयामि नमो धर्माय वेधसे ।
कृष्णाय महते नित्यं धर्मो धारयति प्रजाः ।।

5-90-67a
5-90-67b

धर्मश्चेदस्ति वार्ष्णेय यथा वागभ्यभाषत।
त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि ।।

5-90-68a
5-90-68b

न मां माधव वैधव्यं नार्थनाशो न वैरिता ।
तथा शोकाय दहति यथा पुत्रैर्विना भवः ।।

5-90-69a
5-90-69b

याऽहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम्।
धनञ्जयं न पश्यामि का शान्तिर्हृदयस्य मे।
इतश्चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम् ।।

5-90-70a
5-90-70b
5-90-70c

धनञ्जयं च गोविन्द यमौ तं च वृकोदरम्।
जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः ।।

5-90-71a
5-90-71b

अर्थतस्ते मम मृतास्तेषां चाहं जनार्दना ।
ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम् ।।

5-90-72a
5-90-72b

भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ।
पराश्रया वासुदेव या जीवति घिगस्तु ताम् ।।

5-90-73a
5-90-73b

वृत्तेः कार्पण्यलब्धाया अप्रतिष्ठैव ज्यायसी।
अथो धनञ्जयं ब्रूया नित्योद्युक्तं वृकोदरम् ।।

5-90-74a
5-90-74b

यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः।
अस्मिंश्चेदागते काले मिथ्या चातिक्रमिष्यति ।।

5-90-75a
5-90-75b

लोकसंभाविताः संतः सुनृशंसं करिष्यथ ।
नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः ।।

5-90-76a
5-90-76b

काले हि समनुप्राप्ते त्यक्तव्यमपि जीवनम् ।
माद्रीपुत्रौ च व्यक्तव्यौ क्षत्रधर्मरतौ सदा ।।

5-90-77a
5-90-77b

विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ।
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ।।

5-90-78a
5-90-78b

मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम।
गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् ।।

5-90-79a
5-90-79b

अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर ।
विदितौ हि तवात्यन्तं क्रुद्धौ तौ तु यथान्तकौ ।।

5-90-80a
5-90-80b

भीमार्जुनौ नयेतां हि देवानपि परां गतिम्।
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता ।।

5-90-81a
5-90-81b

दुःशासतश्च कर्णश्च परुषाण्यभ्यभाषताम्।
दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम् ।।

5-90-82a
5-90-82b

पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् ।
न हि वैरं समासाद्य प्रशाम्यति वृकोदरः ।।

5-90-83a
5-90-83b

सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति।
यावदन्तं न नयति शात्रवाञ्चत्रुकर्शनः ।।

5-90-84a
5-90-84b

न दुःखं राज्यहरणं न च द्यूते पराजयः ।
प्रव्राजनं तु पुत्राणां न मे तद्दुःखकारणम् ।।

5-90-85a
5-90-85b

यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता।
अशृणोत्परुषा वाचः किं नु दुःखतरं ततः ।।

5-90-86a
5-90-86b

स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा।
नाभ्यगच्छत्तदा नाथं कृष्णा नाथवती सती ।।

5-90-87a
5-90-87b

यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन ।
रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः ।।

5-90-88a
5-90-88b

साऽहमेवंविधं दुःखं सहेयं पुरुषोत्तम ।
भीमे जीवति दुर्धर्षे विजये चापलायिनि ।।

5-90-89a
5-90-89b

वैशंपायन उवाच।

5-90-90x

तत आश्वासयामास पुत्राधिभिरभिप्लुताम्।
पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् ।।

5-90-90a
5-90-90b

वासुदेव उवाच।

5-90-91x

का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः ।
शूरस्य राज्ञो दुहिता आजमीढकुलं गता ।।

5-90-91a
5-90-91b

महाकुलीना भवती ह्रदाद्ध्रदमिवागता।
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता।।

5-90-92a
5-90-92b

वीरसूर्वीरपत्नी त्वं सर्वैः समुदिता गुणैः ।
मुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति ।।

5-90-93a
5-90-93b

निद्रातन्द्रे क्रोधहर्षौ क्षुत्पिपासे हिमातपौ।
एतानि पार्था निर्जित्य नित्यं वीरसुखे रताः ।।

5-90-94a
5-90-94b

त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः ।
न तु स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः ।।

5-90-95a
5-90-95b

अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः ।
उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान् ।।

5-90-96a
5-90-96b

अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्तयोः ।।

5-90-97a
5-90-97b

अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया ।
आत्मानं ते कुशलिनं निवेद्याहुरनामयम् ।।

5-90-98a
5-90-98b

अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् ।
ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान् ।।

5-90-99a
5-90-99b

एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् ।
पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः ।।

5-90-100a
5-90-100b

कुन्त्युवाच।

5-90-101x

यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन।
यथायथा त्वं मन्येथाः कुर्याः कृष्ण तथातथा ।।

5-90-101a
5-90-101b

अविलोपेन धर्मस्य अनिकृत्या परन्तप।
प्रभावज्ञाऽस्मि ते कृष्ण सत्यस्याभिजनस्य च ।।

5-90-102a
5-90-102b

व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा।
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् ।।

5-90-103a
5-90-103b

त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम्।
यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति ।।

5-90-104a
5-90-104b

` कुरूणां पाण्डवानां च लोकानां चापराजित ।
सर्वस्यैतस्य वार्ष्णेय गतिस्त्वमसि माधव।
प्रभावो बुद्धिवीर्यं च तादृशं तव केशव ।।'

5-90-105a
5-90-105b
5-90-105c

वैशंपायन उवाच।

5-90-106x

तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम्।
प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति ।।

5-90-106a
5-90-106b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि नवतितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-90-6 प्रियं राज्यादि। सुखं भोगोत्थ आह्लादः ।। 5-90-21 प्रियो दर्शो दर्शनं यस्य ।। 5-90-48 तथावृत्ता पुण्यशीला ।। 5-90-59 अवरोधः राज्यप्रदानरूपो वृत्तिनिरोधः ।। 5-90-60 यदि सुखं पुण्यक्षयरूपं अर्थाद्दुःखं पापक्षयरूपं तर्हि दुःखात्पापक्षयहेतोस्तत्सुखं नः अस्माकं स्यात्। तथा च न वयं दुःखाद्भयं प्राप्नुम इत्यर्थः ।। 5-90-61 अस्मात् भाविनः कुरुपाण्डवसंग्रामात् ।। 5-90-62 सर्वं वृत्तम्। एषां पाण्डवानां तथाविधं अविषमम् ।। 5-90-63 वृत्तैर्वदान्यत्वेन ख्यातैर्धनं यथा अक्लेशेनार्प्यते तद्वत् येनाहमर्पिता । वृत्तोऽतीते दृढे ख्याते इति विश्वः। आर्यकः पितामहः । तुभ्यं तव ।। 5-90-66 महाजन्ये महायुद्धे । मेधान् अश्वमेधान् ।। 5-90-75 अतिक्रमिष्यति अयुद्धेनेत्यर्थः ।। 5-90-102 अनिकृत्या अच्छलेन ।।

उद्योगपर्व-089 पुटाग्रे अल्लिखितम्। उद्योगपर्व-091