महाभारतम्-05-उद्योगपर्व-180

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-179 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-180
वेदव्यासः
उद्योगपर्व-181 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

रामभीष्मसमरवर्णनम् ।। 1 ।।

भीष्म उवाच।

5-180-1x

आत्मनस्तु ततः सूतो हयानां च विशांपते।
मम चापनयामास शल्यान्कुशलसंमतः ।।

5-180-1a
5-180-1b

स्नातापवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः।
प्रभाते चोदिते सूर्ये ततो युद्धमवर्तत ।।

5-180-2a
5-180-2b

दृष्ट्वा भां तूर्णमायान्तं दंशितं स्यन्दने स्थितम्।
अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ।।

5-180-3a
5-180-3b

ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम् ।
धनुःश्रेष्ठं समित्सृज्य सहसावतरं रथात् ।।

5-180-4a
5-180-4b

अभिवाद्य तथैवाहं रथमारुह्य भारत ।
युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ।।

5-180-5a
5-180-5b

ततोऽहं शरवर्षेण महता समवाकिरम् ।
स च मां शरवर्षेण वर्षन्तं समवाकिरम्।।

5-180-6a
5-180-6b

संक्रुद्धो जामदग्न्यस्तु पुनरेव सुतेजितान् ।
संप्रैषीन्मे शरान्घोरान्दीप्तास्यानुरगानिव ।।

5-180-7a
5-180-7b

ततोऽहं निशितैर्भल्लैः शतशोऽथ सहस्रशः ।
अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः ।।

5-180-8a
5-180-8b

ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् ।
मयि प्रयोजयामास तान्यहं प्रत्यषेधयम् ।

5-180-9a
5-180-9b

अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम्।
ततो विदि महान्नादः प्रादुरासीत्समन्ततः ।।

5-180-10a
5-180-10b

ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान्।
प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ।।

5-180-11a
5-180-11b

ततोऽहमस्त्रमाग्नेयमनुमन्त्र्य प्रयुक्तवान् ।
वारुणेनैव तद्रामो वारयामास मे विभुः ।।

5-180-12a
5-180-12b

एवमस्त्राणि दिव्यानि रामस्याहमवारयम् ।
रामश्च मम तेजस्वी दिव्यास्त्रविदरिन्दमः ।।

5-180-13a
5-180-13b

ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः।
उरस्यविध्यत्संक्रुद्धो जामदग्न्यः प्रतापवान् ।।

5-180-14a
5-180-14b

ततोऽहं भारतश्रेष्ठ संन्यषीदं रथोत्तमे।
ततो मां कश्मलाविष्टं सूतस्तूर्णमुदावहत् ।।

5-180-15a
5-180-15b

ग्लायन्तं भरश्रेष्ठ रामबाणप्रपीडितम् ।
ततो मामपयातं वै भृशं विद्धमचेतसम् ।।

5-180-16a
5-180-16b

रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा विचुक्रुशुः ।
अकृतव्रणप्रभृतयः काशिकन्या च भारत ।।

5-180-17a
5-180-17b

ततस्तु लब्धसंज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम् ।
याहि सूत यतो रामः सज्जोऽहं गतवेदनः ।।

5-180-18a
5-180-18b

ततो मामवहत्सूतो हयैः परमशोभितैः ।
नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ।।

5-180-19a
5-180-19b

ततोऽहं राममासाद्य बाणवर्षैश्च कौरव ।
अवाकिरं सुसंरब्धः संरब्धं च जिगीषया ।।

5-180-20a
5-180-20b

तानापतत एवासौ रामो बाणानजिह्मगान्।
बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे ।।

5-180-21a
5-180-21b

ततस्ते सूदिताः सर्वे मम बाणाः सुसंशिताः ।
रामबाणैर्द्विधा च्छिन्नाः शतशोऽथ सहस्रशः ।।

5-180-22a
5-180-22b

ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम् ।
असृजं जामदग्न्याय रामायाहं जिघांसया ।।

5-180-23a
5-180-23b

तेन त्वभिहतो गाढं बाणवेगवशं गतः।
मुमोह समरे रामो भूमौ च निपपात ह ।।

5-180-24a
5-180-24b

ततो हाहाकृतं कसर्वं रामे भूतलमाश्रिते ।
जगद्भारत संविग्नं यथार्कपतने भवेत् ।।

5-180-25a
5-180-25b

तत एनं समुद्विग्नाः सर्व एवाभिदुद्रुवुः ।
तपोधनास्ते सहसा काश्या च कुरुनन्दन ।।

5-180-26a
5-180-26b

तत एनं परिष्वज्य शनैराश्वासयंस्तदा ।
पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ।।

5-180-27a
5-180-27b

ततः स विह्वलं वाक्यं राम उत्थाय चाब्रवीत्।
तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके ।।

5-180-28a
5-180-28b

स मुक्तो न्यपतत्तूर्णं सव्ये पार्श्वे महाहवे ।
येनाहं भृशमुद्विग्रो व्याघूर्णित इव द्रुमः ।।

5-180-29a
5-180-29b

हत्वा हयांस्ततो रामः शीघ्रास्त्रेण महाहवे ।
अवाकिरन्मां विस्रब्धो बाणैस्तैर्लोमवाहिभिः ।।

5-180-30a
5-180-30b

ततोऽहमपि शीघ्रास्त्रं समरप्रतिवारणम् ।
अवासृजं महाबाहो तेन्तराधिष्ठिताः शराः ।।

5-180-31a
5-180-31b

रामस्य मम चैवाशु व्योमावृत्य समन्ततः।
न स्म सूर्यः प्रतपति शरजालसमावृतः ।।

5-180-32a
5-180-32b

मातरिश्वा ततस्तस्मिन्मेघरुद्ध इवाभवत् ।
ततो वायोः प्रकम्पाच्च सूर्यस्य च गभस्तिभिः ।।

5-180-33a
5-180-33b

अभिघातप्रभावाच्च पावकः समजायत ।
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना ।।

5-180-34a
5-180-34b

भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे ।
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च ।।

5-180-35a
5-180-35b

अयुतान्यथ खर्वाणि निखर्वाणि च कौरव ।
रामः शराणां संक्रुद्धो मयि तूर्णं न्यपातयत् ।।

5-180-36a
5-180-36b

ततोऽहं तानपि रणे शरैराशीविषोपमैः ।
संछिद्य भूमौ नृपते पातयेयं नगानिव ।।

5-180-37a
5-180-37b

एवं तदभवद्युद्वं तदा भरतसत्तम ।
सन्ध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः ।।

5-180-38a
5-180-38b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
अशीत्यधिकशततमोऽध्यायः ।।

उद्योगपर्व-179 पुटाग्रे अल्लिखितम्। उद्योगपर्व-181