महाभारतम्-05-उद्योगपर्व-037

विकिस्रोतः तः
← उद्योगपर्व-036 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-037
वेदव्यासः
उद्योगपर्व-038 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

धृतराष्ट्रेण अल्पायुष्ट्वकारणप्रश्ने विदुरेण तदभिधाय नीतिकथनपूर्वकं कुरुपाण्डवसन्धिकरणविधानम् ।। 1 ।।
































विदुर उवाच।

5-37-1x

सप्तदशेमान्राजेन्द्र मनुः स्वायंभुवोऽब्रवीत्।
वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ।।

5-37-1a
5-37-1b

तानेवेन्द्रस्य च धनुरनाम्यं नमतो ब्रवीत्।
अथो मरीचिनः पादानग्राह्यान्गृह्णतस्तथा ।।

5-37-2a
5-37-2b

यश्चाशिष्यं शास्ति वै यश्च तुष्ये-
द्यश्चातिवेलं भजते द्विषन्तम् ।
स्त्रियश्च यो रक्षति भद्रमश्रुते
यश्चायाच्यं याचते कत्थते वा ।।

5-37-3a
5-37-3b
5-37-3c
5-37-3d

यश्चाभिजातः प्रकरोत्यकार्यं
यश्चाबलो बलिना नित्यवैरी।
अश्रद्दधानाय च यो ब्रवीति
यश्चाकाम्यं कामयते नरेन्द्र ।

5-37-4a
5-37-4b
5-37-4c
5-37-4d

वध्वाऽवहासं श्वशुरो मन्यते यो
वध्वाऽवसन्नभयो मानकामः ।
परक्षेत्रे निर्वपति यश्च बीजं
स्त्रियं च यः परिवदतेऽतिवेलम् ।।

5-37-5a
5-37-5b
5-37-5c
5-37-5d

यश्चापि लब्ध्वा न स्मरामीति वादी
दत्त्वा च यः कत्थति याच्यमानः।
यश्चासतः सान्त्वमुपानयीत
एतान्नयन्ति निरयं पाशहस्ताः ।।

5-37-6a
5-37-6b
5-37-6c
5-37-6d

यस्मिन्यथा वर्तते यो मनुष्य-
स्तस्मिंस्तथा वर्तितव्यं स धर्मः।
मायाचारो मायया वर्तितव्यः
साध्वाचारः साधुना प्रत्युपेयः ।।

5-37-7a
5-37-7b
5-37-7c
5-37-7d

जरा रूपं हरति हि धैर्यमाशा
मृत्युः प्राणान्धर्मचर्यामसूया
कामो ह्रियं वृत्तमनार्यसेवा
क्रोधः श्रियं सर्वमेवाभिमानः ।।

5-37-8a
5-37-8b
5-37-8c
5-37-8d

धृतराष्ट्र उवाच।

5-37-9x

शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा।
नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ।।

5-37-9a
5-37-9b

विदुर उवाच।

5-37-10x

अतिमानोऽतिवादश्च तथाऽत्यागो नराधिप।
क्रोधश्चात्मविधित्सा च मित्रद्रोहश्च तानि षट् ।।

5-37-10a
5-37-10b

एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम्।
एतानि मानवान्ध्नन्ति न मृत्युर्भद्रमस्तु ते ।।

5-37-11a
5-37-11b

विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः।
वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ।।

5-37-12a
5-37-12b

आदेशकृद्वृत्तिहन्ता द्विजानां प्रेषकश्च यः।
शरणागतहा चैव सर्वे ब्रह्महणः समाः।
एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ।।

5-37-13a
5-37-13b
5-37-13c

गृहीतवाक्यो नयविद्वदान्यः
शेषान्नभोक्ता ह्यविहिंसकश्च।
नानर्थकृत्याकुलितः कृतज्ञः
सत्यो मृदुः स्वर्गमुपैति विद्वान् ।।

5-37-14a
5-37-14b
5-37-14c
5-37-14d

सुलभाः पुरुषा राजन्सततं प्रियवादिनः।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।।

5-37-15a
5-37-15b

यो हि धर्मं समाश्रित्य हित्वा भर्तुः प्रियाप्रिये।
अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ।।

5-37-16a
5-37-16b

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ।।

5-37-17a
5-37-17b

आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ।।

5-37-18a
5-37-18b

द्यूतमेतत्पुरा कल्पे दृष्टं वैरकरं नृणाम्।
तस्माद्द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ।।

5-37-19a
5-37-19b

उक्तं मया द्यूतकालेऽपि राज-
न्नेदं युक्तं वचनं प्रातिपेय।
तदौषधं पथ्यमिवातुरस्य
न रोचते तव वैचित्रवीर्य ।।

5-37-20a
5-37-20b
5-37-20c
5-37-20d

काकैरिमांश्चित्रबर्हान्मयूरान्
पराजयेथाः पाण्डवान्धार्तराष्ट्रैः ।
हित्वा सिंहान्क्रोष्टुकान्गूहमानः
प्राप्ते काले शोचिता त्वं नरेन्द्रः ।।

5-37-21a
5-37-21b
5-37-21c
5-37-21d

यस्तात न क्रुध्यति सर्वकालं
भृत्यस्य भक्तस्य हिते रतस्य।
तस्मिन्भृत्या भर्तरि विश्वसन्ति
न चैनमापत्सु परित्यजन्ति ।।

5-37-22a
5-37-22b
5-37-22c
5-37-22d

न भृत्यानां वृत्तिसंरोधनेन
राज्यं धनं सञ्जिघृक्षेदपूर्वम्।
त्यजन्ति ह्येनं वञ्चिता वै विरुद्धाः
स्निग्धा ह्यमात्या परिहीनभोगाः ।।

5-37-23a
5-37-23b
5-37-23c
5-37-23d

कृत्यानि पूर्वं परिसङ्ख्याय सर्वा-
ण्यायव्यये चानुरूपां च वृत्तिम्।
सङ्गृह्णीयादनुरूपान्सहायान्
सहायसाध्यानि हि दुष्कराणि ।।

5-37-24a
5-37-24b
5-37-24c
5-37-24d

अभिप्रायं यो विदित्वा तु भर्तुः
सर्वाणि कार्याणि करोत्यतन्द्री।
वक्ता हितानामनुरक्त आर्यः
शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ।।

5-37-25a
5-37-25b
5-37-25c
5-37-25d

वाक्यं तु यो नाद्रियतेऽनुशिष्टः
प्रत्याह यश्चापि नियुज्यमानः।
प्रज्ञाभिमानी प्रतिकूलवादी
त्याज्यः स तादृक् त्वरयैव भृत्यः ।।

5-37-26a
5-37-26b
5-37-26c
5-37-26d

अस्तब्धमक्लीबमदीर्घसूत्रं
सानुक्रोशं श्लक्ष्णमहार्यमन्यैः।
अरोगजातीयमुदारवाक्यं
दूतं वदन्त्यष्टगुणोपपन्नम् ।।

5-37-27a
5-37-27b
5-37-27c
5-37-27d

न विश्वासाञ्जातु परस्य गेहे
गच्छेन्नरश्चेतयानो विकाले।
न चत्वरे निशि तिष्ठेन्निगूढो
न राजकाम्यां योषितं प्रार्थयीत ।।

5-37-28a
5-37-28b
5-37-28c
5-37-28d

न निह्नवं मन्त्रगतस्य गच्छे-
त्संसृष्टमन्त्रस्य कुसङ्गतस्य।
न च ब्रूयान्नाश्वसिमि त्वयीति
सकारणं व्यपदेशं तु कुर्यात् ।।

5-37-29a
5-37-29b
5-37-29c
5-37-29d

घृणी राजा पुंश्चली राजभृत्यः
पुत्रो भ्राता विधवा बालपुत्रा।
सेनाजीवी चोद्धृतभूरिरेव
व्यवहारेषु वर्जनीयाः स्युरेते ।।

5-37-30a
5-37-30b
5-37-30c
5-37-30d

अष्टौ गुणाः पुरुषं दीपयन्ति
प्रज्ञा च कौल्यं च श्रुतं दमश्च।
पराक्रमश्चाबहुभाषिता च
दानं यथाशक्ति कृतज्ञता च ।।

5-37-31a
5-37-31b
5-37-31c
5-37-31d

एतान्गुणांस्तात महानुभावा-
नेको गुणः संश्रयते प्रसह्य।
राजा यदा सत्कुरुते मनुष्यं
सर्वान्गुणनेष गुणो बिभर्ति ।।

5-37-32a
5-37-32b
5-37-32c
5-37-32d

गुणा दश स्नानशीलं भजन्ते
बलं रूपं स्वरवर्णप्रशुद्धिः।
स्पर्शश्च गन्धश्च विशुद्धता च
श्रीः सौकुमार्यं प्रवराश्च नार्यः ।।

5-37-33a
5-37-33b
5-37-33c
5-37-33d

गुणाश्च षण्मितभुक्तं भजन्ते
आरोग्यमायुश्च बलं सुखं च।
अनाविलं चास्य भवत्यपत्यं
न चैनमाद्यून इति क्षिपन्ति ।।

5-37-34a
5-37-34b
5-37-34c
5-37-34d

अकर्मशीलं च महाशनं च
लोकद्विष्टं बहुमायं नृशंसम्।
अदेशकालज्ञममिष्टवेष-
मेतान्गृहे न प्रतिवासयेत ।।

5-37-35a
5-37-35b
5-37-35c
5-37-35d

कदर्यमाक्रोशकमश्रुतं च
वनौकसं धूर्तममान्यमानिनम्।
निष्ठूरिणं कृतवैरं कृतघ्न-
मेतान्भृशार्तोपि न जातु याचेत् ।।

5-37-36a
5-37-36b
5-37-36c
5-37-36d

संक्लिष्टकर्माणमतिप्रमादं
नित्यानृतं चादृढभक्तिकं च।
विसृष्टरागं पटुमानिनं चा-
प्येतान्न सेवेत नराधमान्षट् ।।

5-37-37a
5-37-37b
5-37-37c
5-37-37d

सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः।
अन्योन्यबन्धनावेतौ विनान्योन्यं न सिद्ध्यतः ।।

5-37-38a
5-37-38

उत्पाद्य पुत्राननृणांश्च कृत्वा
वृत्तिं च तेभ्योऽनुविधाय कांचित्।
स्थाने कुमारीः प्रतिपाद्य सर्वा
अरण्यसंस्थोऽथ मुनिर्बुभूषेत् ।।

5-37-39a
5-37-39b
5-37-39c
5-37-39d

हितं यत्सर्वभूतानामात्मनश्च सुखावहम्।
तत्कुर्यादीश्वरो ह्येतन्मूलं सर्वार्थसिद्धये ।।

5-37-40a
5-37-40b

वृद्धिः प्रभावस्तेजश्च सत्वमुत्थानमेव च।
व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः ।।

5-37-41a
5-37-41b

पश्य दोषान्पाण्डवैर्विग्रहे त्वं
यत्र व्यथेयुरपि देवाः सशक्रा।
पुत्रैर्वैरं नित्यमुद्विग्नवासो
यशःप्रणाशो द्विषतश्च हर्षः।।

5-37-42a
5-37-42b
5-37-42c
5-37-42d

भीष्मस्य कोपस्तव चैवेन्द्रकल्प
द्रोणस्य राज्ञश्च युधिष्ठिरस्य।
उत्सादयेल्लोकमिमं प्रवृद्धः
श्वेतो ग्रहस्तिर्यगिवापतन्खे ।।

5-37-43a
5-37-43b
5-37-43c
5-37-43d

तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः ।
पृथिवीमनुशासेयुरखिलां सागराम्बराम् ।।

5-37-44a
5-37-44b

धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः।
मा वनं छिन्धि सव्याघ्रं मा व्याघ्रा नीनशन्वनात् ।।

5-37-45a
5-37-45b

न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युर्ऋते वनम्।
वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ।।

5-37-46a
5-37-46b

न तथेच्छन्ति कल्याणान्परेषां वेदितुं गुणान्।
यथेषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ।।

5-37-47a
5-37-47b

अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत्।
नहि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ।।

5-37-48a
5-37-48b

यस्यात्मा विरतः पापात्कल्याणे च निवेशितः।
तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ।।

5-37-49a
5-37-49b

यो धर्ममर्थं कामं च यथाकालं निषेवते ।
धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति ।।

5-37-50a
5-37-50b

सन्नियच्छति यो वेगमुत्थितं क्रोधहर्षयोः।
स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ।।

5-37-51a
5-37-51b

बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे।
यत्तु बाहुबलं नाम प्रथमं वलमुच्यते ।।

5-37-52a
5-37-52b

अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते।
तृतीयं धनलाभं तु बलमाहुर्मनीषिणः ।।

5-37-53a
5-37-53b

यत्त्वस्य सहजं राजन्पितृपैतामहं बलम् ।
अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम् ।।

5-37-54a
5-37-54b

येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत ।
यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते ।।

5-37-55a
5-37-55b

महते योऽपकाराय नरस्य प्रभवेन्नरः ।
तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ।।

5-37-56a
5-37-56b

स्त्रीषु राजसु सर्पेषु स्वाध्यायप्रभुशत्रुषु ।
भोगेष्वायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ।।

5-37-57a
5-37-57b

प्रज्ञाशरेणाभिहतस्य जन्तो-
श्चिकित्सकाः सन्ति न चौषधानि ।
न होममन्त्रा न च मङ्गलानि
नाथर्वणा नाप्यगदाः सुसिद्धाः ।।

5-37-58a
5-37-58b
5-37-58c
5-37-58d

सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत।
नावज्ञेया मनुष्येण सर्वे ह्येतेऽतितेजसः ।।

5-37-59a
5-37-59b

अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु।
न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः ।।

5-37-60a
5-37-60b

स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते।
तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा ।।

5-37-61a
5-37-61b

एवमेव कुले जाताः पावकोपमतेजसः।
क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ।।

5-37-62a
5-37-62b

लताधर्मा त्वं सपुत्रः सालः पाण्डुसुता मताः।
न लता वर्धते जातु महाद्रुममनाश्रिता ।।

5-37-63a
5-37-63b

वनं राजंस्तव पुत्रोऽम्बिकेय
सिंहान्वने पाण्डवांस्तात विद्धि।
सिंहैर्विहीनं हि वनं विनश्येत्
सिंहा विनश्येयुर्ऋते वनेन ।।

5-37-64a
5-37-64b
5-37-64c
5-37-64d

।। इति श्रीमन्महाभारते उद्योगपर्वणि
प्रजागरपर्वणि सप्तत्रिंशोऽध्यायः ।।

[सम्पाद्यताम्]

5-37-2 नमतः नामयतः। मरीचिनः मरीचिमतः सूर्यचन्द्रादेः। व्रीह्यादित्वान्मत्वर्थीय इनिः। पादान् रश्मीन् ।। 5-37-3 अशिष्यं शासनानर्हम्। तुष्येत् अल्पलाभेनेति शेषः। भद्रमश्नुत इति। शत्रुसेवया स्त्रीरक्षया च यो भद्रमश्रुते तौ द्वौ मूर्खावित्यर्थः। नो रक्षतीति ङ पाठः ।। 3 ।। 5-37-4 अभिजातः कुलीनः ।। 5-37-5 श्वशुरः सन् यो वध्वा पुत्रभार्यया सह अवहासं परिहासं तत्पित्रादिभिरिव मन्यते स एकादशः। वध्वा स्नुषया भूतया अवसन्नभयो नष्टभयः वधूपित्रादिभिरापदि त्रातोपि तत्रैव मानं कामयते यः स द्वादशो मूर्खः। वध्वावासमिति ङo पाठः ।। 5-37-10 अत्यागः अतिशयितमागोऽपराधः। आत्मविधित्सोति पोषणार्थस्य धाञः सनि रूपम्। आत्मपोषणेच्छा शिश्नोदरपरायणतेत्यर्थः ।। 5-37-11 असयः खङ्गाः। भद्रमस्तु ते एतेषां षण्णांत्यागेन तव पुत्राः शतायुषो भवन्त्वित्यर्थः ।। 5-37-12 वृषली शूद्रा। द्विजश्त्रैवर्णिकः। पानपः मद्यपः ।। 5-37-13 आदेशकृत् ग्रामणीः । प्रेषकः द्विजान् दास्ये नियोजयन्। समेत्य संसृज्य 5-37-24 परिसङ्ख्याय साध्यासाध्यनिश्चयं कृत्वा। तथा वृत्तिं भृत्यजीविकां आयव्ययानुरूपां कृत्वेत्यर्थः ।। 5-37-27 अदीर्घसूत्रं क्षिप्रकारिणम् ।। 5-37-29 किंतु मम किंचित्कार्यमस्तीति। तथा व्यपदेशं व्याजं कृत्वा तादृशान्मन्त्रादपसरेदेवेत्यर्थः ।। 5-37-30 एते व्यवहरे धनदानादौ वर्जनीयाः द्रव्यनाशभयात। एतेभ्यो न ग्राह्यं च। अधमर्णो घृणी लज्जावांश्चेदतिनिर्बन्धेन याच्यमानः प्राणानेव जह्यात् ।। 5-37-34 मितभुक्तं मितभोजिनम्। आद्यूनो बहुभोजी ।। 5-37-36 कदर्यं अदातारम् ।। 5-37-37 संक्लिष्टकर्माणं आततायिनम्।। 5-37-41 अवृत्तिर्जीविकाया अभावः ।। 5-37-43 श्वेतो ग्रहः धूमकेतुः ।। 5-37-54 अभिजातबलं कुलबलम् ।। 5-37-59 कुलपुत्रो ज्ञातिः ।। 5-37-62 कुले जाताः पाण्डवाः ।। 5-37-63 सालाः महावृक्षः ।।

उद्योगपर्व-036 पुटाग्रे अल्लिखितम्। उद्योगपर्व-038