महाभारतम्-05-उद्योगपर्व-107

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-106 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-107
वेदव्यासः
उद्योगपर्व-108 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

विश्वामित्रोक्तलक्षणाश्वाधिगमोपायापरिज्ञानेन शोचता गालवेन स्वार्थलाभाय श्रीविष्णूपासनम् ।। 1 ।।
सुहृदा गरुडेन गालवमुपगम्य स्वेन तस्याभिमतदेशप्राणकथनम् ।। 2 ।।



नारद उवच।

5-107-1x

एवमुक्तस्तदा तेन विश्वामित्रेण धीमता।
नास्ते न शेते नाहारं कुरुते गालवस्तदा ।।

5-107-1a
5-107-1b

त्वगस्थिभूतो हरिणाश्चिन्ताशोकपरायणः।
शोचमानोऽतिमात्रं स दह्यमानश्च मन्युना ।
गालवो दुःखितो दुःखाद्विललाप सुयोधन ।।

5-107-2a
5-107-2b
5-107-2c

कुतः पुष्टानि मित्राणि कुतोऽर्थाः सञ्चयः कृतः ।
हयानां चन्द्रशुभ्राणां शतान्यष्टौ कुतो मम ।।

5-107-3a
5-107-3b

कुतो मे भोजने श्रद्धा सुखश्रद्धा कुतश्च मे।
श्रद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे ।।

5-107-4a
5-107-4b

अहं पारे समुद्रस्य पृथिव्या वा परं परात्।
गत्वाऽऽत्मानं विमुञ्चामि किं फलं जीवितेन मे ।।

5-107-5a
5-107-5b

अदनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः ।
ऋणं धारयमाणस्य कुतः सुखमनीहया ।।

5-107-6a
5-107-6b

सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् ।
प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम् ।।

5-107-7a
5-107-7b

प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः ।
मिथ्यावचनदग्धस्य इष्टापूर्तं प्रणश्यति ।।

5-107-8a
5-107-8b

न रूपमनृतस्यास्ति नानृतस्यास्ति सन्ततिः ।
नानृतस्याधिपत्यं च कुत एव गतिः शुभा ।।

5-107-9a
5-107-9b

कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्।
अश्रद्धेयः कृतघ्नो हि कृतघ्ने नास्ति निष्कृतिः ।।

5-107-10a
5-107-10b

न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम्।
पापो ध्रुवमवाप्नोति विनाशं नाशयन्कृतम् ।।

5-107-11a
5-107-11b

सोऽहं पापः कृतघ्नस्य कृपणश्चानृतोऽपि च ।
गुरोर्यः कृतकार्यः संस्तत्करोमि न भाषितम् ।।

5-107-12a
5-107-12b

सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् ।
अर्थिता न मया काचित्कृतपूर्वा दिवौकसाम् ।।

5-107-13a
5-107-13b

मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे।
अहं तु विबुधश्रेष्ठं देवं त्रिभुवनेश्वरम् ।
विष्णुं गच्छाम्यहं कृष्णं गतिं गतिमतां वरम् ।।

5-107-14a
5-107-14b
5-107-14c

भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान्।
प्रणतो द्रष्टुमिच्छामि कृष्णं योगिनमव्ययम् ।।

5-107-15a
5-107-15b

एवमुक्ते सखा तस्य गरुडो विनतात्मजः ।
दर्शयामास तं प्राह संहृष्टः प्रियकाम्यया ।।

5-107-16a
5-107-16b

सहृद्भवान्मम मतः सुहृदां च मतः सुहृत्।
ईप्सितेनाभिलाषेण योक्तव्यो विभवे सति ।।

5-107-17a
5-107-17b

विभवश्चास्ति मे विप्र वासवावरजो द्विज ।
पूर्वमुक्तस्त्वदर्थं च कृतः कामश्च तेन मे ।।

5-107-18a
5-107-18b

स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् ।
देशं पारं पृथिव्या वा गच्छ गालव मा चिरम् ।।

5-107-19a
5-107-19b

[सम्पाद्यताम्]

5-107-5 परं परात् दूरादपि दूरम्। आत्मानं देहम् । 5-107-6 अनीहया अनुद्यमेन ।। 5-107-7 ईप्सितं दास्यामीति विश्वासमुत्पाद्य ।। 5-107-8 करिष्येतीति संधिरार्षः ।। 5-107-9 अनृतस्य सत्यहीनस्य ।। 5-107-11 तन्त्रणं कुटुम्बधारणम् ।। 5-107-14 अत्राहमितिपदस्य द्विरावृत्तिर्वक्तुर्वैक्लव्याददोषः ।।

उद्योगपर्व-106 पुटाग्रे अल्लिखितम्। उद्योगपर्व-108