महाभारतम्-05-उद्योगपर्व-106

विकिस्रोतः तः
← उद्योगपर्व-105 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-106
वेदव्यासः
उद्योगपर्व-107 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

निर्बन्धस्यानर्थहेतुतायां निदर्शनप्रदर्शनाय दुर्योधनंप्रति नारदेन गालवोपाख्यानकथनारम्भः ।। 1 ।।
विश्वामित्रेण गुरुदक्षिणानिषेधनेऽपि निर्बन्धकारिणं गालवंप्रति एकतश्श्यामकर्णश्वेताश्वशताष्टकानयननियोगः ।। 2 ।।

जनमेजय उवाच।

5-106-1x

अनर्थे जातिनिर्बन्धं परार्थे लोभमोहितम्।
अनार्यकेष्वभिरतं मरणे कृतनिश्चयम् ।।

5-106-1a
5-106-1b

ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम् ।
सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम् ।।

5-106-2a
5-106-2b

कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः।
सौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः ।।

5-106-3a
5-106-3b

वैशंपायन उवाच।

5-106-4x

उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम्।
उक्तं बहुविधं चैव नारदेनापि तच्छृणु ।।

5-106-4a
5-106-4b

नारद उवाच।

5-106-5x

दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्।
तिष्ठते हि सुह्यद्यत्र न बन्धुस्तत्र तिष्ठते ।।

5-106-5a
5-106-5b

श्रोतव्यमपि पश्यापि सुहृदां कुरुनन्दन।
न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः ।।

5-106-6a
5-106-6b

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा निर्बन्धतः प्राप्तो गालवेन पराजयः ।।

5-106-7a
5-106-7b

विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा ।
अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः ।।

5-106-8a
5-106-8b

सप्तर्षीणामन्यतमं वेषमास्थाय भारत।
बभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य तु ।।

5-106-9a
5-106-9b

विश्वामित्रोऽथ संभ्रान्तः श्रपयामास वै चरुम् ।
परमान्नस्य यत्नेन न च तं प्रत्यपालयत् ।।

5-106-10a
5-106-10b

अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः ।
अथ गृह्णान्नमत्युष्णं विश्वामित्रोऽप्युपागमत् ।।

5-106-11a
5-106-11b

भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ ।
विश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः ।।

5-106-12a
5-106-12b

भक्तं प्रगृह्य मूर्ध्ना वै बाहुभ्यां संशितव्रतः ।
स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः ।।

5-106-13a
5-106-13b

तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः ।
गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया ।।

5-106-14a
5-106-14b

अथ वर्षशते पूर्णे धर्मः पुनरुपागमत्।
वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया ।।

5-106-15a
5-106-15b

स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा ।
तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता ।।

5-106-16a
5-106-16b

प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम् ।
भुक्त्वा प्रीतोस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः ।।

5-106-17a
5-106-17b

क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः।
धर्मस्य वचनात्प्रीतो विश्वामित्रस्तथाऽभवत्।।

5-106-18a
5-106-18b

विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः ।
शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच ह ।।

5-106-19a
5-106-19b

अनुज्ञातो मया वत्स यथेष्टं गच्छ गवालव।
इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम् ।।

5-106-20a
5-106-20b

प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम् ।
दक्षिणाः काः प्रयच्छामि भवते गुरुकर्मणि ।।

5-106-21a
5-106-21b

दक्षिणाभिरुपेतं हि कर्म सिद्ध्यति मानद।
दक्षिणानां हि दाता वै अपवर्गेण युज्यते ।।

5-106-22a
5-106-22b

स्वर्गे क्रतुफलं तद्धि दक्षिणा शान्तिरुच्यते।
किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति ।।

5-106-23a
5-106-23b

स जानानस्तु भगवान्खिन्नं शुश्रूषणेन वै।
विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत् ।।

5-106-24a
5-106-24b

असकृद्गच्छगच्छेति विश्वामित्रेण भाषितः ।
किं ददानीति बहुशो गालवः प्रत्यभाषत ।।

5-106-25a
5-106-25b

निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः।
किंचिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम् ।।

5-106-26a
5-106-26b

एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम्।
अष्टौ शतानि मे देहि गच्छ गालव मा चिरम् ।।

5-106-27a
5-106-27b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि षडधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-106-1 परार्थे परस्वनिमित्तम् ।। 5-106-5 सुहृत् प्रत्युपकारमनपेक्ष्य उपकर्ता ।। 5-106-6 श्रोतव्यं श्रोतुं युक्तम्। निर्बन्धः सत्यपि बलवद्बाधके तत्रैवाग्रहः ।। 5-106-10 न प्रत्यपालयत् अन्नसिद्धिपर्यन्तं न प्रतीक्षितवान् ।। 5-106-11 तेन वसिष्ठेन । उपागमत् वसिष्ठसमीपम् ।। 5-106-13 मूध्नी बाहुभ्यां च परिगृह्य। अभ्याशे समीपे आश्रमस्य ।। 5-106-14 गौरवात् गुरुत्वात्। बहुमानात् लोकपूज्यत्वात्। हार्देन प्रीत्या ।। 5-106-19 शुश्रूषया सेवया। भक्त्या आराध्यत्वज्ञानेन ।। 5-106-21 गुरुकर्मणि ब्रह्मचर्यव्रतसमाप्तौ सत्याम् ।। 5-106-22 अपवर्गेण फलप्राप्त्या ।। 5-106-23 क्रतुफलं दक्षिणाप्रद एव प्राप्नोति । शान्तिः सर्वोपद्रवहारिणी ।। 5-106-27 श्यामो हरितः । एकतः बहिःप्रदेशे एव श्यामाः कर्णा येषां एकतःश्यामकर्णानाम् ।।

उद्योगपर्व-105 पुटाग्रे अल्लिखितम्। उद्योगपर्व-107