महाभारतम्-05-उद्योगपर्व-107
← उद्योगपर्व-106 | महाभारतम् पञ्चमपर्व महाभारतम्-05-उद्योगपर्व-107 वेदव्यासः |
उद्योगपर्व-108 → |
महाभारतस्य पर्वाणि |
---|
विश्वामित्रोक्तलक्षणाश्वाधिगमोपायापरिज्ञानेन शोचता गालवेन स्वार्थलाभाय श्रीविष्णूपासनम् ।। 1 ।।
सुहृदा गरुडेन गालवमुपगम्य स्वेन तस्याभिमतदेशप्राणकथनम् ।। 2 ।।
नारद उवच। | 5-107-1x |
एवमुक्तस्तदा तेन विश्वामित्रेण धीमता। | 5-107-1a 5-107-1b |
त्वगस्थिभूतो हरिणाश्चिन्ताशोकपरायणः। | 5-107-2a 5-107-2b 5-107-2c |
कुतः पुष्टानि मित्राणि कुतोऽर्थाः सञ्चयः कृतः । | 5-107-3a 5-107-3b |
कुतो मे भोजने श्रद्धा सुखश्रद्धा कुतश्च मे। | 5-107-4a 5-107-4b |
अहं पारे समुद्रस्य पृथिव्या वा परं परात्। | 5-107-5a 5-107-5b |
अदनस्याकृतार्थस्य त्यक्तस्य विविधैः फलैः । | 5-107-6a 5-107-6b |
सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम् । | 5-107-7a 5-107-7b |
प्रतिश्रुत्य करिष्येति कर्तव्यं तदकुर्वतः । | 5-107-8a 5-107-8b |
न रूपमनृतस्यास्ति नानृतस्यास्ति सन्ततिः । | 5-107-9a 5-107-9b |
कुतः कृतघ्नस्य यशः कुतः स्थानं कुतः सुखम्। | 5-107-10a 5-107-10b |
न जीवत्यधनः पापः कुतः पापस्य तन्त्रणम्। | 5-107-11a 5-107-11b |
सोऽहं पापः कृतघ्नस्य कृपणश्चानृतोऽपि च । | 5-107-12a 5-107-12b |
सोऽहं प्राणान्विमोक्ष्यामि कृत्वा यत्नमनुत्तमम् । | 5-107-13a 5-107-13b |
मानयन्ति च मां सर्वे त्रिदशा यज्ञसंस्तरे। | 5-107-14a 5-107-14b 5-107-14c |
भोगा यस्मात्प्रतिष्ठन्ते व्याप्य सर्वान्सुरासुरान्। | 5-107-15a 5-107-15b |
एवमुक्ते सखा तस्य गरुडो विनतात्मजः । | 5-107-16a 5-107-16b |
सहृद्भवान्मम मतः सुहृदां च मतः सुहृत्। | 5-107-17a 5-107-17b |
विभवश्चास्ति मे विप्र वासवावरजो द्विज । | 5-107-18a 5-107-18b |
स भवानेतु गच्छाव नयिष्ये त्वां यथासुखम् । | 5-107-19a 5-107-19b |
5-107-5 परं परात् दूरादपि दूरम्। आत्मानं देहम् । 5-107-6 अनीहया अनुद्यमेन ।। 5-107-7 ईप्सितं दास्यामीति विश्वासमुत्पाद्य ।। 5-107-8 करिष्येतीति संधिरार्षः ।। 5-107-9 अनृतस्य सत्यहीनस्य ।। 5-107-11 तन्त्रणं कुटुम्बधारणम् ।। 5-107-14 अत्राहमितिपदस्य द्विरावृत्तिर्वक्तुर्वैक्लव्याददोषः ।।
उद्योगपर्व-106 | पुटाग्रे अल्लिखितम्। | उद्योगपर्व-108 |