महाभारतम्-05-उद्योगपर्व-153

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-152 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-153
वेदव्यासः
उद्योगपर्व-154 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कर्णादीन्प्रति दुर्योधनेन सांग्रामिकसामग्रीसंपादनचोदनम् ।। 1 ।।
तच्चोदनया राज्ञां सेनाभिः सह कुरुक्षेत्रप्रस्थानम् ।। 2 ।।


जनमेजय उवाच।

5-153-1x

युधिष्ठिरं सहानीकमुपायान्तं युयुत्सया।
सन्निविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ।।

5-153-1a
5-153-1b

विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् ।
केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ।।

5-153-2a
5-153-2b

महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः।
श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ।।

5-153-3a
5-153-3b

एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते।
संभ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ।।

5-153-4a
5-153-4b

व्यथयेयुरिमे देवान्सेन्द्रानपि समागमे ।
पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ।।

5-153-5a
5-153-5b

धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः ।
युधामन्युश्च विक्रान्तो देवैरपि दुरासदः ।।

5-153-6a
5-153-6b

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।
कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ।।

5-153-7a
5-153-7b

वैशंपायन उवाच।

5-153-8x

प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा।
कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ।।

5-153-8a
5-153-8b

अकृतेनैव कार्येण गतः पार्थानधोक्षजः ।
स एनान्मन्युनाविष्टो ध्रुवं धक्ष्यत्यसंशयम् ।।

5-153-9a
5-153-9b

इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः ।
भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ।।

5-153-10a
5-153-10b

अजातशत्रुरत्यर्थं भीमसेनवशानुगः।
निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ।।

5-153-11a
5-153-11b

विराटद्रुपदौ चैव कृतवैरौ मया सह ।
तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ।।

5-153-12a
5-153-12b

भविता विग्रहः सोयं तुमुलो लोमहर्षणः ।
तस्मात्साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः ।।

5-153-13a
5-153-13b

शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः ।
स्वपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ।।

5-153-14a
5-153-14b

आसन्नजलकोष्ठानि शतशोथ सहस्रशः ।
अच्छेद्याहारमार्गाणि बन्धोच्छ्रयचितानि च ।

5-153-15a
5-153-15b

विविधायुधपूर्णानि पताकाध्वजवन्ति च।
समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः ।।

5-153-16a
5-153-16b

प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् ।

5-153-17a

वैशंपायन उवाच।

5-153-17x

ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा ।।

5-153-17b

हृष्टरूपा महात्मानो निवासाय महीक्षिताम् ।
ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् ।।

5-153-18a
5-153-18b

आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ।
बाहून्परिघसङ्काशान्संस्पृशन्तः शनैः शनैः ।।

5-153-19a
5-153-19b

काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान्।
उष्णीषाणि नियच्छन्तः पुण्डरीकनिभै करैः।
अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ।।

5-153-20a
5-153-20b
5-153-20c

ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः।
सज्जयन्ति स्म नागांश्च नागशिक्षास्वनुष्ठिताः ।।

5-153-21a
5-153-21b

अथ वर्माणि चित्राणि काञ्चनानि बहूनि च ।
विविधानि च शस्त्राणि चक्रुः सर्वाणि सर्वशः ।।

5-153-22a
5-153-22b

पदातयश्च पुरुषाः शस्त्राणि विविधानि च।
उपाजह्रुः शरीरेषु हेमचित्राण्यनेकशः ।।

5-153-23a
5-153-23b

तदुत्सव इवोदग्रं संप्रहृष्टनरावृतम् ।
नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ।।

5-153-24a
5-153-24b

जनौघसलिलावर्तो रथनागाश्वमीनवान् ।
शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान् ।।

5-153-25a
5-153-25b

चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् ।
प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ।।

5-153-26a
5-153-26b

योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः ।
व्यदृश्यत तदा राजंश्चन्द्रोदय इवोदधिः ।।

5-153-27a
5-153-27b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि सैन्यनिर्याणपर्वणि
त्रिपञ्चाशदधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-153-15 आसन्नजला कोष्ठाः कक्ष्या येषु तानि तथा। अच्छेद्यः शत्रुभिरनिर्वार्य आहार आहरणं वस्तूनां मार्गाश्च येषु तानि अच्छेद्याहारमार्गाणि ।। 5-153-20 अन्तरीयं परिधानीयम् । उत्तरीयं प्रावरणवस्त्रम् ।।

उद्योगपर्व-152 पुटाग्रे अल्लिखितम्। उद्योगपर्व-154