महाभारतम्-05-उद्योगपर्व-024

विकिस्रोतः तः
← उद्योगपर्व-023 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-024
वेदव्यासः
उद्योगपर्व-025 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

सञ्जयेन युधिष्ठिरप्रश्नानामुत्तरदानपूर्वकं धृतराष्ट्रसन्देशश्रवणविधानम् ।। 1 ।।

सञ्जय उवाच।

5-24-1x

यथाऽऽत्थ मे पाण्डव तत्तथैव
कुरून्कुरुश्रेष्ठ जनं च पृच्छसि।
अनामयास्तात मनस्विनस्ते
कुरुश्रेष्ठान्पृच्छसि पार्थ यांस्त्वम् ।।

5-24-1a
5-24-1b
5-24-1c
5-24-1d

सन्त्येव वृद्धाः साधवो धार्तराष्ट्रे
सन्त्येव पापाः पाण्डव तस्य विद्धि।
दद्याद्रिपुभ्योऽपि हि धार्तराष्ट्रः
कुतो दायांल्लोपयेद्ब्राह्मणानाम् ।।

5-24-2a
5-24-2b
5-24-2c
5-24-2d

यद्युष्मासु वर्ततेऽसावधर्म्य-
मद्रुग्धेषु द्रुग्धवत्तन्न साधु।
मित्रध्रुक् स्याद्धृतराष्ट्रस्य पुत्रो
युष्मान्द्विपन्साधुवृत्तानसाधुः ।।

5-24-3a
5-24-3b
5-24-3c
5-24-3d

स चापि जानाति भृशं च तप्यते
शोचत्यन्तः स्थविरोऽजातशत्रो।
शृणोति हि ब्राह्मणानां समेत्य
मित्रद्रोहः पातकेभ्यो यरीयान् ।।

5-24-4a
5-24-4b
5-24-4c
5-24-4d

स्मरन्ति तुभ्यं नरदेव सङ्गमे
युद्धे च जिष्णोश्च युधां प्रणेतुः।
समुद्धुष्टे दुन्दुभिशङ्खशब्दे
गदापाणिं भीमसेनं स्मरन्ति ।।

5-24-5a
5-24-5b
5-24-5c
5-24-5d

माद्रीसुतौ चापि तथाऽऽजिमध्ये
सर्वा दिशः संपतन्तौ स्मरन्ति।
सेनां वर्षन्तौ शग्वैपरजमं
महारथौ समरे दुष्प्रकम्पौ ।।

5-24-6a
5-24-6b
5-24-6c
5-24-6d

समीकुर्याः प्रज्ञयाऽजातशत्रो ।।

5-24-7f

न कामार्थं सन्त्यजेयुर्हि धर्मं
पाण्डोः सुताः सर्व एवेन्द्रकल्पाः ।
त्वमेवैतत्प्रज्ञयाऽजातशत्रो
समीकुर्या येन शर्माप्नुयुस्ते ।।

5-24-8a
5-24-8b
5-24-8c
5-24-8d

धार्तराष्ट्राः पाण्डवाः सृञ्जयाश्च
ये चाप्यन्ते सन्निविष्टा नरेन्द्राः ।
यन्मां ब्रवीद्धृतराष्ट्रो निशाया-
मजातशत्रो वचनं पिता ते ।।

5-24-9a
5-24-9b
5-24-9c
5-24-9d

सहामात्यः सहपुत्रश्च राजन्
समेत्य तां वाचमिमां निबोध ।।

5-24-10a
5-24-10b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
सञ्जययानपर्वणि चतुविंशोऽध्यायः ।।

[सम्पाद्यताम्]

5-24-4 गरीयानिति ...... 5-24-5 ........ 5-24-7 अनागतं अज्ञातं अदृष्टमित्यर्थः ।।

उद्योगपर्व-023 पुटाग्रे अल्लिखितम्। उद्योगपर्व-025