महाभारतम्-05-उद्योगपर्व-109
← उद्योगपर्व-108 | महाभारतम् पञ्चमपर्व महाभारतम्-05-उद्योगपर्व-109 वेदव्यासः |
उद्योगपर्व-110 → |
महाभारतस्य पर्वाणि |
---|
गरुडेन गालवंप्रति दक्षिणदिग्गुणवर्णनम् ।। 1 ।।
सुपर्ण उवाच। | 5-109-1x |
इयं विवस्वदा पूर्वं श्रौतेन विधिना किल। | 5-109-1a 5-109-1b |
अत्र लोकत्रयस्यास्य पितृपक्षः प्रतिष्ठितः। | 5-109-2a 5-109-2b |
अत्र विश्वे सदा देवाः पितृभिः सार्धमासते। | 5-109-3a 5-109-3b |
एतद्द्वितीयं देवस्य द्वारमाचक्षते द्विज। | 5-109-4a 5-109-4b |
अत्र देवर्षयो नित्यं पितृलोकर्षयस्तथा। | 5-109-5a 5-109-5b |
अत्र धर्मश्च सत्यं च कर्म चात्र निगद्यते। | 5-109-6a 5-109-6b |
एषा दिक्सा द्विजश्रेष्ठ यां सर्वः प्रतिपद्यते। | 5-109-7a 5-109-7b |
नैर्ऋतानां सहस्रामि बहून्यत्र द्विजर्षभ । | 5-109-8a 5-109-8b |
अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च। | 5-109-9a 5-109-9b |
अत्र सामानि गाथाभिः श्रुत्वा गीतानि रैवतः । | 5-109-10a 5-109-10b |
अत्र सावर्मिना चैव यवक्रीतात्मजेन च। | 5-109-11a 5-109-11b |
अत्र राक्षसराजेन पौलस्त्येन महात्मना । | 5-109-12a 5-109-12b |
अत्र वृत्तेन वृत्रोऽपि शक्रशत्रुत्वमेयिवान् । | 5-109-13a 5-109-13b |
अत्र दुष्कृतकर्माणो नराः पच्यन्ति गालव । | 5-109-14a 5-109-14b |
अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं प्रपद्यते। | 5-109-15a 5-109-15b |
काष्ठां चासाद्य वासिष्ठीं हिममुत्सृजते पुनः। | 5-109-16a 5-109-16b |
लब्धवान्युध्यमानौ द्वौ बृहन्तौ गजकच्छपौ । | 5-109-17a 5-109-17b |
विदुर्यं कपिलं देवं येनार्ताः सगरात्मजाः । | 5-109-18a 5-109-18b |
अधीत्य सकलान्वेदाँल्लेभिरे मोक्षमक्षयम्। | 5-109-19a 5-109-19b |
तक्षकेण च नागेन तथैवैरावतेन च। | 5-109-20a 5-109-20b |
अभेद्यं भास्करेणापि स्वयं वा कृष्णवर्त्मना । | 5-109-21a 5-109-21b 5-109-21c |
।। इति श्रीमन्महाभरते उद्योगपर्वणि |
5-109-2 ऊष्मपाणां उष्णान्नभोजिनाम् ।। 5-109-3 विश्वे त्रयोदशमितो गणः ।। 5-109-4 द्वितीयं देवस्य धर्मस्य द्वारम् ।। 5-109-11 सावर्णिना अनुना । मर्यादा सूर्यरथस्य ।। 5-109-13 सर्वासवः सर्वेषां प्राणा अत्र प्राप्ताः सन्तः पुनः पञ्चधा गच्छन्ति देहं प्राप्नुवन्ति। प्राणापानादिभेदेनेत्यर्थः ।। 5-109-14 वैतरणैः वैतरणीनदीसंज्ञकनरकाहैः ।। 5-109-15 सुखस्यान्तं नरकम्। दुःखस्यान्तं स्वर्गसुखम्। आवृत्तः कर्कायनगतः। तदाहि वृष्टिर्भवति ।। 5-109-16 वासिष्ठीं काष्ठां उदीचीं वसिष्ठोपलक्षितसप्तर्षिभिरधिष्ठिताम् ।। 5-109-20 निर्याणकाले मरणकाले । तमः आन्ध्यम् ।। 5-109-21 तस्य ते तव परिचारस्य अन्वेषणस्य ।।
उद्योगपर्व-108 | पुटाग्रे अल्लिखितम्। | उद्योगपर्व-110 |