महाभारतम्-05-उद्योगपर्व-039

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-038 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-039
वेदव्यासः
उद्योगपर्व-040 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

विदुरेण धृतराष्ट्रंप्रति ज्ञातिसंग्रहे गुणवर्णनपूर्वकं पुनः कुरुपाण्डवेषु साम्येन वर्तनविधानम् ।। 1 ।।






धृतराष्ट्र उवाच।

5-39-1x

अनीश्वरोऽयं पुरुषो भवाभवे
सूत्रप्रोता दारुमयीव योषा।
धात्रा तु दिष्टस्य वशे कृतोऽयं
तस्माद्वद त्वं श्रवणे धृतोऽहम् ।।

5-39-1a
5-39-1b
5-39-1c
5-39-1d

विदुर उवाच।

5-39-2x

अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्।
लभते बुध्द्यवज्ञानमवमानं च भारत ।।

5-39-2a
5-39-2b

प्रियो भवति दानेन प्रियवादेन चापरः ।
मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ।।

5-39-3a
5-39-3b

द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः।
प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह ।।

5-39-4a
5-39-4b

उक्तं मया जातमात्रेऽपि राजन्
दुर्योधनं त्यज पुत्रं त्वमेकम्।
तस्य त्यागात्पुत्रशतस्य वृद्धि-
रस्यात्यागात्पुत्रशतस्य नाशः ।।

5-39-5a
5-39-5b
5-39-5c
5-39-5d

न वृद्धिर्बहुमन्तव्या या वृद्धिः क्षयमावहेत्।
क्षयोऽपि बहुमन्तव्यो यः क्षयो वृद्धिमावहेत् ।।

5-39-6a
5-39-6b

न स क्षयो महाराज यः क्षयो वृद्धिमावहेत्।
क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ।।

5-39-7a
5-39-7b

समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे।
धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जय ।।

5-39-8a
5-39-8b

धृतराष्ट्र उवाच।

5-39-9x

सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम्।
न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ।।

5-39-9a
5-39-9b

विदुर उवाच।

5-39-10x

अतीव गुणसंपन्नो न जातुः विनयान्वितः।
सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते ।।

5-39-10a
5-39-10b

परापवादनिरताः परदुःखोदयेषु च।
परस्परविरोधे च यतन्ते सततोत्थिताः ।।

5-39-11a
5-39-11b

सदोषं दर्शनं येषां संवासे सुमहद्भयम्।
अर्थादाने महान्दोषः प्रदाने च महद्भयम् ।।

5-39-12a
5-39-12b

ये वै भेदनशीलास्तु सकामा निस्त्रपाः शठाः।
ये पापा इति विख्याताः संवासे पिरिगर्हिताः ।।

5-39-13a
5-39-13b

युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत्।
निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति ।।

5-39-14a
5-39-14b

या चैव फलनिर्वृतिः सौहृदे चैव यत्सुखम् ।
यतते चापवादाय यत्नमारभते क्षये ।।

5-39-15a
5-39-15b

अल्पेऽप्यपकृते मोहान्न शान्तिमधिगच्छति।
तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः ।
निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ।।

5-39-16a
5-39-16b
5-39-16c

यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम्।
स पुत्रपशुभिर्वृद्धिं श्रेयश्चानन्त्यमश्रुते ।।

5-39-17a
5-39-17b

ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् ।।

5-39-18a

कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचरं।
श्रेयसा योक्ष्यते राजन्कुर्वाणो ज्ञातिसत्क्रियां ।।

5-39-19a
5-39-19b

विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ ।
किंपुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः ।।

5-39-20a
5-39-20b

प्रसादं कुरु वीराणां पाण्डवानां विशांपते।
दीयतां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर ।।

5-39-21a
5-39-21b

एवं लोके यशः प्राप्तं भविष्यति नराधिप।
वृद्धेन हि त्वया कार्यं पुत्राणां तात शासनम् ।।

5-39-22a
5-39-22b

मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम्।
ज्ञातिभिर्विग्रहस्तात न कर्तव्यः शुभार्थिना।
सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ।।

5-39-23a
5-39-23b
5-39-23c

संभोजनं संकथनं संप्रीतिश्च परस्परम् ।
ज्ञातिभिः सह कार्याणि न विरोधः कदाचन ।।

5-39-24a
5-39-24b

ज्ञातयस्तारयन्तीह ज्ञातयो मञ्जयन्ति च।
सुवृत्तास्तारयन्तीह दुर्वृत्ता मञ्जयन्ति च ।।

5-39-25a
5-39-25b

सुवृत्तो भव राजेन्द्र पाण्जवान्प्रति मानद।
अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यति ।।

5-39-26a
5-39-26b

श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति ।
दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ।।

5-39-27a
5-39-27b

पश्चादपि नरश्रेष्ठ तव तापो भविष्यति ।
तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय ।।

5-39-28a
5-39-28b

येन खट्वां समारूढः परितप्येत कर्मणा ।
आदावेन न तत्कुर्यादध्रुवे जीविते सति ।।

5-39-29a
5-39-29b

न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् ।
शेषसंप्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ।।

5-39-30a
5-39-30b

दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् ।
त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ।।

5-39-31a
5-39-31b

तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः ।
भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ।।

5-39-32a
5-39-32b

सुव्याहृतानि धीराणां फलतः परिचिन्त्य यः।
अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ।।

5-39-33a
5-39-33b

असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि ।
उपलभ्यं चाविदितं विदितं चाननुष्ठितम् ।।

5-39-34a
5-39-34b

पापोदयफलं विद्वान्यो नारभति वर्धते ।।

5-39-35a

यस्तु पूर्वकृतं पापमविमृश्यानुवर्तते ।
अगाधपङ्के दुर्मेधा विषमे विनिपात्यते ।।

5-39-36a
5-39-36b

मन्त्रभेदस्य षट् प्राज्ञो द्वाराणीमानि लक्षयेत्।
अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः ।।

5-39-37a
5-39-37b

मदं स्वप्नपविज्ञानमाकारं चात्मसंभवम् ।
दुष्टामात्येषु विश्रम्भं दूताच्चाकुशलादपि ।।

5-39-38a
5-39-38b

द्वाराण्येतानि यो ज्ञात्वा संवृणोति सदा नृप।
त्रिवर्गाचरणे युक्तः स शत्रूनधितिष्ठति ।।

5-39-39a
5-39-39b

नवै श्रुतमविज्ञाय वृद्धाननुपसेव्य वा।
धर्मार्थौ वेदुतुं शक्यौ बृहस्पतिसमैरपि ।।

5-39-40a
5-39-40b

नष्टं समुद्रे पतितं नष्टं वाक्यमशृण्वति।
अनात्मनि श्रुतं नष्टं नष्टं हुतमनग्निकम् ।।

5-39-41a
5-39-41b

मत्या परीक्ष्य मेधावी बुद्ध्या संपाद्य चासकृत्।
श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत् ।।

5-39-42a
5-39-42b

अकीर्ति विनयो हन्ति हन्त्यनर्थं पराक्रमः ।
हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ।।

5-39-43a
5-39-43b

परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया।
परीक्षेत कुलं राजन्भोजनाच्छादनेन च ।।

5-39-44a
5-39-44b

उपस्थितसय कामस्य प्रतिवादो न विद्यते।
अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः ।।

5-39-45a
5-39-45b

प्राज्ञोपसेविनं वैद्यं धार्मिकं प्रियदर्शनम् ।
मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत् ।।

5-39-46a
5-39-46b

दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत्।
धर्मापेक्षी मृदुर्ह्रीमान्स कुलीनशताद्वरः ।।

5-39-47a
5-39-47b

ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा।
समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यति ।।

5-39-48a
5-39-48b

दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव।
विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ।।

5-39-49a
5-39-49b

अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च।
तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ।।

5-39-50a
5-39-50b

कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् ।
जितेन्द्रियं स्थितं स्थित्यां मित्रमित्यभिवाञ्छति ।।

5-39-51a
5-39-51b

इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते।
अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतानपि ।।

5-39-52a
5-39-52b

मार्दवं सर्वभूतानामनसूया क्षमा धृतिः।
आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ।।

5-39-53a
5-39-53b

अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीपते ।
मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ।।

5-39-54a
5-39-54b

आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः ।
अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते।।

5-39-55a
5-39-55b

कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।
तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ।।

5-39-56a
5-39-56b

मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम्।
भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् ।।

5-39-57a
5-39-57b

अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च।
महान्भवत्यनिर्विष्णः सुखं चानन्त्यमश्नुते ।।

5-39-58a
5-39-58b

नातः श्रीमत्तरं किंचिदन्यत्पथ्यतमं मतम्।
प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ।।

5-39-59a
5-39-59b

क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात्।
अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ।।

5-39-60a
5-39-60b

यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते।
कामं तदुपसेवेत न मूढव्रतमाचरेत् ।।

5-39-61a
5-39-61b

दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च।
न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः ।।

5-39-62a
5-39-62b

आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम्।
अशक्तं मन्यमानास्तु धर्षयन्ति कुबुद्धयः ।।

5-39-63a
5-39-63b

अत्यार्यमतिदातारमतिशूरमतिव्रतम् ।
प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ।।

5-39-64a
5-39-64b

न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च।
नेषा गुणान्कामयते नैर्गुण्यान्नानुरज्यते।
उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते ।।

5-39-65a
5-39-65b
5-39-65c

अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम्।
रतिपुत्रफला नारी दत्तभुक्तफलं धनम् ।।

5-39-66a
5-39-66b

अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम्।
न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ।।

5-39-67a
5-39-67b

कान्तारे वनदुर्गेषु कृच्छ्रास्वापत्सु संभ्रमे।
उद्यतेषु च शस्त्रेषु नास्ति सत्ववतां भयम् ।।

5-39-68a
5-39-68b

उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः ।
समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तु ।।

5-39-69a
5-39-69b

तपो बलं तापमानां ब्रह्म ब्रह्मविदां बलम् ।
हिंसा बलमसाधूनां क्षमा गुणवतां बलम् ।।

5-39-70a
5-39-70b

अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ।।

5-39-71a
5-39-71b

न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः।
सङ्ग्रहेणैव धर्मः स्यात्कामादन्यः प्रवर्तते ।।

5-39-72a
5-39-72b

अक्रोधेन जयेत्क्रोधमसाधुं नाधुना जयेत्।
जयेत्कदर्यं दानेन जयेन्मत्येन चानृतम् ।।

5-39-73a
5-39-73b

स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि।
चोरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ।।

5-39-74a
5-39-74b

अभिवादनशीलप्य नित्यं वृद्धोपसेविनः ।
चत्वारि संप्रवर्धन्ते कीर्तिरापुर्यशो बलम्।।

5-39-75a
5-39-75b

अतिक्लेशेन येऽथोः स्वधर्मस्यानिक्रमेण वा।
अरेर्वा प्रणिपातेन मा .. तेषु मनः कृथाः ।।

5-39-76a
5-39-76b

अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमप्रजम्।
निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकं ।।

5-39-77a
5-39-77b

अध्वा जरा देहवतां पर्वतानां जलं जरा।
असंभोगो जरा स्त्रीणां वाक्छल्यं मनसो जरा।।

5-39-78a
5-39-78b

अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्।
मलं पृथिव्या वाह्लीकाः पुरुषस्यानृतं मलम् ।।

5-39-79a
5-39-79b

कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः ।।

5-39-80a

सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु।
ज्ञेयं त्रपुमलं सीमं सीसस्यापि मलं मलम् ।।

5-39-81a
5-39-81b

न स्वप्नेन जयेन्निद्रां न कामेन जयेत्स्त्रियः।
नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ।।

5-39-82a
5-39-82b

यस्य दानजितं मित्रं शत्रवो युधि निर्जिताः ।
अन्नपानजिता दाराः सफलं तस्य जीवितम् ।।

5-39-83a
5-39-83b

सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा ।
धृतराष्ट्र विमुञ्चेच्छां न कथञ्चिन्न जीव्यते ।।

5-39-84a
5-39-84b

यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति।।

5-39-85a
5-39-85b

राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर।
समता यदि ते राजन्स्वेषु पाण्डुसुतेषु वा ।।

5-39-86a
5-39-86b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
प्रजागरपर्वणि एकोनचत्वारिंशोऽध्यायः ।।

[सम्पाद्यताम्]

5-39-1 भवाभवे ऐश्वर्यानैश्वर्ये। दिष्टस्य दैवस्य। वदैव नतु म दूषयेति भावः। धृतः धृतिमान् ।। 5-39-2 बुद्ध्यवज्ञानं अवज्ञातबुद्धित्वम् ।। 5-39-9 आयतीयुक्तं उदर्के हितम् ।। 5-39-15 फलनिर्वृत्तिः सुखं च प्रणश्यति। आरभते नीच इति शेषः ।। 5-39-16 सङ्गतं संबन्धम्। निशाम्य विचार्य ।। 5-39-27 दिग्धहस्तं विषाक्तबाणहस्तम्। स श्रीमान् एनस्तस्य ज्ञातेरवसादजं पापं विन्दति। मृगवधजं पापं व्याध इवेत्यर्थः ।। 5-39-29 खट्वां समारूढश्चिन्तागारं प्रविष्टः ।। 5-39-30 भार्गवात् शुक्रादन्यत्र नीतिशास्त्रकर्तारं शुक्रं विहाय अन्यः कश्चिदपि न अपनयते इति न अपितु सर्वोऽप्यपनयते अनीतिं करोति। अतः यत् अतीतं तत् अतीतमेव। शेषस्य तत्कालोचितस्य अर्थस्य प्रतिपत्तिः विचारः कर्तव्य इत्यर्थः ।। 5-39-31 प्रत्यानेयं प्रतिकर्तव्यम्।। 5-39-33 अध्यवस्यति निश्चयं करोति ।। 5-39-34 सुकुशलैरप्युपयुक्तं उपदिष्टं तत् ज्ञानं असम्यगेव। यतः उपलभ्यं ज्ञेयं तेन अविदितं न ज्ञातं । ज्ञातं वा तत् नानुष्ठितम्। मदुक्तं त्वयि निष्फलमेवेति भावः ।। 5-39-35 पापोदयफलं पापहेतुभूतप्रयोजनकं कर्म यो नारभते स वर्धते ।। 5-39-36 पापमेवानुवर्तते सततं करोति। पङ्के नारके ।। 5-39-38 अविज्ञानं परकीयगुप्तचारादेरज्ञानम्। आत्मसंभवं आकारं नेत्रवक्रविकारादिकम् ।। 5-39-39 मन्त्रभेदस्य द्वाराणि संवृणोति पिदधाति ।। 5-39-40 श्रुतं शास्त्रम् ।। 5-39-44 परिच्छदः भोग्यवस्तुसामग्री । क्षेत्रेण जन्मस्थानेन। कुग्रामवासिषु प्रायेण विवेकाभावात्। परिचर्यया आचारेण ।। 5-39-46 वैद्यं विद्यावन्तम् ।। 5-39-52 इन्द्रियाणां उत्सर्गो विषयेषु प्रवृत्तिः। अनुत्सर्गो विषयेभ्यो निवृत्तिः। सा मृत्युतुल्या दुरनुष्ठेयेत्यर्थः ।। 5-39-53 आयुष्याणि आयुष्कराणि ।। 5-39-54 अपनीतं नाशितम् ।। 5-39-55 आयत्यां आगामिति काले दुःखस्य प्रतीकारज्ञः तदात्वे वर्तमाने दृढनिश्चयः ।। 5-39-57 मङ्गलानां दधिदूर्वागवादीनां आलम्भनं स्पर्शः। योगः सहायसंपत। उत्थानं उद्यमःक ।। 5-39-58 अनिर्वेदः उद्योगात् अनुपरमः ।। 5-39-61 मूढव्रतं आहारादौ अतिनिर्बन्धम् ।। 5-39-62 अदान्तेषु लिप्साहीनेषु।। 5-39-67 और्ध्वदेहिकं परलोकसाधनं यज्ञदानादि ।। 5-39-69 संयमः इन्द्रियाणां निग्रहः। भवस्य ऐश्वर्यस्य ।। 5-39-71 ब्राह्मणकाम्या ब्राह्मणस्य इच्छा इत्येत्यर्थः ।। 5-39-73 संदध्यात् कुर्यात् ।। 5-39-73 साधुना ... 5-39-78 स्त्रीधूर्तके स्त्रियां धुते चेत्येकवद्भावः ।। 5-39-79 वाह्लीकाः पञ्चानां सिन्धुषष्टानां नदीनां यत्र संगमः वाह्लीका नाम ते देशाः ।। 5-39-80 विप्रवासः प्रवासः ।। 5-39-82 स्वप्नेन शयनेन ।। 5-39-86 यदि ते स्वेषु पुत्रेषु पाण्डवेषु च समतास्ति तर्हि सर्वेषु सममेवाचर ।।

उद्योगपर्व-038 पुटाग्रे अल्लिखितम्। उद्योगपर्व-040