महाभारतम्-05-उद्योगपर्व-069

विकिस्रोतः तः
← उद्योगपर्व-068 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-069
वेदव्यासः
उद्योगपर्व-070 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

सञ्जयेन धृतराष्ट्रंप्रति वासुदेवादिभगवन्नामनिर्वचनम् ।। 1 ।। तथा सन्ध्यर्थं श्रीकृष्णागमनकथनम् ।। 2 ।।


धृतराष्ट्र उवाच।

5-69-1x

भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छतः।
नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् ।।

5-69-1a
5-69-1b

सञ्जय उवाच।

5-69-2x

श्रुतं मे वासुदेवस्य नामनिर्वचनं शुभम्।
यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः ।।

5-69-2a
5-69-2b

वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः।
वासुदेवस्ततो वेद्यो बृहत्त्वाद्विष्णुरुच्यते ।।

5-69-3a
5-69-3b

मौनाद्ध्यानाच्च योगाच्च विद्दि भारत माधवम्।
सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः ।।

5-69-4a
5-69-4b

कृषिर्भूवाचकः शब्दो गश्च निर्वृतिवाचकः।
विष्णुस्तद्भावयोगाच्च कृष्णो भवति सात्वतः ।।

5-69-5a
5-69-5b

पुण्डरीकं परं धाम नित्यमक्षयमव्ययम् ।
तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जानार्दनः ।।

5-69-6a
5-69-6b

यतः सत्वं न च्यवते यच्च यत्वान्न हीयते।
सात्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः ।।

5-69-7a
5-69-7b

न जायते जनित्राऽयमजस्तस्मादनीकजित् ।
देवानां स्वप्रकाशत्वाद्दमाद्दामोदरो विभुः ।।

5-69-8a
5-69-8b

हर्षात्सुखात्सुखैश्वर्याद्धृषीकेशत्वमश्रुते ।
बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः ।।

5-69-9a
5-69-9b

अघो न क्षीयते जातु यस्मात्तस्मादधोक्षजः।
नराणामयनाच्चापि ततो नारायणः स्मृतः ।।

5-69-10a
5-69-10b

पूरणात्सदनाच्चापि ततोऽसौपुरुषोत्तमः।
असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात्।
सर्वस्य च सदा ज्ञानात्सर्वमेतं प्रचक्षते ।।

5-69-11a
5-69-11b
5-69-11c

सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम्।
सत्यात्सत्यं तु गोविन्दस्तस्मात्सत्योपि नामतः ।।

5-69-12a
5-69-12b

विष्णुर्विक्रमणाद्देवो जयनाञ्जिष्णुरुच्यते।
शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्भवाम् ।।

5-69-13a
5-69-13b

अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः ।।

5-69-14a

एवंविधो धर्मनित्यो भगवान्मधुसूदनः ।
आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः ।।

5-69-15a
5-69-15b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
तयानसन्धिपर्वणि ऊनसस्ततितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-69-2 यावदभिजाने तावत्। वदामीति शेषः। वस्तुतस्तु सः अप्रमेयः ।। 5-69-3 वसत्यस्मिन् भुवनमिति वासुः दीर्घश्छान्दसः । स चासौ देवश्च वासुदेवः । बृहत्त्वाद्व्यापकत्वात् वेवेष्टि व्याप्नोति सर्वमिति विष्णुः। वृषत्वादिष्णुरपच्यते इति खo पाठः। वृषत्वात् अभीष्टसेन्नकत्वात् इति रत्नगर्भः ।। 5-69-4 मौनं मुनेः कर्म मननं। मौनं च ध्यानं च ताभ्यां विषयतया युक्तो माधवः। सर्वतत्तवानि पृथिव्यादयो विषयाः। तेच सुखसाधनतया मधुशब्देनोक्ताः। तेषां लयात् संहर्तृत्वात् मधुहा मधुसूदनश्चेति नामद्वयम् ।। 5-69-5 कृषिरितिशब्दो भूवाचकः कृष्यते सस्यार्थमिति व्युत्पत्त्या। भूमिलोकस्थाप्राणिसुखस्य यो भाव उत्पादनं तत्कर्तृत्वात्कृष्णो भवति ।। 5-69-6 पुण्डरीकं हृदयकमलं धाम वासस्थानं तत्र सन्नपि अक्षो न क्षीयते हन्यते वेति पुण्डरीकाक्षः। तथाच श्रुतिर्नाच जरयैतज्जीर्यंति न वधेनास्य हन्यत इति हृत्पद्म। दोषैर्जरानाशादिभिः परमात्मनोऽस्पृष्टत्वमाह। दस्युत्रासात् जनं दस्युजनं अर्दयति पीडयतीति जनार्दन इत्यर्थः ।। 5-69-7 सत्त्वं बलं। आर्षं वेदस्तेन भातीत्यार्षभ औपनिषदः पुरुषः। उपनिषद्वेद्यत्वाद्योगात् वृषभेक्षणः। तथाचायं योगः वृषं धर्मं भासयतीति वृषभो वेदस्तदेव ईक्षणं चक्षुरिव ज्ञापकं यस्य सः वृषभेक्षण इति ।। 5-69-8 जनित्रा पित्रा न जायत इत्यजः। अनीकजित्सेनाजित् कृष्णः। देवानां स्वप्रकाशत्वात्। ऋगतावित्यस्मादुत्पूर्वात् अप्। उत् उत्कर्षेण ऋच्छति प्रकाशत इति उदरः। दमोस्यास्तीति दामः दामश्चासावुदरश्चेति दामोदरः ।। 5-69-9 हर्षात् हृषिः सुखात्कं सुखैर्श्वर्यादीशः। महीति च्छान्दसं रोदस्योर्नाम। मह्यौ बाह्योर्यस्य स तथा। ईकाराकारश्छान्दसः ।। 5-69-10 जातुशब्दार्थे जकारः ।। 5-69-11 पुरयतीति पुरुः । सीदन्त्यस्मिन्निति सः तस्मात्पुरुषः स चासावुत्तमश्च पुरुषोत्तमः । असतःक कारणस्म सतः कार्यस्य प्रभवाप्ययात् उत्पत्तिप्रलयस्थानचात् सर्वशब्दस्तत्प्रभवाप्ययहेतावुपचारात्प्रवर्तते ।। 5-69-12 सत्ये धर्मे ।। 5-69-13 विशेषेण क्रमणात् व्यापनान्। एवं जयतीति जिष्णुः शाश्वतत्वात् शश्वद्भवत्वात्। गवामिन्द्रियाणां वेदनात् प्रकाशात् गोविन्दः ।। 5-69-15 धर्मे नित्यं सन्निधानात् धर्मनित्यः आगन्ता आगमिष्यति। आनृशंस्यमहिंसा कुरुपाण्डवयोः तदर्थम् ।।

उद्योगपर्व-068 पुटाग्रे अल्लिखितम्। उद्योगपर्व-070