महाभारतम्-05-उद्योगपर्व-195

विकिस्रोतः तः
← उद्योगपर्व-194 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-195
वेदव्यासः
उद्योगपर्व-196 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

दुर्योधनेन त्रेधाविभज्य सेनानां यापनम् ।। 1 ।।
सर्वेषां शिबिरप्रवेशः ।। 2 ।।

वैशंपायन उवाच।

5-195-1x

ततः प्रभाते विमले धार्तराष्ट्रेण चोदिताः।
दुर्योधनेन राजानः प्रययुः पाण्डवान्प्रति ।।

5-195-1a
5-195-1b

आप्लाव्य शुचयः सर्वे स्रग्विणः शुक्लवाससः।
गृहीतशस्त्रा ध्वजिनः स्वस्ति वाच्य हुताग्नयः ।

5-195-2a
5-195-2b

सर्वे ब्रह्मविदः शूराः सर्वे सुचरितव्रताः ।
सर्वे कामकृतश्चैव सर्वे चाहवलक्षणाः ।।

5-195-3a
5-195-3b

आहवेषु पराँल्लोकाञ्जिगीषन्तो महाबलाः ।
एकाग्रमनसः सर्वे श्रद्दधानाः परस्परम् ।।

5-195-4a
5-195-4b

विन्दानुविन्दावावन्त्यौ केकया बाह्लिकैः सह ।
प्रययुः सर्व एवैते भारद्वाजपुरोगमाः ।।

5-195-5a
5-195-5b

अश्वत्थामा शान्तनवः सैन्धवोऽथ जयद्रथः।
दाक्षिणात्याः प्रतीच्याश्च पार्वतीयाश्च ने नृपाः ।।

5-195-6a
5-195-6b

गान्धारराजः शकुनिः प्राच्योदीच्याश्च सर्वशः ।
शकाः किराता यवनाः शिबयोऽथ वसातयः ।।

5-195-7a
5-195-7b

स्वैः स्वैरनीकैः सहिताः परिवार्य महारथम् ।
एते महारथाः सर्वे द्वितीये निर्ययुर्बले ।।

5-195-8a
5-195-8b

कृतवार्मा सहानीकस्त्रिगर्तश्च महारथः ।
दुर्योधनश्च नृपतिर्भ्रातृभिः परिवारितः ।।

5-195-9a
5-195-9b

शलो भूरिश्रवाः शल्यः कौसल्योऽथ बृहद्रथः ।
एते पश्चादनुगता धार्तराष्ट्रपुरोगमाः ।।

5-195-10a
5-195-10b

ते समेत्य यथान्यायं धार्तराष्ट्रा महाबलाः।
कुरुक्षेत्रस्य पश्चार्धे व्यवातिष्ठन्त दंशिताः।।

5-195-11a
5-195-11b

दुर्योधनस्तु शिबिरं कारयामास भारत ।
यथैव हास्तिनपुरं द्वितीयं समलंकृतम् ।।

5-195-12a
5-195-12b

न विशेषं विजानन्ति पुरस्य शिबिरस्य वा ।
कुशला अपि राजेन्द्र नरा नगरवासिनः ।।

5-195-13a
5-195-13b

तादृशान्येव दुर्गाणि राज्ञामपि महीपतिः ।
कारयामास कौरव्यः शतशोऽथ सहस्रशः ।।

5-195-14a
5-195-14b

पञ्चयोजनमुत्सृज्य माण्डलं तद्रणाजिरम् ।
सेनानिवेशास्ते राजन्नाविशञ्छतसङ्घशः ।।

5-195-15a
5-195-15b

तत्र ते पृथिवीपाला यथोत्साहं यथाबलम् ।
विविशुः शिबिराण्यत्र द्रव्यवन्ति सहस्रशः ।।

5-195-16a
5-195-16b

तेषां दुर्योधनो राजा ससैन्यानां महात्मनाम् ।
व्यादिदेश स बाह्यानां भक्ष्यभोज्यमनुत्तमम् ।।

5-195-17a
5-195-17b

सनागाश्वमनुण्याणां ये च शिल्पोपजीविनः ।
ये चान्येऽनुगतास्तत्र सूतमागधबन्दिनः ।।

5-195-18a
5-195-18b

वणिजो गणिकाश्चारा ये चैव प्रेक्षका जनाः ।
सर्वांस्तन्कौरवो राजा विधिवत्प्रत्यवैक्षत ।।

5-195-19a
5-195-19b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वमि
पञ्चनवत्यधिकशततमोऽध्यायः ।।

उद्योगपर्व-194 पुटाग्रे अल्लिखितम्। उद्योगपर्व-196