महाभारतम्-05-उद्योगपर्व-088

विकिस्रोतः तः
← उद्योगपर्व-087 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-088
वेदव्यासः
उद्योगपर्व-089 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

दुर्योधनेन श्रीकृष्णस्य विदुरोदीरितभेदागोचरताङ्गीकरणम् ।। 1 ।।
तथा हेतूपन्यासपूर्वकं कृष्णस्योपायनदाननिषेधनम् ।। 2 ।।
भीष्मेण कृष्णस्य दुरवज्ञेयत्वकथनपूर्वकं तदुक्तस्य कर्तव्यत्वकथनम् ।। 3 ।।
दुर्योधनेन स्वस्य कृष्णबन्धनाध्यवसायकथने धृतराष्ट्रेण तद्गर्हणम् ।। 4 ।।
भीष्मेण दुर्योधनोपालम्भपूर्वकं सभातो निर्गमनम् ।। 5 ।।


दुर्योधन उवाच।

5-88-1x

यदाह विदुरः कृष्णे सर्वं तत्सत्यमच्युते।
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः ।।

5-88-1a
5-88-1b

यत्तत्सत्कारसंयुक्तं देयं वसु जनार्दने ।
अनेकरूपं राजेन्द्र न तद्देयं कदाचन ।।

5-88-2a
5-88-2b

देशः कालस्तथाऽयुक्तो न हि नार्हति केशवः ।
मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति ।।

5-88-3a
5-88-3b

अवमानश्च यत्र स्यात्क्षत्रियस्य विशांपते।
न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः ।।

5-88-4a
5-88-4b

स हि पूज्यतमो लोके कृष्णः पृथुललोचनः ।
त्रयाणामपि लोकानां विदितं मम सर्वथा ।।

5-88-5a
5-88-5b

न तु तस्मै प्रदेयं स्यात्तथा कार्यगतिः प्रभो ।
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् ।।

5-88-6a
5-88-6b

वैशंपायन उवाच।

5-88-7x

तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः।
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् ।।

5-88-7a
5-88-7b

सत्कृतोऽसत्कृतो वाऽपि न क्रुध्येत जनार्दनः ।
`नावमंस्यत्यवज्ञातॄनवज्ञातोऽपि केशवः।'
नालमेनमवज्ञातुं नावज्ञेयो हि केशवः ।।

5-88-8a
5-88-8b
5-88-8c

यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् ।
सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा ।।

5-88-9a
5-88-9b

स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया ।
वासुदेवेन तीर्थेन क्षिप्रं संशाभ्य पाण्डवैः ।।

5-88-10a
5-88-10b

धर्म्यमर्थ्यं च धर्मात्मा ध्रुवं वक्ता जनार्दनः।
तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह ।।

5-88-11a
5-88-11b

दुर्योधन उवाच।

5-88-12x

न पर्याप्तोस्मि यद्राजञ्श्रियं निष्केवलामहम् ।
तैः सहेमामुपाश्रीयां यावज्जीवं पितामह ।।

5-88-12a
5-88-12b

इदं तु सुमहत्कार्यं श्रुणु मे यत्समर्थितम् ।
परायणं पाण्डवानां नियच्छामि जनार्दनम् ।।

5-88-13a
5-88-13b

तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा।
पाण्डवाश्च विधेया मे स च प्रातरिहैप्यति ।।

5-88-14a
5-88-14b

अत्रोपायान्यथा सम्यङ्न बुद्ध्येत जनार्दनः ।
न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे ।।

5-88-15a
5-88-15b

वैशंपायन उवाच।

5-88-16x

तस्य तद्वचनं श्रुत्वा घोरं कृष्णेऽभिसंहितम्।
धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् ।।

5-88-16a
5-88-16b

ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः ।
मैवं वोचः प्रजापाल नैष धर्मः सनातनः ।।

5-88-17a
5-88-17b

दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः।
अपापः कौरवेयेषु स कथं बन्धमर्हति ।।

5-88-18a
5-88-18b

भीष्म उवाच।

5-88-19x

परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः ।
वृणोत्यनर्थं नैवार्थं याच्यमानः सुहृज्जनैः ।।

5-88-19a
5-88-19b

इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम्।
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे ।।

5-88-20a
5-88-20b

कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः ।
तव पुत्रः सहामात्यः क्षणेन न भविष्यति ।।

5-88-21a
5-88-21b

पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः ।
नोत्सहेऽनर्थसंयुक्ताः श्रोतुं वाचः कथंचन ।।

5-88-22a
5-88-22b

इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् ।
उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः ।।

5-88-23a
5-88-23b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि अष्टाशीतितमोऽध्यायः ।।

5-88-1 असंहार्यः हर्तुमशक्यः ।। 5-88-3 देश इति। यद्यपि केशवोऽर्चामर्हत्येव तथापि अर्चायां देशः कालश्चायुक्त इत्यर्थः । तदेबाह मंस्यतीति ।। 5-88-6 कार्यगतिः कर्तव्यरीतिः । अविग्रहात् आतिथ्यमात्रेण ।। 5-88-8 नालं न पर्याप्तोऽसि ।। 5-88-10 तीर्थेन अवतरणवर्त्मना । संशाम्य शान्तो भवः ।। 5-88-12 नोपाश्रीयमित्यन्वयः। निष्केवलां कृत्स्नाम् ।।

उद्योगपर्व-087 पुटाग्रे अल्लिखितम्। उद्योगपर्व-089