महाभारतम्-05-उद्योगपर्व-085

विकिस्रोतः तः
← उद्योगपर्व-084 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-085
वेदव्यासः
उद्योगपर्व-086 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

दूतैः श्रीकृष्णागमनं ज्ञातवतो धृतराष्ट्रस्याज्ञया दुर्योधनेन पथि तदाराधनाय तत्रतत्र सभानिर्मापणम् ।। 1 ।।
श्रीकृष्णेन तदनवलोकनेनैव गमनम् ।। 2 ।।

वैशंपायन उवाच।

5-85-1x

तदा दूतैः समाज्ञाय आयान्तं मधुसूदनम्।
धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् ।।

5-85-1a
5-85-1b

द्रोणं च सञ्जयं चैव विदुरं च महामतिम् ।
दुर्योदनं सहामात्यं हृष्टरोमाऽब्रवीदिदम् ।।

5-85-2a
5-85-2b

अद्भुतं महादाश्चर्यं श्रूयते कुरुनन्दन ।
स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहेगृहे ।।

5-85-3a
5-85-3b

सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः ।
पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च ।।

5-85-4a
5-85-4b

उपायास्यति दाशार्हः पाण्डवार्थे पराक्रमी ।
स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः ।।

5-85-5a
5-85-5b

तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरोऽहि सः।
तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे ।।

5-85-6a
5-85-6b

स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः ।
पूजितो हि सुखाय स्यादसुखः स्यादपूजितः ।।

5-85-7a
5-85-7b

स चेत्तुप्यति दाशार्ह उपचरैररिन्दमः ।
कृष्णात्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ।।

5-85-8a
5-85-8b

तस्य पूजार्थमद्यैव संविधस्त्व परन्तप ।
सभाः पथि विधीयन्तां सर्वकामसमन्विताः ।।

5-85-9a
5-85-9b

यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै ।
तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ।।

5-85-10a
5-85-10b

वैशंपायन उवाच।

5-85-11x

ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम्।
ऊचुःक परममित्येवं पूजयन्तोऽस्य तद्वचः ।।

5-85-11a
5-85-11b

तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा।
सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे ।।

5-85-12a
5-85-12b

ततो देशेषु देशेषु रमणीयेषु भागशः ।
सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः ।।

5-85-13a
5-85-13b

आसनानि विचित्राणि युतानि विविधैर्गुणैः ।
स्त्रियो गन्धानलङ्कानारान्सूक्ष्माणि वसनानि च ।।

5-85-14a
5-85-14b

गुणवन्त्यन्नपानानि भोज्यानि विविधानि च।
माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ।।

5-85-15a
5-85-15b

विशेवतश्च वासार्थं सभां ग्रामे वृकस्थले।
विदधे कौरवो राजा बहुरत्नां मनोरमाम् ।।

5-85-16a
5-85-16b

एतद्विधाय वै सर्वं देवार्हमतिमानुषम् ।
आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा ।।

5-85-17a
5-85-17b

ताः सभाः केशवः सर्वा रत्नानि विविधानि च।
असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् ।।

5-85-18a
5-85-18b

।। इति श्रीमन्महाभारते उद्योगपर्वणि
भगवद्यानपर्वणि पञ्चशीतितमोऽध्यायः ।।

[सम्पाद्यताम्]

5-85-8 अभिप्रायान् मनोरथान् ।।

उद्योगपर्व-084 पुटाग्रे अल्लिखितम्। उद्योगपर्व-086