महाभारतम्-05-उद्योगपर्व-140

विकिस्रोतः तः
← उद्योगपर्व-139 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-140
वेदव्यासः
उद्योगपर्व-141 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कृष्णेन कर्णः किमुक्त इति जनमेजयप्रश्नः ।। 1 ।।
कृष्णेन कर्णंप्रति तस्य कुन्तीसुतत्वरूपरहस्यकथनपूर्वकं पाण्डवपक्षप्रवेशचोदना ।। 2 ।।

जनमेजय उवाच।

5-140-1x

राजपुत्रैः परिवृतस्तथा भृत्यैश्च सत्तम।
उपारोप्य रथे कर्णं निर्यातो मधुसूदनः।।

5-140-1a
5-140-1b

किमब्रवीद्रथोपस्थे राधेयं परवीरहा ।
कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ।।

5-140-2a
5-140-2b

उद्यन्मेघस्वनः काले यत्कृष्णः कर्णमब्रवीत्।
मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सर्वशः ।।

5-140-3a
5-140-3b

वैशंपायन उवाच।

5-140-4x

आनुपूर्व्येण वाक्यानि तीक्ष्णानि च मृदूनि च।
प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ।।

5-140-4a
5-140-4b

हृदयग्रहणीयानि राधेयं मधुसूदनः ।
यान्यब्रवीदमेयात्मा तानि मे श्रृणु भारत ।।

5-140-5a
5-140-5b

वासुदेव उवाच।

5-140-6x

उपासितास्ते राधेय ब्राह्मणा वेदपारगाः।
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ।।

5-140-6a
5-140-6b

त्वमेव कर्ण जानासि वेदवादान्सनातनान् ।
त्वमेव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ।।

5-140-7a
5-140-7b

कानीनश्च सहोढश्च कन्यायां यश्च जायते ।
वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ।।

5-140-8a
5-140-8b

सोऽसि कर्ण तथाजातः पाण्डोः पुत्रोसि धर्मतः ।
निश्चयाद्धर्मशास्त्राणामेहि राजा भविष्यसि ।।

5-140-9a
5-140-9b

पितृपक्षे च ते पार्था मातृपक्षे च वृष्णयः ।
द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ।।

5-140-10a
5-140-10b

मया सार्धमितो यातमद्य त्वां तात पाण्डवाः ।
अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ।।

5-140-11a
5-140-11b

पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः।
द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ।।

5-140-12a
5-140-12b

राजानो राजपुत्राश्च पाण्डवार्थे समागताः।
पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ।।

5-140-13a
5-140-13b

हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा ।
ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ।।

5-140-14a
5-140-14b

राजन्या राजकन्याश्चाप्यानयन्त्वाभिषेचनम् ।
षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति ।।

5-140-15a
5-140-15b

अग्निं जुहोतु वै धौम्यः संशितात्मा द्विजोत्तमः ।
अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः ।।

5-140-16a
5-140-16b

पुरोहितः पाण्डवानां ब्रह्मकर्मण्यवस्थितः।
तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः ।।

5-140-17a
5-140-17b

द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ।
अहं च त्वाऽभिषेक्ष्यामि राजानं पृथिवीपतिम् ।।

5-140-18a
5-140-18b

युवराजोऽस्तु ते राजा धर्मपुत्रो युधिष्ठिरः।
गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः ।

5-140-19a
5-140-19b

उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ।
छत्रं च ते महाश्वेतं भीमसेनो महाबलः ।।

5-140-20a
5-140-20b

अभिषिक्तस्य कौन्तेयो धारयिष्यति मूर्धनि ।
किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् ।।

5-140-21a
5-140-21b

रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति।
अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति ।।

5-140-22a
5-140-22b

नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये।
पञ्चालाश्चानुयास्यन्ति शिखण्डी च महारथः ।

5-140-23a
5-140-23b

अहं च त्वाऽनुयास्यामि सर्वे चान्धकवृष्णयः।
दाशार्हाः परिवारास्ते दाशार्णाश्च विशांपते ।।

5-140-24a
5-140-24b

भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः ।
जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ।।

5-140-25a
5-140-25b

पुरोगमाश्च ते सन्तु द्रविडाः सहकुन्तलैः।
आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ।।

5-140-26a
5-140-26b

स्तुवन्तु त्वां च बहुभिः स्तुतिभिः सूतमागधाः ।
विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ।।

5-140-27a
5-140-27b

स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः।
प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ।।

5-140-28a
5-140-28b

मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा।
सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ।।

5-140-29a
5-140-29b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
चत्वारिंशदधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-140-8 यश्च यस्तु कन्यायां जायते स द्विविधः कानीनः सहोढश्च । सहोढः विवाहादूर्ध्वं जातः। अन्यो विवाहात्प्राग्जातः । तन्मातुर्वोढारं तस्य पितरं प्राहुः ।।

उद्योगपर्व-139 पुटाग्रे अल्लिखितम्। उद्योगपर्व-141