महाभारतम्-05-उद्योगपर्व-133

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-132 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-133
वेदव्यासः
उद्योगपर्व-134 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

कुन्त्या युधिष्ठिरबोधनाय कृष्णंप्रति विदुलोपाख्यानकथनम् ।। 1 ।।


कुन्त्युवाच।

5-133-1x

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
विदुलायाश्च संवादं पुत्रस्य च परन्तप ।।

5-133-1a
5-133-1b

ततः श्रेयश्च भूयश्च यथावद्वक्तुमर्हसि ।
यशस्विनी मन्युमती कुले जाता विभावरी ।।

5-133-2a
5-133-2b

क्षत्रधर्मरता दान्ता विदुला दीर्घदर्शिनी ।
विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता ।।

5-133-3a
5-133-3b

विदुला नाम राजन्या जगर्हे पुत्रमौरसम् ।
निर्जितं सिन्धुराजेन शयानं दीनचेतसम् ।।

5-133-4a
5-133-4b

विदुलोवाच।

5-133-5x

अनन्दन मया जात द्विषतां हर्षवर्धन ।
न मया त्वं न पित्रा च जातः क्वाभ्यागतोह्यसि ।।

5-133-5a
5-133-5b

निर्मन्युश्चाप्यसङ्ख्येयः पुरुषः क्लीबसाधनः ।
यावज्जीवं निराशोऽसि कल्याणाय धुरं वह ।।

5-133-6a
5-133-6b

माऽऽत्मानमवमन्यस्व मैनमल्पेन बीभरः ।
मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंहर ।।

5-133-7a
5-133-7b

उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः।
अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः ।।

5-133-8a
5-133-8b

सुपूरा वै कुनदिका सुपूरो मुषिकाञ्जलिः ।
सुसंतोषः कापुरुषः स्वल्पकेनैव तुष्यति ।।

5-133-9a
5-133-9b

अप्यहेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज ।
अपि वा संशयं प्राप्य जीवितेऽपि पराक्रमेः ।।

5-133-10a
5-133-10b

अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् ।
विवदन्वाऽथवा तूष्णीं व्योम्नीवापरिशङ्कितः ।।

5-133-11a
5-133-11b

त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा।
उत्तिष्ठ हे कापुरुष मा स्वाप्सीः शत्रुनिर्जितः ।।

5-133-12a
5-133-12b

माऽस्तं गमस्त्वं कृपणो वि श्रूयस्व स्वकर्मणा ।
मा मध्ये मा जघन्ये त्वं माऽधो भूस्तिष्ठ गर्जितः ।।

5-133-13a
5-133-13b

अलातं तिन्दुकस्येव मुहूर्तमपि हि ज्वल ।
मा तुषाग्निरिवानर्चिर्धूमायस्व जिजीविषुः ।।

5-133-14a
5-133-14b

मुहूर्तं ज्वलितं श्रेयो न च धूमायितं चिरम् ।
मा ह स्म कस्यचिद्गेहे जनी राज्ञः स्वरीमृदुः ।।

5-133-15a
5-133-15b

कृत्वा मानुष्यकं कर्म सृत्वाऽऽजिं यावदुत्तमम् ।
धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते ।।

5-133-16a
5-133-16b

अलब्ध्वा यदि वा लब्ध्वा नानुशोचति पण्डितः ।
आनन्तर्यं चारभते न प्राणानां धनायते ।।

5-133-17a
5-133-17b

उद्भावयस्वं वीर्यं वा तां वा गच्छ ध्रुवां गतिम् ।
धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि ।।

5-133-18a
5-133-18b

इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता ।
विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि ।।

5-133-19a
5-133-19b

शत्रुर्निमञ्जता ग्राह्यो जङ्घायां प्रपतिष्यता।
विपरिच्छिन्नमूलोऽपि न विषीदेत्कथंचन ।।

5-133-20a
5-133-20b

उद्यम्य धुरमुत्कर्षेदाजानेयकतं स्मरन्।
कुरु सत्वं च मानं च विद्धि पौरुषमात्मनः ।

5-133-21a
5-133-21b

उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि।
यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् ।।

5-133-22a
5-133-22b

राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् ।
दाने तपसि सत्ये च यस्य नोच्चरितं यशः ।।

5-133-23a
5-133-23b

विद्यायामर्थलाभे वा मातुरुच्चार एव सः।
श्रुतेन तपसा वाऽपि श्रिया वा विक्रमेण वा ।।

5-133-24a
5-133-24b

जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् ।
न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि ।।

5-133-25a
5-133-25b

नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम्।
यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् ।।

5-133-26a
5-133-26b

लोकस्य समवज्ञातं निहीनासनवाससम् ।
अहोलाभकरं हीनमल्पजीवनमल्पकम् ।।

5-133-27a
5-133-27b

नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते।
अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः ।।

5-133-28a
5-133-28b

सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिंचनाः ।
अवल्गुकारिण सत्सु कुलवंशस्य नाशनम् ।।

5-133-29a
5-133-29b

कलिं पुत्रप्रवादेन सञ्जय त्वामजीजनम् ।
निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् ।।

5-133-30a
5-133-30b

मा स्म सीमन्तिनी काचिञ्जनयेत्पुत्रमीदृशम्।
मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् ।।

5-133-31a
5-133-31b

ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम्।
एतावानेव पुरुषो यदमर्षी यदक्षमी ।।

5-133-32a
5-133-32b

क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् ।
संतोषो वै श्रियं हन्ति तथाऽनुक्रोश एव च ।।

5-133-33a
5-133-33b

अनुत्थानभये चोभे निरीहो नाश्रुते महत्।
एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना ।।

5-133-34a
5-133-34b

आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् ।
परं विषहते यस्मात्तस्मात्पुरुष उच्यते ।।

5-133-35a
5-133-35b

तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति।
शूरस्योर्जितसत्वस्य सिंहविक्रान्तचारिणः ।।

5-133-36a
5-133-36b

दिष्टभावं गतस्यापि विषये मोदते प्रजा ।
य आत्मनः प्रियमुखे हित्वा मृगयते श्रियम् ।।

5-133-37a
5-133-37b

अमात्यानामथो हर्षमादधात्यचिरेण सः ।।

5-133-38a

पुत्र उवाच।

5-133-39x

किं नु मे मामपश्यन्त्याः पृथिव्या अपि सर्वया।
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ।

5-133-39a
5-133-39b

मातोवाच।

5-133-40x

`पैरर्विहन्यमानस्य जीवितेनापि किं फलम्।'
निर्मन्युकानां ये लोका द्विषन्तस्तानवाप्नुयुः ।
ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः ।।

5-133-40a
5-133-40b
5-133-40c

भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम्।
कृपणानामसत्वानां मा वृत्तिमनुवर्तिथाः ।।

5-133-41a
5-133-41b

अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा ।
पर्यन्यमिव भूतानि देवा इव शतक्रतुम् ।।

5-133-42a
5-133-42b

यमाजीवन्ति पुरुषं सर्वभूतानि संजय।
पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत्।।

5-133-43a
5-133-43b

यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम्।
त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् ।।

5-133-44a
5-133-44b

स्वबाहुबलमाश्रित्य योहि जीवति मानवः ।
स लोके लभते कीर्तिं परत्र च शुभां गतिम् ।।

5-133-45a
5-133-45b

।। इति श्रीमन्माभारते
उद्योगपर्वणि भगवद्यानपर्वणि
त्रयस्त्रिंशदधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-133-2 मन्युमती दैन्यवती। विभावरी कुपिता। विभावरी रजन्यां च वक्रयोषितीति विश्वः ।। 5-133-5 अनन्दन कुपुत्र । कुत्सार्थेऽत्र नञ् । 5-133-6 क्लीबे निर्वीर्यै साधनं बाह्वादिकं यस्य स तथा ।। 5-133-7 मा वीभरः मा पालय । प्रतिसंहर भयमिति शेषः ।। 5-133-10 पराक्रमेः पराक्रमं कुरु ।। 5-133-11 विवदन् शत्रुजयार्थं अनेकान् पक्षानुद्भावयन्वा तूष्णींभूतोऽरेश्छिद्रं पश्येः। यथा व्योम्नि अपरिशङ्कितः शत्रोराधिक्याद्भयमपश्यन् श्येनस्तद्वत् ।। 5-133-13 विश्रूयस्व ख्यातो भव। सामभेदौ जघन्यमध्यमौ । दानमधमो नीच उपायः। दण्डस्तूतमः। तत्राद्यत्रयकर्ता माभूः किंतु गर्जितो दण्डयितैव भवेत्यर्थः । ऊर्जित इति वा पाठः ।। 5-133-15 कस्यचिद्राज्ञो गेहे स्वरी गर्दभीव मृदुः अकिञ्चिन्करः जायत इति जनिः पुत्रो माभूत् ।। 5-133-16 आजिं संग्रामम् ।। 5-133-17 प्राणानां प्राणाः बलं तत्साध्यानां कार्याणाम्। आनन्तर्यं अविच्छेदेन कार्यधारामारभते । न धनायते धनं आत्मनो नेच्छति। तृष्णं त्यजतीत्यर्थः ।। 5-133-18 ध्रुवां गतिं मरणम्, अग्रत इत्युपहासः। पृष्ठतः कृत्वेत्यर्थः ।। 5-133-20 निमज्जता प्रपतिष्यता च शत्रुर्जङ्घायां ग्राह्यः । तेनैव सह निमज्जेत्पतेद्वेत्यर्थः । न विषीदेत् निरुद्यमो न भवेत् ।। 5-133-21 आजानेयाः जात्यश्वाः तेषां कृतं कर्म युद्धेऽनवसादरूपं ।। 5-133-22 त्वत्कृते मग्नमिति संबन्धः । 5-133-23 राशिवर्धनः संख्यापूरको नतु प्रयोजनान्तरार्हः ।। 5-133-24 मातुः उच्चारो विष्ठा ।। 5-133-26 यं एन अमित्रा अभिनन्देषु तं बन्धुं बान्धवः आसाद्य न सुखमेधत इति तृतीयश्लोकेन संबन्धः ।। 5-133-27 अहोलाभकरं अल्पेऽपि लाभे अहो लाभो जात इति विस्मयं कुर्वाणम् ।। 5-133-37 दिष्टभावं मरणम् ।।

उद्योगपर्व-132 पुटाग्रे अल्लिखितम्। उद्योगपर्व-134