महाभारतम्-05-उद्योगपर्व-129

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-128 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-129
वेदव्यासः
उद्योगपर्व-130 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

विदुरेण धृतराष्ट्राज्ञया गान्धार्याः सभां प्रत्यानयनम् ।। 1 ।।
गान्धार्या दुर्योधनं पुनः सभामानाय्य तंप्रति नीतिकथ नपूर्वकं पाण्डवैः सह शमविधानम् ।। 2 ।।


वैशंपायन उवाच।

5-129-1x

कृष्णस्य तु वचः श्रुत्वा धृतराष्ट्रो जनेश्वरः।
विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत ।।

5-129-1a
5-129-1b

गच्छ तात महाप्राज्ञ गान्धारीं दीर्घदर्शिनीम् ।
आनयेह तया सार्धमनुनेष्यामि दुर्मतिम् ।।

5-129-2a
5-129-2b

यदि सा न दुरात्मानं शमयेद्दुष्टचेतसम्।
अपि कृष्णस्य सुहृदस्तिष्ठेम वचने वयम् ।।

5-129-3a
5-129-3b

दुर्बुद्धेर्दुःसहायस्य शमार्थं ब्रुवती वचः ।।
अपि नो व्यसनं घोरं दुर्योधनकृतं महत् ।

5-129-4a
5-129-4b

शमयेच्चिररात्राय योगक्षेमवदव्ययम् ।
राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् ।

5-129-5a
5-129-5b

आनयामास गान्धारीं धृतराष्ट्रस्य शासनात् ।।

5-129-6a

धृतराष्ट्र उवाच।

5-129-7x

एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः ।
ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति ।।

5-129-7a
5-129-7b

अशिष्टवदमर्यादः पापैः सह दुरात्मवान्।
सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः ।।

5-129-8a
5-129-8b

वैशंपायन उवाच।

5-129-9x

सा भर्तृवचनं श्रुत्वा राजपुत्री यशस्विनी ।
अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत् ।।

5-129-9a
5-129-9b

आनायय सुतं क्षिप्रं राज्यकामुकमातुरम् ।
नहि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना ।
आप्तुमाप्तं तथाऽपीदमविनीतेन सर्वथा ।।

5-129-10a
5-129-10b
5-129-10c

त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः ।
यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे ।।

5-129-11a
5-129-11b

स एष काममन्युभ्यां प्रलब्धो लोभमास्थितः ।
अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् ।।

5-129-12a
5-129-12b

राष्ट्रप्रदाने मूढस्य बालिशस्य दुरात्मनः ।
दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्रुते फलम् ।।

5-129-13a
5-129-13b

कथं हि स्वजने भेदमुपेक्षेत महीपतिः।
भिन्नं हि स्वजनेन त्वां प्रहरिष्यन्ति शत्रवः ।।

5-129-14a
5-129-14b

या हि शक्या महाराज साम्ना भेदेन वा पुनः ।
निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् ।।

5-129-15a
5-129-15b

वैशंपायन उवाच।

5-129-16x

शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम्।
मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः ।।

5-129-16a
5-129-16b

स मातुर्वचनाकाङ्क्षी प्रविवेश पुनः सभाम् ।
अभिताम्रेक्षणः क्रोधान्निश्वसन्निव पन्नगः ।।

5-129-17a
5-129-17b

तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् ।
विगर्हमाणा गान्धारी शमार्थं वाक्यमब्रवीत् ।।

5-129-18a
5-129-18b

दुर्योधन निबोधेदं वचनं मम पुत्रक ।
हितं ते सानुबन्धस्य तथाऽऽयत्यांसुखोदयम् ।।

5-129-19a
5-129-19b

दुर्योधन यदाह त्वां पिता भरतसत्तम ।
भीष्मो द्रोणः कृपः क्षत्ता सुहृदां कुरु तद्वचः ।।

5-129-20a
5-129-20b

भीष्मस्य तु पितुश्चैव मम चापचितिः कृता ।
भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया ।।

5-129-21a
5-129-21b

न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते ।
अवाप्तुं रक्षितुं वाऽपि भोक्तुं भरतसत्तम ।।

5-129-22a
5-129-22b

न ह्यवश्येन्द्रियो राज्यमश्रीयाद्दीर्घमन्तरम्।
विजितात्मा तु मेधावी स राज्यमभिपालयेत् ।।

5-129-23a
5-129-23b

कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः ।
तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ।।

5-129-24a
5-129-24b

लोकेश्वर प्रभुत्वंहि महदेतद्दुरात्मभिः ।
राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम् ।।

5-129-25a
5-129-25b

इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः ।
इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ।।

5-129-26a
5-129-26b

अविधेयानि हीमानि व्यापादयितुमप्यलम् ।
अविधेया इवादान्ता हयाः पथि कुसारथिम् ।।

5-129-27a
5-129-27b

अविजित्य य आत्मानममात्यान्विजिगीषते।
अमित्रान्वाऽजितामात्यः सोऽवशः परिहीयते ।।

5-129-28a
5-129-28b

आत्मानमेव प्रथमं द्वेष्यरूपेण योजयेत् ।
ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ।।

5-129-29a
5-129-29b

वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।
परीक्ष्यकारिणं धीरमत्यर्थं श्रीर्निषेवते ।।

5-129-30a
5-129-30b

क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ ।
कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः ।।

5-129-31a
5-129-31b

याभ्यां हि देवाः स्वर्यातुः स्वर्गस्य पिदधुर्मुखम् ।
बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ ।।

5-129-32a
5-129-32b

कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः ।
सम्यग्विजेतुं यो वेद स महीमभिजायते ।।

5-129-33a
5-129-33b

सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः ।
ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम् ।।

5-129-34a
5-129-34b

कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते।
स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ।।

5-129-35a
5-129-35b

एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः ।
पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी ।।

5-129-36a
5-129-36b

यथा भीष्मः शान्तनवो द्रोणश्चापि महारथः।
आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ ।।

5-129-37a
5-129-37b

प्रपद्यष्व महाबाहुं कृष्णमक्लिष्टकारिणम्।
प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः ।।

5-129-38a
5-129-38b

सुहृदामर्थकामानां यो न तिष्ठति शासने।
प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ।।

5-129-39a
5-129-39b

न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम्।
न चापि विजयो नित्यं मा युद्धे चेत आधिथाः ।।

5-129-40a
5-129-40b

भीष्मेण हि महाप्राज्ञ पित्र ते बाह्लिकेन च।
दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भतैररिन्दम ।।

5-129-41a
5-129-41b

तस्थ चैतत्प्रदानस्य फलमद्यानुपश्यसि ।
यद्भुङ्क्षे पृथिवीं कृत्स्नां शूरैर्निहतकण्टकाम् ।।

5-129-42a
5-129-42b

प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम ।
यदीच्छसि सहामात्यो भोक्तुमर्धं प्रदीयताम् ।।

5-129-43a
5-129-43b

अलमर्धं पृथिव्यास्ते महामात्यस्य जीवितुम् ।
सुहृदां वचने तिष्ठन्यशः प्राप्स्यति भारत ।।

5-129-44a
5-129-44b

श्रीमद्भिरात्मवद्भिस्तैर्बुद्धिमद्भिर्जितेन्द्रियैः ।
पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् ।।

5-129-45a
5-129-45b

निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम्।
स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ ।।

5-129-46a
5-129-46b

अलमङ्ग निकारोऽयं त्रयोदशसमाः कृतः ।
शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् ।।

5-129-47a
5-129-47b

न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति ।
सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते ।।

5-129-48a
5-129-48b

भीष्मे द्रोणे कृपे कर्णे भीमसेने धनञ्जये।
धृष्टद्युम्ने च संक्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् ।।

5-129-49a
5-129-49b

अमर्षवशमापन्नो मा कुरूंस्तात जीघनः ।
एषा हि पृथिवी कृत्स्ना मा गमत्त्वत्कृते वधम् ।।

5-129-50a
5-129-50b

यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः।
योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते ।।

5-129-51a
5-129-51b

समं हि राज्यं प्रीतिश्च स्थानं हि विदितात्मनाम् ।
पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः ।।

5-129-52a
5-129-52b

राजपिण्डभयादेते यदि हास्यन्ति जीवितम् ।
न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् ।।

5-129-53a
5-129-53b

न लोभादर्थसंपत्तिर्नराणामिह दृश्यते ।
तदलं तात लोभेन प्रशाम्य भरतर्षभ ।।

5-129-54a
5-129-54b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि भगवद्यानपर्वणि
एकोनत्रिंशदधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-129-19 आयत्यां परिणामे ।। 5-129-21 अपचितिः पूजा ।। 5-129-23 दीर्घमन्तरं चेरकालम् ।। 5-129-29 महद्राज्यं । महद्राज्यविशालयोरिति विश्वः ।। 5-129-31 क्षुद्राक्षेण सूक्ष्मच्छिद्रेण ।। 5-129-32 याभ्यां पिदधुः तौ कामक्रोधावित्यध्याहारेण योजना ।। 5-129-33 अभिजायते शास्ति ।। 5-129-47 निकारः अपकारः ।।

उद्योगपर्व-128 पुटाग्रे अल्लिखितम्। उद्योगपर्व-130