महाभारतम्-05-उद्योगपर्व-184

विकिस्रोतः तः
Jump to navigation Jump to search
← उद्योगपर्व-183 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-184
वेदव्यासः
उद्योगपर्व-185 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

रामभीष्मयोरायोधनम् ।। 1 ।।
भीष्मस्य प्रस्वापनास्त्रप्रतिभानम् ।। 2 ।।

भीष्म उवाच।

5-184-1x

ततो रात्रौ व्यतीतायां प्रतिबुद्धोऽस्मि भारत ।
ततः संचिन्त्य वै स्वप्नमवापं हर्षमुत्तमम् ।।

5-184-1a
5-184-1b

ततः समभवद्युद्धं मम तस्य च भारत ।
तुमुलं सर्वभूतानां रोमहर्षणमद्भुतम् ।।

5-184-2a
5-184-2b

ततो बाणमयं वर्षं ववर्ष मयि भार्गवः।
न्यवारयमहं तच्च शरजालेन भारत ।।

5-184-3a
5-184-3b

ततः परमसंक्रुद्धः पुनरेव महातपाः ।
ह्यस्तनेन च कोपेन शक्तिं वै प्राहिणोन्मयि ।।

5-184-4a
5-184-4b

इन्द्राशनिसमस्पर्शां यमदण्डसमप्रभाम् ।
ज्वलन्तीमग्निवत्सङ्ख्ये लेलिहानां समन्ततः ।।

5-184-5a
5-184-5b

ततो भरतशार्दूल धिष्ण्यमाकाशगं यथा।
सा ममाभ्यवधीत्तूर्णं जत्रुदेशे कुरूद्वह ।।

5-184-6a
5-184-6b

अथास्रमस्रवद्धोरं गिरेर्गैरिकधातुवात् ।
रामेण सुमहाबाहो क्षतस्य क्षतजेक्षण ।।

5-184-7a
5-184-7b

ततोऽहं जामदग्न्याय भृशं क्रोधसमन्वितः ।
चिक्षेप मृत्युसंकाशं बाणं सर्पविषोपमम् ।।

5-184-8a
5-184-8b

स तेनाभिहतो वीरो ललाटे द्विजसत्तमः ।
अशोभत महाराज शश्रृङ्ग इव पर्वतः ।।

5-184-9a
5-184-9b

स संरब्धः समावृत्य शरं कालान्तकोपमम् ।
संदधे बलवत्कृष्य घोरं शत्रनिबर्हणम् ।।

5-184-10a
5-184-10b

स वक्षसि पापतोग्रः शरो व्याल इव श्वसन् ।
महीं राजंस्ततश्चाहमगमं रुधिराविलः ।।

5-184-11a
5-184-11b

संप्राप्य तु पुनः संज्ञां जामदघ्न्याय धीमते ।
प्राहिण्वं विमलां शक्तिं ज्वलन्तीमशनीमिव ।।

5-184-12a
5-184-12b

सा तस्य द्विजमुख्यस्य निपपात भुजान्तरे ।
विह्वलश्चाभवद्राजन्वेपथुश्चैनमाविशत् ।।

5-184-13a
5-184-13b

तत एनं परिष्वज्य सखा विप्रो महातपाः ।
अकृतव्रणः शुभैर्वाक्यैराश्वासयदनेकधा ।।

5-184-14a
5-184-14b

समाश्वस्तस्ततो रामः क्रोधामर्षसमन्वितः ।
प्रादुश्चक्रे तदा ब्राह्मं परमास्त्रं महाव्रतः ।।

5-184-15a
5-184-15b

ततस्तत्प्रतिघातार्थं ब्राह्ममेवास्त्रमुत्तमम् ।
मया प्रयुक्तं जज्वाल युगान्तमिव दर्शयत् ।।

5-184-16a
5-184-16b

तयोर्ब्रह्मास्त्रयोरासीदन्तरा वै समागमः ।
असंप्राप्यैव रामं च मां च भारतसत्तम ।।

5-184-17a
5-184-17b

ततो व्योम्नि प्रादुरभूत्तेज एव हि केवलम् ।
भूतानि चैव सर्वाणि जग्मुरार्तिं विशांपते ।।

5-184-18a
5-184-18b

ऋषयश्च सगन्धर्वा देवताश्चैव भारत।
संतापं परमं जग्मुरस्त्रतेजोभिपीडिताः।।

5-184-19a
5-184-19b

ततश्चचाल पृथिवी सपर्वतवनद्रुमा।
संतप्तानि च भूतानि विषादंक जग्मुरुत्तमम् ।।

5-184-20a
5-184-20b

प्रजज्वाल नभो राजन्धूमायन्ते दिशो दश।
न स्थातुमन्तरिक्षे च शेकुराकाशगास्तदा ।।

5-184-21a
5-184-21b

ततो हाहाकृते लोके सदेवासुरराक्षसे ।
इदमन्तरमित्येवं मोक्तुकामोऽस्मि भारत ।।

5-184-22a
5-184-22b

प्रस्वापमस्त्रं त्वरितो वचनाद्ब्रह्मवादिनाम् ।
चिन्तितं च तदस्त्रं मे मनसि प्रत्यभात्तदा ।।

5-184-23a
5-184-23b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
चतुरशीत्यधिकशततमोऽध्यायः ।।

उद्योगपर्व-183 पुटाग्रे अल्लिखितम्। उद्योगपर्व-185