सामग्री पर जाएँ

आर्षेयकल्पः/उपोद्घातः

विकिस्रोतः तः
आर्षेयकल्पः
उपोद्घातः
मशकः
अध्यायः १ →
(श्रीवरदराजकृत - विवृत्याख्य- व्याख्या - समन्वितः)।




मशकविरचितः आर्षेयकल्पः

श्रीवरदराजकृतविवृत्याख्यव्याख्या-समन्वितः

उपोद्घातः - ज्योतिष्टोमे अग्निष्टोमपर्व

अथार्षेयकल्पो व्याख्यातव्यः । तत्र च सर्वक्रतुप्रकृतिभूतस्य त्रिपर्वणो ज्योतिष्टोमस्य सर्वाहर्गणप्रकृतिभूतस्य च व्यूढस्य द्वादशाहस्य ब्राह्मणेनैव क्लृप्तिरुक्तेति तदुपजीवनेन क्रत्वन्तराण्येव कल्पितानि । अस्माभिस्त्वस्य प्रबन्धस्य कार्त्स्न्यार्थं तयोस्तावत् प्रयोगः सूत्रब्राह्मणानुसारेण प्रदर्श्यते । तत्राग्निष्टोमसंस्थस्य ज्योतिष्टोमस्यायं प्रयोगः ।।

सोमप्रवाकः

सोमप्रवाकविधिः
ऋत्विगार्षेयोऽनूचानः साधुचरणः ( ला० श्रौ० १. १. ७) इत्यादिसूत्रोक्तलक्षणावृत्विग्याज्यौ । यज्ञशर्मा ज्योतिष्टोमेनाग्निष्टोमेन रथन्तरपृष्ठेन द्वादशशतदक्षिणेन सोमेन यक्ष्यते । तत्रौद्गात्रं भवता कर्तव्यमिति सोमप्रवाकेनाभ्यर्थितो यद्यार्त्विज्यमकरिष्यन् स्यात्तदा सोमं नमस्कृत्य नमः सोमाय राज्ञ (द्रा० श्रौ० १.१.९ इत्युक्त्वा तं प्रत्याचक्षीत । यदि करिष्यन् महन्मेऽवोच (द्रा० श्रौ० १ .१ १०) इति प्रतिमन्त्रयेत । आदिग्रहणेन मन्त्रविधिः । पूर्वमन्त्रान्तस्य उत्तर० मन्त्रादिरुपलक्षणम् । यदा सोमप्रवाकः पूर्वमेवौद्गात्रमनेन ज्ञातमस्तीति सोमप्रवचनमकृत्वा स्मरणाय केवलमागत्य तिष्ठति तदा तदागमनादेव सोमः प्रोक्तो भवतीति महन्मेऽवोच ( तां० ब्रा० १. १.१) इति मन्त्रं ब्रूयात् । आर्त्विज्यकरणे व्यवसिते तदवधार्य यस्मिन्नावसथे सोमप्रवाको भवति तं प्रति तस्मै दधिमिश्रमन्नमाहरेत् ।।

उद्गातृवरणार्हणे

अथोद्गातर्यागते यजमानः पर्जन्यो म उद्गातेति तस्य देववरणं यज्ञशर्मा मानुष इति मानुषवरणं च कुर्यात् । स एतान् देवान् ऋत्विजो वृत्वा अथैतान् मानुषान् वृणीत (ष० ब्रा० ३३३) इति श्रुतेः । यजमान- परिचारका उद्गातारमर्हयिष्यन्तो विष्टरद्वयपाद्यार्घ्याचमनीयमधुपर्काना- हरन्ति । उद्गाता त्वर्हणे(मं० ब्रा० २.८.१) ति गां निरीक्ष्य इदमहमिमाम् (मं० ब्रा० २.८.२) इति तिष्ठन् जपेत् । विष्टराविति त्रिरुक्ते तौ

3
प्रतिगृह्य तयोरेकस्मिन् या ओषधीर् ( मं० ब्रा० २.८.३) इति पूर्वमन्त्रेणोपविशेत् । पाद्यमिति त्रिरुक्ते यतो देवीर् (मं० ब्रा० २ ८.५) इति पाद्यजलं प्रोक्ष्य सव्यं पादम् (मं० ब्रा० २.८.६) इति सव्ये निनयेत् । दक्षिणं पादम् (मं० ब्रा० २.८.७) इति दक्षिणे च । पूर्वमन्यम् (मं० ब्रा० २.८.८) इति पादद्वये जलं निनीय या ओषधीर् (मं० ब्रा० २.८.४) इत्युत्तरेण मन्त्रेण इतरस्मिन् विष्टरे धौतौ पादौ निदध्यात् । अर्घ्यति त्रिरुक्ते अन्नस्य (म० ब्रा० २.८.९) इति अर्घ्यं प्रतिगृह्णीयात् । आचमनीयमिति त्रिरुक्ते यशोऽसि यशो मयि धेहि ४० ब्रा० २ .८. १०) इति तत् प्रतिगृह्य आचामेत् । मधुपर्क इति त्रिरुक्ते यशसो यशोऽसि (मं० ब्रा० २.८.११) इति प्रतिगृह्य तस्यैकदेशम् इदमन्नमयं रस इमा गावः सह श्रिया । तत् सवितुर्वरेण्यं वाग्बहु बहु मे भूयात् स्वाहा इति पीत्वा हस्तं प्रक्षाल्य पुनस्तस्यैकदेशम् इदमन्नयंरस इमा गावः सह श्रिया भर्गो देवस्य धीमहि प्राणो वै वाचो भूयात् बहुर्मे भूयो भूयात् स्वाहेति पुनस्तथैव । इदमन्नमयंरस इमा गावः सह श्रिया धियो यो नः प्रचोदयान्मनो वाव सर्वं सर्वं मे भूयात् स्वाहेति पीत्वा पुनस्तूष्णीं पीत्वाचम्य शेषं ब्राह्मणाय दद्यात् । गौरिति त्रिरुक्ते मांसभक्षणेच्छुश्चेत् कुरुतेति ब्रूयात् । उत्सृक्ष्यन् ओं कृतो धर्मस्तृणान्यत्तु पिबतूदकम् उत्सृजत ( द्रा० श्रौ० १ .२. १९) डति ब्रूयात् । अस्मिन्नर्हणविधौ सूत्रोक्तव्यतिरिक्तं गृह्यमुपसंहृतमविरुद्धत्वात् । तत्रान्ये ब्रुवते । सूत्रकारेण क्रत्वङ्गतया पृथगेव मधुपर्कप्रयोगस्य विधानात् गृह्यकारेण चैवमयज्ञे कुरुते(द्रा० गृ० ४.४.२५-६)ति वचनात्तदा यज्ञेऽपि स्वोक्तस्य कृत्स्नस्य विधेरभ्युपगमात् सूत्रगृह्योक्तयोर्विकल्प एवाश्रयणीयो न त्वनयोरुपसंग्रह इति ।

[ देवयजनयाचनम्]

मधुपर्कप्रतिग्रहानन्तरं पर्जन्यो म उद्गाता । स मे देवयजनं ददातु इत्युपांशु जपपूर्वमुद्गातर्देवयजनं मे देहि इत्युच्चैर्वचनेन देवयजनयाचने यजमानेन कृते देवयजनवान् भूयाः इत्युक्त्वा ततो देवयजनगमनकालात् प्राक् तत्तत्कर्मानुष्ठानार्थं प्रस्तोतृसुब्रह्मण्यौ स्था- पयित्वा स्वगृहं गच्छेत् । आपस्तम्बेन तु देवयजनयाचनप्रत्याम्नायत्वेन देवतापस्थानपक्षः उक्तः । सूत्रकारोऽपि तमेव पक्षमाश्रयदित्यवगम्यते । प्रहिणुयात् प्रस्तोतृसुब्रह्मण्यौ (ला० श्रौ० १.१.१३) इति वचनात् । स्वयं व्रजेत् क्रय औपवसथे व (ला० श्रौ० १. १.२०) इत्यादिना देवयजनगमनं विधाय पश्चान्मधुपर्कप्रयागेविधानाच्च । यदा हि देवयजनदानार्थमुद्गाता यजमानगृहं गतः तदा प्रहिणुयादिति वचनं नोपपद्यते । देवयजनगमनं विधाय पश्चादर्हणविधानं च । तस्मात्

5 ज्योतिष्टोमपर्व
तन्मते यथाकालमुद्गातरि देवयजनं गते तस्य मधुपर्कदानं वरणं च कार्यम् ।

ऋत्विजां नियमाः

सर्वेषामार्त्विज्योपक्रमवेलायां यज्ञोपवीतमाचमनं च नित्यं कर्मानुष्ठानकाले यज्ञाङ्गानामव्यवायाभिमुख्यं च । प्राङ्मुखैश्च कर्म कर्तव्यमनादेशे ।
दीक्षणीयाप्रवर्ग्योपसत्प्रायणीयासु प्रस्तोतुः सामगानम् प्रस्तोतारं त्वां वृणा इति यजमानेन वृतः प्रस्तोता पूर्वया द्वारा पत्नीशालां प्रविश्य उत्तरेण अग्नीन् गत्वा पश्चाद्गार्हपत्यस्योपविष्टस्तिष्ठन् वा दीक्षणीयायां त्यमूषु ( ग्राम गे० ९.११. ३३२.१-२) इति तार्क्ष्यसामनी गायेत् । अङ्गानां प्रधानसंनिधौ कर्तव्यत्वात् । यज्ञाङ्गाव्यवायाभिमुख्यप्राङ्मुखकरणानां च विहितत्वात् । यथोक्त एवैषां गमनदेशः तद्गमनमार्गश्च सिद्धः । अत एव प्रवर्ग्यो- द्वासनसूत्रम्-पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन् गत्वा पश्चात् गार्हपत्यस्य तिष्ठन् महावीरायतनं प्रेक्षमाणो वामदेव्यं गायेत (ला० श्रौ० १. ६.१३) इति । इह तु विशेषाश्रावणत् उपविष्टस्तिष्ठन् वेत्युक्तम् । तथा च जैमिनिः ऐष्टिकानि पाशुकानि च सामानि अधिकृत्य आह- प्रागावृत्तस्तिष्ठन्नुपविष्टो वा मध्यमया वाचा गायेत् (जै० श्रौ० २६.५ इति । तत्र दीक्षणायीयां प्रधानयागकाले त्यमूषु (ग्रा० गे० ९.११. ३३२.१-२) इति तार्क्ष्यसामनी त्रिर्गायेत् । तार्क्ष्यस्त्रिष्टुबिन्द्र इति ऋषिच्छन्दोदेवताः । अङ्गानां प्रधानकालस्य न्याय्यत्वात् प्रधानयागकालः इत्युक्तम् । जैमिनि- राह-यानि पशौ शिष्टानि सामानि वपान्ते तानि गायेत् । प्रदानयागकाले उप सत्सु चेष्टिषु च (२६.३) इति । सर्वत्रानादेशे परिसामानि प्रस्तोता गायेत् स्वाध्यायवत् स्वासु । तृचापत्तीनि तृचेषु त्रिरितराणि (ला० श्रौ० १.५. १२-२) इति । सूत्रे तृचोत्पन्नानां परिसाम्नां तृचे गानमितरेषां तु त्रिर्गानेन तृचीकरणमुक्तमित्यनयोः तार्क्ष्यसाम्नोः प्रत्येकं त्रिर्गानम् । प्रायणीयायां चरुहोमकाले प्रो अयासीद् (सा० ११५२-५४) इति प्रवद्भार्गवं तृचे गायेत् । भृगुर्जगती सोमः ।

उद्गातुर्देवयजनगमनोपस्थाने स्वयमुद्गाता राजक्रयकाले औपवसथ्येऽहनि वा देवो देवमेतु (ता० ५१० १.१.२) इति स्वगृहात् प्रथममुदीचीं गत्वा यथाकालं देवयजनं प्रति गच्छेत् । दूरं व्रजित्वा विहाय दौष्कृत्येति बद्वानाम (ला० श्रौ० १ . १. २२-३) इति देवयजनस्य साधारणं पन्थानमापद्य उत्तरं महावेदिपार्श्वमाक्रम्य तनैव स्थित्वा दक्षिणवेद्यन्तमीक्षमाणः पितरो भूर् तां०ब्रा० १.१.५) इत्युपतिष्ठेत । तत्र

7 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
सूत्रम् - अन्तरेण चत्वालोत्करौ संचरः सर्वत्रानादेशे तदाप्नानं तीर्थम् ला० श्रौ० ८२१० १.५.३.४) इति ।

[ सुब्रह्मण्यवरणं सूब्रह्मण्याह्वानादिविधिश्च]

सुब्रह्मण्यं त्वा वृणे इति यजमानेन वृतः सुब्रह्मण्यः क्रीते राजनि सोमवहनमुत्तरेण गत्वा तस्योत्तरामीषामुत्क्रम्यान्तरेणेषे सपत्रां पलाशशाखां शमीशाखां वा हस्तेन कृत्वाक्षस्य पश्चाद्भूमा- ववतिष्ठेत । शाकटीमन्ववरुह्याह्वयेत् । राज्ञोऽप्रत्यवरोहाय (नि० सू० ३.८.२२) इति निदानवचनात् भूम्यामवस्थानमुक्तम् । सुब्रह्मण्यः सुब्रह्मण्यामाह्वयेदिति । अध्वर्युः संप्रैषं सुब्रह्मण्याह्वाने सर्वत्राकाङ्क्षेत । रज्जुद्वयं धारयन् दक्षिणमनड्वाहं पूर्वं शाखया प्रेष्येत् । पश्चादुत्तरम् । प्राचीवर्तमाने शकटे सुब्रह्मण्योमिति मध्यमया वाचा त्रिर्ब्रूयात् । प्रतीचीवर्तमाने षट्कृत्वः । नात्र निगदः । सासि सुब्रह्मण्य इति यजमानवाचनं केचिदिच्छन्ति । पूर्वेण पत्नीशालायामनुडुहि विमुक्ते शकटस्य छदिषि शाखामवगुह्य तामेवेषामनूत्क्रम्याहवनीयाग्नेः क्रीतस्य च सोमस्य व्यवायमकुर्वन् यथार्थं स्यात् । राजवाहनं चानडुद्भ्यां युक्तं यजमानतः प्रतिगृह्णीयात् । एवमन्यदपि यत्कर्मसंयुक्तं यद् द्रव्यं तत्कर्मानन्तरं कृतकार्यं चेत् तत् प्रतिग्राह्यम् । तद्यथा कुशास्तरणवस्त्रं प्रस्तोता पत्न्यावृतं च यथोक्तम् । अथैतत् प्रस्तोता वास आदत्ते येन पत्न्यावृता भवतीति । उद्गातौदुम्बरीवेष्टनम् । प्रतिहर्ता दशापवित्रम् ।

अथातिथ्यायां प्रधानयागकाले प्रेष्ठं वः ( सा० १२४४-४६) इत्यौशनं तृचे प्रस्तोता गायेत् । उशना गायत्र्यग्निः । तस्यां संस्थितायां प्रतिहर्तारं त्वा वृण इति यजमानेन वृतः प्रतिहर्तेतरे च तानूनप्त्र[]माज्यमवमृश्य हविरसीति सुवितेमा धा ( ला० श्रौ० ५.६.६, वा.सं. ५.५) इत्यन्तं जपेयुः । मदन्तीरप उपस्पृश्यांशुरंशुष्ट इत्यशीय ( वा.सं. ५.७, ला० श्रौ० ५.६.८) इत्यन्तेन राजानं हिरण्यमन्तर्धायाभिमृशेयुः । एतदाप्यायनम् । दर्भमये प्रस्तरे दक्षिणं पाणिमुत्तानं कृत्वा तदुपरि सव्य न्यञ्चमेष्टाराय इति पृथिव्या ( ला० श्रौ० ५.६.९) इत्यन्तेन निह्नुवीरन् । निह्नवनं नाम द्यावापृथिव्योर्नमस्कारः । एतत्तानूनप्त्रस्पर्शादिक सूत्रकारेण यद्यपि ब्रह्मत्वप्रकरणे विहितं तथाप्यवमृशन्तो जपेयुरित्यादिषु बहुवचननिर्देशात् उद्गातृभिरपि कर्तव्यम् । अन्ये त्वाहुः - यद्येतदुद्गातृभिरपि कर्तव्यमभविष्यत् तदा औद्गात्रप्रकरणे एवोक्त्वा ब्रह्मत्वेऽत्यदेक्ष्यत् । यथा सुत्यायां ब्रह्मणः प्राक् सुब्रह्मण्याया औद्गात्रेण समानं कर्मेति न च तथा कृतम् । ब्रह्मत्वप्रकरणे बहुवचननिर्देशे उद्रातृभ्योऽन्यानवार्त्विजोऽभिप्रेत्य दृश्यते । यथा तस्मिन् उपस्पृशेयुर् ( ला० श्रौ० ५.६.७) इति । तस्मान्न कर्तव्यमेव तानूनप्त्रस्पर्शादिकमुद्गातृभिरिति ।
अथ सुब्रह्मण्यः पत्नीशालायां दक्षिणस्य द्वारबाहोः पुरस्तात् सौमिकवेद्यन्तप्रदेशे तिष्ठन् यजमानेन पत्न्या चान्वारब्धो दक्षिणेनोत्क्रम्य ब्रह्मणि तिष्ठति सुब्रह्मण्यामुच्चैराह्वयेत् । आदित्यः संपादिन्द्र इति

सुब्रह्मण्या आह्वानम्
सुब्रह्मण्याह्वानम्


9 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
ऋष्यादयः । सुब्रह्मण्योमित्योंकारं प्लावयन् त्रिरुक्त्वोत्तमेन वचनेन सहइन्द्रागच्छेत्यादि ब्रुवाण( ला० श्रौ० ३.१.२) इत्यन्तं निगदं ब्रूयात् । पूर्वयोः प्रणवान्तयोः विरमेत् । मेने ब्रुवाणेति च । त्र्यहे सुत्यामागच्छ मघवन् देवा ब्रह्माण आगच्छतागच्छत(ला० श्रौ० १.३.३-७)इति निगदशेषं ब्रूयात् । एतावदहे सुत्यामिति यावदहे स्याद् ला०श्रौ० १.३.१) इति वचनात् । इदानीं त्र्यहे सुत्यामितिवचनम् । उत्तरेष्वहस्सु द्व्यहे श्वोऽद्येति द्रष्टव्यम् । उप- वसथ्येऽहनि श्वःसुत्यामितिवचनम् । तस्यान्ते श्वः सुत्या गौतमस्य (ला० श्रौ० १.४. १३) इति लिङ्गात् । धानंजय्यमते मघवन्नित्येतन्नास्ति । गौतममते त्वागच्छेत्येतदपि । पूर्वोक्तं चेति ( एवेति?) स्वमतम् । आगच्छ मघवन्निति एकवचनात् इत्यहे सुत्यामागच्छ मघवन् (ष० ब्रा० १.१ .२६) इति षड्विंशब्राह्मणाच्च तस्यैव तु प्रायेणाचारः । तत्र त्र्यहादयः शब्दा अन्तो दात्ताः । शेषाणां सूत्रपठित एव स्वरः । महाभाष्यकारश्चाह सुब्रह्मण्यायामोंकार उदात्तः । सुब्रह्मण्योम् । वाक्यादौ च द्वे द्वे । आकार आख्याते परादिश्च । इन्द्रागच्छ हरिव आगच्छ मघवन्वर्जम् । आगच्छ मघवन् सुप्यापराणामन्तर्द्व्यहे सुत्यां त्र्यहे सुत्याम् ( म० भा० १.२. ३७.१) इति । सुत्याशब्दस्तु संज्ञायां समज (पा० ३.३.९९) इत्यादिना अन्तोदात्तो व्याख्यातः । देवा ब्रह्माण इत्यनयोः वाक्यादौ द्वे द्वे इत्येतन्न प्रवर्तते । देवब्रह्मणोरनुदात्त (पा० १.२.३८) इति द्वितीयस्यानुदात्तवचनात् । अनुदात्तं पदमेकवर्जम् (पा० ६. १.१५८) इति शिष्टं सर्वमनुदात्तम् । एवं सुब्रह्मण्यां त्रिराहूय सासि सुब्रह्मणे (ष० ब्रा० १.२.९) इत्यादीनि षड्विंशब्राह्मणोक्तानि सप्त पदानि यजमानं वाचयित्वाप उपस्पृशेत् । एतच्च यजमानवाचनं यजुर्वेदे अध्वर्युकर्तृकतया विहितम् । षड्विंशे च सुब्रह्मण्यकर्तृकतयेति द्वयमप्याचर्यते । प्रत्याह्वानं वाचनसुपस्पशर्नं चेति केचित् । सुब्रह्मण्योपह्वयस्वेति यजमानवचनोक्त उपहवः । ततः प्रतिगृह्य उपहूत इत्यनुब्रूयात् । एवं पत्न्याप्युक्ते उपहूतेऽत्यनुज्ञाय यथार्थं स्यात् । उपस्पर्शनोपहवौ शिष्टाचारादुक्तौ । इयं सुब्रह्मण्या अध्वर्युसंप्रैषाभावेऽपि कार्येति केचिदाहुः । तत्र प्रमाणं मृग्यम् ।।

[ प्रवर्ग्यसामगानम्]

प्रवर्ग्यगानम्१-५ Pravargya Chants1-5
धेनुसाम ६
पयःसाम ७
प्रवर्ग्यसामानि१०-१६ Pravargya Chants10-16
प्रवर्ग्य रौहिणम् १७ Pravargya17
प्रवर्ग्यसाम १८ Pravargya18

अथ प्रस्तोता प्रेषितः पूर्ववत् पश्चात्गार्हपत्यस्योपविश्य प्रवर्ग्यसामानि गायेत् । जैमिनिश्चाह-पश्चिमेन होतारं परीत्य दक्षिणतो घर्माभिमुखं उपविश्य गायेत ( जै० श्रौ० २३.२ ) इति । तत्र यदा देवस्त्वा सविता

11 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
मध्वानक्तु (वा० सं० ६.२) इति महावीरमञ्जन्ति तदा हावांज (ग्रा० गे० १६.९.५६४ ३) इति शार्ङ्गं त्रिर्गायेन् । कक्षीवान् ऋषिः । जगती छन्दः । घर्मो देवता । सर्वेषां प्रवर्ग्यसाम्नां घर्मो देवता । रजतोपधानकाले शुक्रंनियुत्वा (आ० गा० ३.६.१४८) इति शुक्रं गायेत् । प्रजापतिर्गायत्री घर्मः । प्रज्वलनकाले प्रसोमदेववीतय (आ० गा० २.२.१०४-५) इति । घर्मस्य तन्वौ घर्मः प्रजापतिः बृहती । जात- रूपोपधानकाले चन्द्रमत्राह (आ० गा० ३.६.१४९) इति । चन्द्रः । प्रजापतिगार्यत्री । अथ केचिदाहुः-आभिरूप्यात् कर्तव्यानीत्येके(ला० श्रौ० १.६.१६) इति सूत्रकारेण परिसाम्नां ब्राह्मणविधानाभावेऽपि आभिरूप्यात् गानं विहितम् । तच्चाभिरूप्यमन्येषामप्यभिरूपाणां साम्नाम् अविशिष्टमिति चन्द्रादनन्तरमवसरे सत्यन्यान्यपि घर्मलिङ्गानि सामानि गायेत् । तद्यथा ओं कायमान ( आ० गा० ६.१.२ १४) इति महावैश्वानरव्रतम् । वैश्वानरो बृहती । कसहो भ्राज (आ० गा० ६.२.२७४) इति इन्द्रस्य च सधस्थम् । इन्द्रस्त्रिष्टुप् । विष्णोस्त्रीणि स्वरीयांसि पञ्चानुगानं द्व्यनुगानं चतुरनुगानं च (आ० ब्रा० ६.२.७. ३-४) इति । विष्णुस्त्रिष्टुप् । एवमन्यान्यपि घर्मलिङ्गानि द्रष्टव्यानि । वयं तु तेषामन्येषामिव परिसाम्नां सूत्रे प्रतिपादनविध्यभावात् प्रतिहारे अनुपादानाच्च न कर्तव्यं गानमित्यवोचाम । रुचितो - घर्म इत्युक्ते उद्यँल्लोकमरोचय (आ० गा० २७९) इति घर्मरोचनं गायेत् । घर्मोऽ- नुष्टुप् । अथ अपश्यं गोपाम् ( गर्भो देवानाम्?) इत्यनुवाकेन तिष्ठन् घर्ममवेक्षेत । रुचितो घर्म इत्युक्तेऽनुवाकेन तिष्ठन्तोऽवेक्षेरन् । यमध्वर्युर्ब्रूयाद् (ला० श्रौ० ५.७.२ ) इति । ब्रह्मत्वे बहुवचनेन विधानादिति केचित् । तदप्यौद्गात्रप्रकरणे विहितं न भवतीति तानूनप्त्रस्पर्शादिवन्न कर्तव्यमित्यन्ये । गङ्ग एहीत्युक्त्वा यदा धेनुमवसृजन्ति तदा ओहा स्वादिष्ठया (आ० गा० ११८) इति धेनुसाम गायेत् । प्रजापतिगार्यत्री । तस्य सामान्तवद्वान्तं स्तोभमुक्त्वा भुवत् । इडेति देवतापदं स्वादिष्ठयेति ऋक्पादं च ब्रूयात् । एवं द्वितीयं देवतापदं ऋक्पादं च । तथा तृतीयम् । पुनश्च वान्तं स्तोभमुक्त्वा करदिडेत्यादि ब्रूयादित्येकः पक्षः । अन्यत्तु पक्षद्वयं सूत्रोक्तं विस्तरभयान्न लिखितम् । यदा पय आहरन्ति तदा इयोइया अग्ने युङ्क्ष्वा (आ० गा० ११९) इति पयो गायेत् । प्रजापतिगार्यत्री । आसेचनकाले आ त्वा विशन्त्विन्दव (ग्रा० ५.९.१९७.१) इति सिन्धुषाम । सिन्धुगार्यत्री । शफाभ्यां परिग्रहणकाले हाउप्राथा ( आ० गा० १४६-१४७) इति वसिष्ठस्य शफौ । वसिष्ठस्त्रिष्टुप् । ह्रीयमाणे घर्मे हिं इन्द्रन्नर० (आ० गा० ९४-९५) व्रतपक्षौ ।

13 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
प्रजापतिस्त्रिष्टुप् । पूर्वरौहिणपुरोडाशाचरणकाले हिम् इन्द्रन्नर (आ० गा० २०५) इति राजनम् । इन्द्रस्त्रिष्टुप् । हुते घर्मे होइहा इमाउवां (आ० गा० १८१-२) इत्यश्विनोर्व्रते । अश्विनौ बृहती । उत्तर० रौहिणाचरणकाले काइही इन्द्रन्नर (आ० गा० २०६) इति रौहिणम् । इन्द्रस्त्रिष्टुप् । घर्मोपकरणानि सम्राडासन्द्यां समारोपयन्ति । तदा इत एत (ग्रा० ३.१०.९२.१) इति आरूढवदाङ्गिरसं त्रिर्गायेत् । ऊपा- स्थाने सुवा इति निधनम् ।। अङ्गिरसोऽनुष्टुप् । शार्ङ्गारूढवदाङ्गिरसे वा त्रिरभ्यस्येत् । अन्तरा पराचे(द्रा० श्रौ० २.१.३)तिवचनात् । प्रवर्ग्यसाम्ना- माद्यन्तयोस्त्रिर्गानमुक्तम् । इतरेषां सकृत् । एतानि सामानि प्रति- प्रवर्ग्यं गायेत् । सर्वेषूपसदन्तेषु आतिथ्यान्तवत्सोमाप्यायनं निह्नवनं सुब्रह्मण्याह्वानं च कार्यम् । अपराह्णे निह्नवने सव्यं पाणिमुत्तानं दक्षिणं न्यञ्चं कृत्वेति विशेषः । प्रवर्ग्योद्वासनकाले प्रस्तोता सम्राडासन्दीमुत्तरेण गत्वा पश्चात्तिष्ठन् अध्वर्युप्रेषितः त्यग्नाइर् (ग्रा० १२.१२. ४६५.४) इति प्रवर्ग्यसाम गायेत् । स्तोभान् प्रतिपदमुक्त्वा निधनायैव- वाइ इति ब्रूयात् । ए विश्वमित्यादि (दीनि ?) त्रीणि निधनानि मन्द्रस्वरान्तं कर्षन्तो घर्मोपयुक्ताः सर्वे पत्नी च ब्रूयुः । बृहस्पतिरत्यष्टिरग्निः । एवं मध्ये आहवनीयस्थाने च गायेत् । तत्रास्य स्थानत्रये सकृत् सकृद्गाने समुदायसिद्धं त्रिर्गानम् । न तु प्रतिस्थानं त्रिर्गानम् । तथा च तस्यां त्रिवृद्यथा प्रथमस्य प्रवर्ग्यसाम्नः इति प्रवर्ग्यसाम्नः प्रयोगे अवभृथसाम्नोऽतिदिष्टे तस्य त्रिर्वचने एकविंशतिः पदानि (ष० विं० ३.४.२०) इति श्रुत्युक्तमेकविंशतिपदत्वं तस्योपपद्यते । नान्यथा । परिषिच्यमाने च आहवनीये परिषेकजलमुपस्पृश्य अचिक्रदद्- (ग्रा० १४.४.४९७.१) वार्षाहरं त्रिर्गायेत् । वृषाहरिर्गायत्री सूर्यः । परिषिक्ते इष्टाहोत्रीयं (ग्रा० ४. ४.१५१.१) त्रिर्गायेत् । अप्सरसो गायत्रीन्द्रः । तस्य सर्वे पूर्ववन्निधनं ब्रूयुः । प्रत्याव्रजन् अभिप्रवः- (ग्रा० गे० ६.१.२३५.३, ऊ० गा० द० ३.३) श्यैतं साम त्रिर्गायेत् । प्रजापतिर्बृहतीन्द्रः । तृचे वैकस्यां वा यजमानो निधनमनूपेयात् । यदैकस्यां तदा आद्यायां ब्रूयात् । अन्त्यायाम् इति केचित् । पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन गत्वा पश्चात् गार्हपत्यस्य तिष्ठन् प्रवर्ग्यस्थानं प्रेक्षमाणो वामदेव्यं (ऊ० गा० द० १.५) तृचे गायेत् । वामदेवो गायत्रीन्द्रः । अथाग्निप्रणयने अग्निमनुगच्छन् कभ्राजा अग्निर्मूर्द्धा ( आ० गा० २५१) इति अग्नेर्व्रतं त्रिर्गायेत् । अग्निर्गायत्र्यग्निः ।।

टिप्पणी

देवीभागवतपुराणे ८.६ कथनमस्ति - एवं जम्बूफलानां च तुङ्गदेशनिपातनात् ॥ विशीर्यतामनस्थीनां कुञ्जराङ्गप्रमाणिनाम् ।रसेन च नदी जम्बूनाम्नी मेर्वाख्यमन्दरात् ॥ जम्बूद्वीपस्य संदर्भे अयमुल्लेखः चक्षुरुन्मीलकः अस्ति। कथनमस्ति यत् जम्बूवृक्षोपरि ये फलानि सम्भवन्ति, ते अनस्थिकाः सन्ति, यथा लोके कदलीफलः, अङ्गूरः आदि। गरुडपुराणे २.३२.११३ कथनमस्ति - अस्थिस्थाने स्थितो जम्बूः शाको मज्जासु संस्थितः । बीजस्य अथवा मज्जायाः परितः कठिना अस्थ्नाः आवश्यकता केन कारणेन भवति। मज्जायाः रक्षणार्थं यस्याः सममित्याः आवश्यकता अस्ति, तस्याः पूर्त्यर्थं अस्थ्नाः निर्माणं भवति। यदि केनापि प्रकारेण मज्जायाः रक्षणस्य वैकल्पिकसाधनं संभवं चेत्, तर्हि कठिना अस्थ्नाः आवश्यकता न भवेत्। जम्बू वृक्षस्य अथवा द्वीपस्य संदर्भे एषा वैकल्पिकव्यवस्था जम्भ/मुखेन भवति। जम्भस्य देवता अग्नीषोमः अस्ति। सोमयागस्य आरम्भिककृत्यः प्रवर्ग्यः अस्ति यस्य उद्देश्यं पृथिवीतत्त्वतः अग्नेः तन्मात्रायाः विकासमस्ति, अयं प्रतीयते। द्वादशसंख्याकानां प्रवर्ग्यानन्तरं अग्नीषोमीयमहः भवति यत्र अग्नीषोमदेवः यजमानं स्वजम्भे धारयति। अग्नीषोमदेवस्य तृप्त्यन्तरं यजमानस्य एवं यज्ञस्य तस्य मुखतः निर्गमनं भवति एवं अग्निप्रणयनरूपेण यज्ञस्य स्थान्तरणं उत्तरवेद्यां भवति। अग्नीषोमस्य तृप्तिं यावत् सोमः अतिथिरूपेण वसति। तृप्त्यनन्तरं क्रीतसोमः प्रवर्ग्यतः ब्रह्मौदनस्य उत्पत्यां समर्थः भवति। अस्य संज्ञा भरतः अपि अस्ति, यः ब्रह्मौदनस्य भरणं कर्तुं शक्यते। अनेन कारणेन मन्त्रारम्भः अस्ति – जम्बूद्वीपे भरतखण्डे इति। अग्नीषोमः पूर्णिमातिथ्यायाः देवता अस्ति।

औदुम्बर्याः मूले सामगानम्

[ औदुम्बर्युच्छ्रयणम्]

अथोद्गाता औदुम्बरीमुच्छ्रयिष्यन् देवयजनं पूर्वेण

15 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
गत्वा आप्नानेन तीर्थेन प्रविशेद्यदि दक्षिणतः स्ववसतिः स्यात् । अन्यतश्चेदुत्तरेण सदः पूर्वया द्वारा स्थूणार्थयोः श्वभ्रयोः मध्यतः प्रविश्य पूर्वमेव प्रागग्रं निहिताया औदुम्बर्या अग्रेण गत्वा दक्षिणत उदङ्मुखस्तिष्ठन् अध्वर्युणा सह दक्षिणोत्तरोत्तानाभ्यां पाणिभ्यां द्युतानस्त्वेति पृथिवीम् (तां० ब्रा० ६.४.२) इत्यन्तेन तामुच्छ्रयेत् । आयोरिति हृदय (तां० ब्रा० ६.४.३ ) इत्यन्तेन श्वभ्रे ऽवधाय नमः समुद्रायेत्यन्नं मे धेहि (ला० श्रौ० १.७.५४, तां० ब्रा० ६. ४.७-११) इत्यन्तं जपेत् । यावदध्वर्युरेन्द्रमसि (वा० सं० ५.३०) इति छदिभिरवच्छादयति तावदौदुम्बरीं न विसृजेत् । अध्वर्युणा कृते होमे तस्यैव प्रकारेण विशाखे अन्तरेण निहिते हिरण्ये घृतेन द्यावापृथिवी आप्रीणाथां स्वाहा (ला० श्रौ० १. ७.७) इति पूर्वाम् आहुतिं यथा भूमिमाज्यं प्राप्स्यति तथा जुहुयात् । प्रजापतये स्वाहा ला० श्रौ० १.७.९) इत्युत्तराम् । आज्यं होमचोदनास्वनादेशे इति वचनात् । आज्येन होमः विशाखस्य अधस्ताद्धस्तद्वयेन परि- गृह्य दिवि देवान् दृंह मयि प्रजाम् ( ला० श्रौ० १. ७.११) इति जपेत् । मध्ये गृहीत्वा अन्तरिक्षे वयांसि दृंह मयि पशून् (ला० श्रौ० १ .७. ११) इति । मूले गृहीत्वा पृथिव्यामध्योषधीर्दृंह मयि सजातान् (ला० श्रौ० १.७.१२) इति अवच्छाद्यमानायामौदुम्बर्यां दिव्यं छद्मसीति हिंसीर् (ला० श्रौ० १.७.१५) इत्यन्तेन तां विसृज्य प्रवेशमार्गेण निष्क्रामेत् ।।

[ अग्नीषोमीयप्रणयने सामगानं, यूपोच्छ्रयणं च]

अग्नीषोमीयप्रणयनकाले प्रस्तोता पूर्ववत् अग्नेर्व्रतं गायेत् । ओवा । संतेपयांसि- ( अ० गा० १७५) सोमव्रतं च त्रिर्गायेत् । कहौ वा । त्वमिमा (आ० गा० १७६) इति वा । सोमस्त्रिष्टुप् । सोमप्राथम्यपक्षे अग्नीषोमव्रतयोर्व्यत्यासः । प्रस्तोत्रादयः अन्तर्वेदि तिष्ठन्तः उच्- छ्रियमाणं यूपं नृम्ण ( तां० ब्रा० १.१.६) इत्यनुमन्त्रयेरन् ।।

कुशाकरणम् अग्नाषोमीयवपासुब्रह्मण्याह्वानं नामादेशश्च

सौत्येऽहनि वाचा ग्लानिर्माभूदित्येवमर्थमुपवसथ्येऽहनि न स्वाध्यायाध्ययनं कुर्युः । प्रस्तोता यज्ञवृक्षसंबन्धिनी प्रादेशमात्रीः त्वग्भागे कुशपृष्ठसमानपृष्ठाः समीकृतभिन्नप्रदेशा अङ्गुष्ठपर्वपृथुमात्रीः यथामूलस्थूला यथाग्रसूक्ष्माश्च कुशाः कारयित्वा गन्धवतीभिरोषधीभि हरिद्राकुङ्कुमादिभिरनुलिप्य कुशाविधानेन क्षौमादिना परिवेष्य औदुम्बरीमध्यमधिवासयेत् । अग्नीषोमीयवपाहोमान्ते सुब्रह्मण्य उत्करे तिष्ठन् सनामग्रहां सुब्रह्मण्यामाह्वयेत् । पूर्ववत् गौतमब्रुवाणान्तमुक्त्वा सुत्यादेशात् पूर्वं यजमानस्य अभिवादनीयं नाम गृह्णीयात् । यज्ञशर्मा यजत इति । ततस्तस्य पितुर्मातुश्च रुद्रशर्मणः पुत्रो यजते उमादेवीदाया पुत्रा यजत इति । ततः पितामहस्य पितामह्याश्च प्रजापति- शर्मणः पौत्रो यजते सरस्वतीदेवीदायाः पौत्रो यजत इति । ततः

17 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
प्रपितामहस्य प्रपितामह्याश्च विष्णुशर्मणो नप्ता यजते श्रीदेवीदाया नप्ता यजते इति । द्विपित्रादिकस्य द्बयानां पित्रादीनां नामग्रहणम् । एवं पूर्वेषां नामानि गृहीत्वा यजमानस्य अपत्यानां स्त्रीपुंसानां जीवतां ज्येष्ठक्रमेण नामानि गृह्णीयात् । देवशर्मणः पिता यजते देवीदायाः पिता यजते इति । एवं पुत्रापत्यानां पौत्रापत्यानां च । देवदत्तस्य पितामहो यजते देवदत्तायाः पितामहो यजत इति । प्रपितामह इति च । ततो जनिष्यमाणानां पिता पितामहः प्रपितामहो यजत इत्युक्त्वा सुत्यादेशादि ब्रूयात् । यजतिशब्देषु प्रत्येकं विरमेत् । यदा पुत्रात् पौत्रो ज्येष्ठः पौत्राद्वा नप्ता तदापि पुत्रवर्गं समाप्य पौत्रवर्गस्य ग्रहणम् । पौत्रवर्गं समाप्य नस्तृवर्गस्य ग्रहणम् । पतित- प्रव्रजितानां नामग्रहणम् । अत्र अमुष्य पुत्र इति सूत्रे पुंलिङ्गस्य अविवक्षितत्वात् मात्रादीनामपि ग्रहणमुक्तम् । तथा च दीक्षितप्रवचने तासामपि ग्रहणं दृश्यते । अन्ये त्वाहुः- मात्रादीनां नामग्रहणं न कर्तव्यम् । पुंलिंगस्याविवक्षायां प्रमाणाभावात् । अपरेषां यथाज्येष्ठं स्त्रीपुंसानाम् इत्यत्र स्त्रीग्रहणाच्च । निदाने च नामग्रहः किमर्थम् इत्यु- पक्षिप्य तस्य प्रयोजनमुक्तम्--उच्चावचचरणाः स्त्रियो भवन्ति । तदिह देवसाक्ष्ये च मनुष्यसाक्ष्ये च येषां पुत्रो वक्ष्यते तेषां पुत्रो भविष्यामि । यांश्च पुत्रान् वक्ष्ये ते पुत्रा भविष्यन्ति (नि० सू० ३. ८) इति । ततश्च पित्रादिष्वेव संदेहः इति तेषामेव नामग्रहणं न मात्रादीनामिति ।। नामग्रहणे प्रथमान्तानां यज्ञशर्मेत्यादीनां षष्ठ्यन्तानां च रुद्र- शर्मण इत्यादीनाम् अन्त्यमक्षरमुदात्तम् । अर्थनिर्वचनमुच्चान्तमिति वचनात् । अर्थो निरुच्यते प्राधान्येन प्रतिपाद्यतेऽनेनेति अर्थ- निर्वचनं पदम् । पदग्रहणमेव तु न कृतम् । समासे पूर्वपदस्योच्चान्तत्वं मा भूदिति । महाभाष्यकारश्चाह--असावित्यन्त उदात्तः । गार्ग्यो यजते वात्स्यो यजते इति । अमुष्येत्यन्त उदात्तः । दाक्षेः पिता यजते (म० भा० १.२.३.७) इति । दाक्षेः पितामहो यजत इति षष्ठ्येकवचनस्य यथागमादेशौ ताभ्यां पूर्वस्तौ चोदात्ताः । उमादेवीदायाः देवदत्तस्येति । तदुक्तम्-वैभक्ते चास्यादौ वैभक्तश्चैव(द्रा० श्रौ ० १.३.२४)ति । आद्यस्य अन्तस्य उपोत्तमं च । चकारादन्तश्च । गार्ग्यस्य पिता यजते वत्सस्य पिता यजते इति । उदात्तात्परम् अनुदात्तम् । अनुदात्ते परत उदात्तम् । उच्चाच्च नीचे नीचम् (द्रा० श्रौ० १.३ .२५) इति वचनात् । यथा पिता- महस्यादिः प्रपितामहस्य च । अनयोस्त्वर्थनिर्वचनमित्युच्चत्वं स्थितमेव च । उच्चाच्च नीचे नीचमित्यनेन च अर्थनिर्वचनामित्यीदिवचनान्तर०

19 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
सिद्ध एव उदात्तोऽनूद्यते न तु स्वेनापि विहितः । प्रवृत्तिदशायां तस्यासिद्धत्वात् । ततश्चैतत् सिद्धम्-पितामहे ताशब्दस्य प्रपितामहे पिशब्दस्य च उदात्तत्वं न भवतीति । व्याकरणे च न सुब्रह्मण्यायां स्वरितस्य तूदात्त (पा० सू० १ .२. ३७) इत्यस्य सूत्रस्य प्राप्तिं जानतां विस्पष्टैवेयं स्वरव्यवस्था । जनिष्यमाणानामित्यस्यार्थनिर्वचन- स्यापि ष्यमाशब्दावुदात्तौ । यजत इत्यस्य चादिः । तदुक्तम् - जनिष्यमाणानां मध्ये द्वे यजेश्चादिर् (द्रा० श्रौ० १.३.२६-७) इति । उदात्त- व्यतिरिक्तं सर्वमनुदात्तमिति । स्वरशेषं पूर्ववत् । एवं वसतीवरीषु परिहृतासु सनामग्रहणमाह्वानं कुर्यात् ।

[ अथ प्रातःसवनम-प्रातरनुवाकोपाकरणे सामगानम्]

वासवं साम

<poem>अथ महारात्रे अध्वर्युणा अग्ने नयेत्याग्नीध्राभिमर्शनकाले अप आचम्य प्रस्तोता अग्नीध्रीयमण्डपे स्थित्वा इमं स्तोमम् (ग्ना० २.७.६६. १) इति यज्ञसारथि त्रिर्गायेत् । कुत्सो जगत्यग्निः । यजमानः शालामुखीयस्य पश्चादुदङ्मुख उपविश्य प्रातरनुवाकोपाकरणात् पूर्वं लोकद्वारम् इति वासवं साम (आ० गा० ५०) त्रिर्गायेत् । पुष्कलो द्विपदा गायत्री वसवः । अस्मिन्नेवाग्नौ नमोऽग्नय इति स्वाहाकारान्तेन स्रुवेणाज्यं प्राङ्मुखो जुहुयात् । स्वाहेति च । अपजहि परिघमित्युक्त्वोत्तिष्ठेत् । रहस्यब्राह्मणे क्व तर्हि यजमानस्य लोक इत्यत्र प्रकृतस्य यजमानस्य स वासवं सामाभिगायतीत्यादिषु तच्छब्देन परामर्शात् लोकं मे यजमानाय विन्देति मन्त्रलिङ्गाच्च लोकद्वारगानस्य यजमानकर्तृकत्वम् । सर्वत्रानादेश (ला० श्रौ० सू० १.५.१) इत्यादौ सूत्रे सर्वत्रग्रहणम् । त्रिरभ्या- सादेर्धमस्य कर्त्रन्तरेऽपि सद्भावार्थमिति त्रिर्गानं च सिद्धम् । अत एव परिसामसु त्रिर्गानप्राप्तौ तन्निवृत्त्यर्थं सर्वाण्युद्गाता सकृत्सकृद् गायेदित्युक्तम् ।।

[ विश्वरूपागानं सुब्रह्मण्याह्वानज्योतिर्गाने च ]

अथ यजमानो विश्वरूपा गायेत्युद्गातारं ब्रूयात् । स च प्रत्याचक्षीत तस्य नवतिशतं स्तोत्रीया तां० ब्रा० १६.१ .८) इत्युक्तचतु- ष्टोमसंपदतिरकात् ग्रहशस्त्राभावाच्च नाहं गायामीति । परिसामत्वात् परिसामान्तरवन्न संपत्कोपः । वसतीवरीप्रातरनुवाकौ ग्रहशस्त्रे तस्माद्- गायेति यजमानेन प्रत्युक्तो न मामनामन्त्र्य प्रातरनुवाकमुपाकुर्या (ला० श्रौ० १.८.७) इत्यध्वर्युमुक्त्वा प्रातरनुवाकायोपविष्टं होतारं पूर्वेण गत्वा दक्षिणस्य हविर्धानस्योत्तरं चक्रमभ्यपश्रयमाण उदङ्मुख उपविशेत् । यजमानश्चोद्गातुः पुरस्तात् प्रत्यङ्मुखः । उद्गाता युञ्जे वाचम् (सा० १८२९) इत्यस्यां पङ्क्तौ गात्रमोङ्कारेण आर्चिकस्वरेण मध्यमया वाचा त्रिर्गायेत् । परिसामत्वात् ओंकारेण उद्गीथादानं नास्ति । यजमानो मनसैव तत्सवितुर्वरेणियोमिति त्रिपदावदार्चिकगानं त्रिः कुर्यात् ।

21 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
तत्रेदमार्चिकं गानं युञ्जे वाचं शतपदीम् गायेत् सहस्रवर्तनि । गायत्रं त्रैष्टुभं जगद्विश्वारूपाणि संभार्ता२ । देवा ओकांसि चा १२१२ । हिम् । आ २ । क्राइरो । आ २३४५ (सा० १८२९-१८३०) इति । पुष्कलः पङ्क्तिर्विश्वरूपाः । वपाहोमान्तवत् प्रातरनुवाकोपक्रमवेलायां सुब्रह्मण्याह्वानम् । अद्य सुत्यामिति विशेषः । प्रातरनुवाके परिहृतेऽपोनप्त्रीयनामसूक्तात् पूर्वं होतारम् आरमयन् ज्योतींष्यपि उद्गाता गायेत् । प्रवरानन्तरं पवित्रं धारयन् अग्निर्ज्योतिर्ज्योतिरित्येतत् त्रिरभ्यासार्चिकगायत्रगानं मनसा कुर्यात् । तद्यथा-अग्निर्ज्र्योति- र्ज्योतिरग्नीम् । अग्निर्ज्योतिर्ज्योतिरग्ना२इः । अग्निर्ज्योतिर्ज्योताइ । हिम् । आ २ । आग्नोः आ । इति । एवम् इन्द्रो ज्योतिर्ज्योतिरिन्द्रोम् इति । सूर्यो ज्योतिर्ज्योतिस्सूर्योम् इति च । पुष्कलो गायत्री अग्नीन्द्रसूर्याः । अत्र त्रिभिर्गायत्रैः तृचस्य सिद्धत्वात् प्रतिगायत्रं त्रिर्गानं न कार्यम् ।।

[ प्रातरनुवाकान्ते प्रस्तोत्रादीनां वेद्यामुपवेशनम् ]

यदा होता प्रातरनुवाकमनूच्याभूदुषा इति ब्रूयात् तदाप्नानेन तीर्थेन प्रस्तोत्रादयः सुब्रह्मण्यः मृदाशिथिरेति वेदिमाक्रामेयुः । बहुवचनचोदितेषु युगपत्कमर्सु उद्गातुर्दक्षिण बाहुमनु प्रस्तोता सव्यं बाहुमनु प्रतिहर्ता हविर्धानस्य रराट्यां विष्णो शिर (तां०ब्रा० ११८) इत्यालभ्य पूर्वया द्वारा हविर्धानम् इष ऊर्ज (तां० ब्रा० १.१.९) इति वसतीवरीप्रवेशानन्तरं प्रविशेयुः । ईषयोर्मध्ये बाहूनव- हृत्य पार्ष्णिरनुद्यच्छन्तः प्रातःसवनार्थं विभक्तं सोमं युनज्मि इत्यभिमृशेयुः । अविभागे तु सर्वं प्रस्तोतृपूर्वा प्रत्यङ्मुखा गत्वा दक्षिणस्य हविर्धानस्य पश्चात् सव्यपार्श्वै आवर्तमाना ऋतस्य सदन (तां० ब्रा० १.२.२) इत्युपाविशेयुः ।

बहिष्पवमानस्य वीडियो
[ बहिष्पवमानस्तोत्रजपे स्वरः ]

अथ बहिष्पवमानस्य उप-दवि-पव (सा० ६५१-५९ इति नवर्चो जपेयुः । पुरस्ताच्चोपरिष्टाच्चर्चः सर्वत्र जपेयु यासु करिष्यन्त स्यु । अत्र तु बहिष्पवमानस्य (ला० श्रौं ० सू० १९१८-१९३) इति वचनात् ऋक्समाम्नाये ज्योतिष्टोमप्रकरणे एतासां प्रथमाम्नानात् ब्राह्मणे च उपास्मै गायता नर इति ग्रामकामाय प्रतिपदं कुर्याद् (तां० ब्रा० ६.९.१) इति प्रतिपद्विधाने बहि स्तुवन्ति (तां० ब्रा० ६.८.११) इति वचनेन चैतासामेव सूचितत्वात् सूत्रे च उपास्मै गायता नरोमिति धानंजय्य (ला० श्रौ० ७ .१०. १९) इति प्रकृत्य त्रिरुद्गृह्णातीति ब्राह्मणं भवाति (ला० श्रौ० ७.१.२३) इत्यादिनैतास्वेव धूर्गानविधानात् बहिष्पवमानस्य एता ऋच इति सिद्धम् । सर्वत्र स्तोत्राङ्गभूतानामृचां साम्नां च यथासमाम्नायमेव स्वरः कार्यः । न त्वैकश्रुत्यम् । तद्धि यज्ञकर्मण्यजपन्न्यूङ्खसामसु (पा० १. २ .३४) इति पाणिनीयस्मृत्या जपादिव्यतिरिक्तानां मन्त्राणां विधीयते ।।


२३ उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
[ सोमेऽभिषुते प्रोहणग्रावसंसादनाध्यूहनानि]

सोमेऽभिषुते ऋतपात्रमसि (तां० ब्रा० १.२.३) इत्युभाभ्यां हस्ताभ्यां द्रोणकलशमालभ्य वानस्पत्य (तां० ब्रा० १.२.४) इत्यक्षस्याधस्तात् प्राञ्चं प्रोहेयुः । यद्यक्षं स्पृशेयुः द्रोणकलशं निरुह्य पुनरपि प्रोहेयुः । उद्गाता दक्षिणे पाणौ दशापवित्रं कृत्वा अक्षविष्कम्भयो र्मध्ये नाक्षं स्पृशन् द्रोणकलशे प्रास्येत् । दशायुक्तं वस्त्रं दशापवित्रम् । तस्मात् शुक्लं पवित्रम् (तां० ब्रा० ६.६.९) हात श्रुतेः । यस्मिन् देशे युनज्मीति अभिमर्शनं तस्मिन् पुनरागम्याभिषवचर्मणि दक्षिणपूर्वम् आरभ्य दक्षिणमवान्तरदिक्षु ग्राव्णां पृथुभागान् मध्ये चाभिमुखान् कुर्वन्तश्चतुरो ग्राव्णः संसादयेयुः । तानभिमृश्य मरुत (तां० ब्रा० १ .२ .५) इति जपित्वा तदुपरि पश्चाद्दक्षिणतो वेदमहमिमम् (तां० ब्रा० १. २. ६) डति द्रोणकलशमध्यूहेयुः । अध्वर्युणा कृतयोः संसादनाध्यूहनयोः मन्त्रौ जपेयुः । प्रत्यावृज्य ग्राव्णो युञ्ज्याद् (ला० श्रौ० १. १०. १) इति सूत्रे एकवचनमविवक्षितम् । ग्राव्णः संसाद्य द्रोणकलशमध्यूहन्ति ( तां० ब्रा० ६.६.१) इति श्रुतेः । बहुवचनविहितेन अध्युहनेन संसादनस्य समानकर्तृकत्वश्रवणात् द्रोणकलशम् अध्यूहेयुर् (ला०श्रौ० १.१०.६) इति अध्यूहने बहुवचनस्य सूत्रकारेणैवानु- मतत्वाच्च । अथोद्गाता दशापवित्रेण वसवस्त्वा (तां० ब्रा० १ .२ .७) इति द्रोणकलशस्य बुध्नं संमृज्यात् । रुद्रास्त्वेति मध्यम् । आदित्यास्त्वेति
बिलम् ।

[ संमार्जनम् ]

केचित्तु तैर्द्रोणकलशं पावयन्ति ( तां० ब्रा० ६.६.६) इति श्रुतेः सूत्रे संमृज्यात ( ला० श्रौ० १ .१०. १७) इत्येकवचनमविवक्षितम् मन्वानाः सर्वैरपि संमार्जनं कर्तव्यमित्याहुः । तदयुक्तम् । सूत्रकारो हि एकश्रुतिविधानात् मन्त्रान् कर्माणि चोद्गातैव कुर्याद् (ला० श्रौ० १. १.४) इत्येकवचनविहितानां कर्मणाम् उद्गातृकर्तृत्वं परिभाष्य कथम् अविवक्षितमेकवचनं कुर्यात् । पूर्वं त्वध्यूहने बहुवचनस्यानेनैव अनुज्ञाय- मानत्वान् । तत्समानकर्तृकग्रावयोजने एकवचनस्याविवक्षितत्वान् । तस्मात् पावयन्तीति वहुवचनं सामान्याभिप्रायम् डति उद्गात्रैव संमार्जनं कार्यम् ।।

[ दशापवित्रानुमन्त्रणम् ]

दशापवित्रमवधूय पवित्रं त (सा० ८७५-७) इति तृचेन उदग्दशमवाङ्नाभिः वितनुयुः । उद्गाता संततां धारां प्रशुक्र (तां० ब्रा० १. १. ९) इत्यनुमन्त्रयेत । अमुष्य शब्दस्य स्थाने सोमस्य राज्ञ इत्येवं ब्रूयात् ।।

[ ऋत्विजां वरणसंसर्पणे प्रवृत्तहोमश्च ]

यदाध्वर्युराग्रयणं गृह्णन् हिंकरोति तदा प्रवृणीरन्नग्नि प्रस्तोताहं मानुष इति प्रस्तोता ब्रूयात् । बृहस्पतिरुद्गाताहं मानुष इत्युद्गाता ब्रूयान् । वायुः प्रतिहर्ताहं मानुष इति प्रतिहर्ता । अत ऊर्ध्वमाबहिष्पवमानस्तोत्रसमापनात् वाचं यच्छेयुः । उद्गातॄणां पश्चिमस्थाने ध्रुवस्थालीमध्वर्यवो हृत्वा तेनैव प्रतिहरेयुः । न पुनरग्रेणैषाम् । अथ कृतपवित्राभिपीडनं


बहिष्पवमानसर्पणम्

25 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
हविर्धानान्निःसर्पन्तम् अध्वर्युं प्रस्तोता दक्षिणेन हस्तेन अन्वारभते । तमुद्गातोद्गातारं प्रतिहर्ता, तं ब्रह्मा, ब्रह्माणं यजमान इत्येवं संसर्पन्त एव गच्छेयुः । तदुक्तम्- पञ्चर्त्विजः संरब्धाः सर्पन्तीत्येतानाह । दोषवचनात् व्यवच्छेदाज्जुगुप्सेरन्न् (द्रा० श्रौ० ३.३. १३-१४) इति अध्वर्युणा हुते गत्यानुपूर्व्येणोदकमालभ्य सव्येन पाणिना वेकुरा नामासि सूर्यो मा (तां० ब्रा० १.३ .१-२) इति च प्रवृतहोमौ कुर्युः । ऋचँसाम ( सा० ३६९) इति स्वाहान्तेन तृतीयं होममधिकमुद्गाता कुर्यात् । असंजातविरोध्यवस्थायां दक्षिणेन हस्तेनान्वारम्भात् तद्विच्छेदस्य चायुक्तत्वात् अर्थप्राप्तोऽत्र सव्येन होमः । आपस्तम्बेन तु होमानन्तर० मन्वारम्भ उक्तः । तस्मिन् पक्षे दक्षिणेनैव पाणिना होमं कृत्वा जपेयुः । ब्रह्माहं गायत्रमिति पर्यूह (ला० श्रौ० १.११.१५) इत्यन्तम् ।।

[प्रस्तोत्रादीनां सर्वस्तोत्रार्थमासनोपवेशननियम उपगाननियमश्च]

ततोऽध्वर्युमनुसर्पन्तः सव्येन पाणिना दक्षिणा पृथक् तृणानि निरस्येयुर्योऽद्य सौम्य (तां० ब्रा० १.३.३) इति । तेनैव पाणिना अप उपस्पृश्य चात्वालदेशं प्राप्य अध्वर्यावुपविष्टे तस्मात् प्रत्यग्यो म आत्मा (तां० ब्रा० १. ३.३-४) इति उपविशेयुः । प्रस्तोता प्रत्यङ्मुखः, उद्गाता उदङ्मुखः तस्य पश्चिमेन गत्वा दक्षिणदेशमवान्तरदिशं पश्यन् प्रतिहर्ता सव्याधरानुपस्थान् कृत्वा द्यावापृथिव्योः संधिमीक्षमाणाः समानि मुखानि धारयन्तः एवं सर्वस्तोत्रेष्वासीरन् । अध्वर्युवर्गव्यतिरिक्ताः चतुरवरार्ध्या उपगातारः प्रस्तोतृ- प्रतिहर्त्रन्तरयोरुपविश्य प्रस्तावादि भक्त्यन्तरालानि मन्द्रस्वरेण हो इत्येतेनाक्षरेण छादयन्त उपगायेयुः । ओमिति यजमानः । निधनात् पूर्वं नोपगानम् । विच्छेदाभावात् । एवं सर्वस्तोत्रेषु ।।

[बहिष्पवमानस्तोत्रगानविधौ प्रस्तावादिभक्तय स्वरनियमाश्च ]

अध्वर्युणा दीयमानं प्रस्तरं प्रस्तोता प्रतिगृह्य ब्रह्मन् स्तोष्यामः प्रशास्तरित्युक्त्वा उद्गात्रे प्रयच्छेत् । स प्रस्तरेण दक्षिणां जङ्घाम् उपहत्याग्नेस्तेजसा(तां० ब्रा० १.३.५) इति स्तोमं युञ्ज्यात् । अन्नं करिष्यामि(तां० ब्रा० १ .२.१)इति जपेत् । चत्वालोदपात्रे तूष्णीमवेक्षेरन् । सामासि प्रतिमा भाहीत्यादित्यं तूष्णीं वा । बहिष्पवमानस्य पुष्कलो गायत्री सोम इत्यृष्यादयः इम वै लोका गायत्रम् (तां० ब्रा० ७.१. १) इति गायत्रविधिब्राह्मणम् । स तु वै यज्ञेन यजेत(तां० ब्रा० ६.८.१) इति बहिष्पवमानस्य ब्राह्मणम् । मनो हिंकार (जै० उ० ब्रा० १.११.१.३) इति भक्त्युपासनविधिब्राह्मणम् । धूर्गानस्य प्रजापतिरकामयत (ष० वि० ब्रा० २.१. १) ता वा एता ( ष० वि० ब्रा० २.२.१) इति षड्विंशब्राह्मणम् । रेतस्या गायत्री त्रिष्टुब्जगत्यनुष्टुप् पङ्क्तिर्द्वे गायत्र्यौ रथन्तरवर्णेति धुराश्छन्दांसि । प्रजापतिरग्निरिन्द्रः सूर्यः प्रजापतिः सोम इति देवताः । अन्नमनसी प्राणापानौ चक्षुषी श्रोत्रे

धूर्गानम्(उपा-उपोषु-पवमानस्य)

27 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
वाक् समानोदानाविति सर्वं पृथिव्यन्तरिक्षं द्यौः सर्वं दिश इति ध्यानानि । प्रस्तावस्य प्राणो देवता । आदित्य उद्गीथस्य । अन्नं प्रतिहारस्येत्युषस्तिब्राह्मणे दर्शितम् । तत् सर्वं स्तुतिष्वनुसंधेयम् । विनर्द्दिसाम्नो वृणेऽपशव्यम् (जै० उ० ब्रा० १.१६.३.८) इत्यग्नेरित्यनुवाकोक्तं च । तत्र स्वधापितृभ्यः इत्यादिष्वपि वाक्येषु आगायानि इति पदमनुषज्जनीयम् ।
अथ सकृद्धिंकृत्य बहिष्पवमानेन स्तुवीरन् । सर्वत्र हिंकारकाले शुनां समुपवेशनं कुर्युः । उपास्मै गायता नर (सा० ६५१-९) इत्याद्यासु नवसु ऋक्षु प्रत्यृचं गायत्रं गेयम् । बहिष्पवमानं प्रकृत्येमे वैं लोका गायत्रम् ( तां० ब्रा० ७ .१. १) इत्यादिना गायत्रस्वरूपवर्णनात् । गीतिविकारो गायत्रस्य धुरः स्तोत्रीयानुरूपयोर् ( ला० श्रौ० सू० ७. १२.१-२) इति बहिष्पवमानस्यर्चोऽधिकृत्य वचनाच्च । तस्य सर्वत्राद्यः पाद ओंकारान्तः प्रस्तावः । आद्यपात् प्रस्ताव ओंकारान्त ( आ० ब्रा० १.१.१६) इति श्रुते । गायत्रस्य पदेन प्रस्तावः सर्वत्र । अष्टाक्षरेणेति धानंजय्य ( ला० श्रौ० सू० ७ .१०. १५-६) इति वचनाच्च । सर्वेषां स्तोत्रसाम्नामोमित्युक्त्वोद्गातोद्गीथमाददीतेति पूर्वमेव प्रतिपादितम् । परमेष्ठी देवी गायत्री परमात्मेत्योंकारस्य ऋष्यादयः । क्रुष्टादिस्वराणां क्रुष्टः प्राजापत्य इत्युक्ता देवता। रेतस्यां पवमाना- येन्दवा इत्येवं त्रिरुद्गृह्णीयादिति धूर्गानाख्यो विशेष उक्तः । अभि देवाँ इयेत्यादि धियो यो नः प्रचोदयादित्यादिवदूगेयं गायत्रेषु प्रस्तावादूर्ध्वमार्चिकं गानं मनसा कुर्वन्नोंकारेणार्चिकस्वरेण वाचा गायेदुद्गाता । तथा च ब्राह्मणम् -अनिरुक्तं गेयमेतद्वै गायत्रस्य क्रूरं यन्निरुक्तम् (तां० ब्रा० ७ .१. ८) इति । सूत्रं च-शेषमुद्गाता मनसा तु स्वभक्तिमोंकारं तथा स्वरं वाचा (ला० श्रौ० सू० ७. १०.२०) इति । हिम् आ इति हिंकारमुद्गाता रेतस्यायां न ब्रूयात् । अहिंकृता प्रथमा रेतस्ये- (ला० श्रौ० १. १२.८) ति वचनात् । सादिति निधनं त्रयो ब्रूयुः । उद्गातैव वा । तथा निदानप्रकरणे सूत्रम्-गायत्रे तु विकल्पः । सर्वे चोद्गाता वेति । गायत्रप्रकरणे च सर्वे वा निधनं न्यायादिति रेतस्याया ऊर्ध्वं हिंकारमप्युद्गाता वाचा ब्रूयात् । ऊर्ध्वं रेतस्याया द्व्यक्षरं शिष्ट्वा हिकारं ब्रूयाद्(ला० श्रौ० सू० ७.११. ३) इति वचनात् । मनसा तु प्रतिहर्ता । हिंकारो वै गायत्रस्य प्रतिहारः । स मनसा ध्येय (तां० ब्रा० ७. १. ४-५) इति श्रुतेः । द्वितीयायामशिश्रादेयु- र्वन्दे वायेत्यक्षरव्यत्यय । आर्चिकगाने विशेषः । तत्सवितुर्गायत्रवद् गेयम् । सामिति निधनम् । तृतीयायां शांजानायेत्यादिरार्चि- कगाने विशेषः । तथा स्वरमोंकारं ब्रुवाणः षाध इत्येतन्निरुक्तं गायेत् । सुवरिति निधनम् । चतुर्थ्यामृच एवाक्षराणीत्यष्टाक्षरः । प्रस्तावार्थं तत्सवितुर्वरेणियोमितिवद्दविद्युततियारुचोमिति विकर्षेण प्रस्तावः । पारिष्टोभान्तायेत्यादिरार्चिकगाने विशेषः । सोमा शुक्रा इत्येतदार्चिकं वाचा गायेत् । इडेति निधनम् । पञ्चम्यामावाजं वाज्यक्रमीदित्यादिरार्चिकगाने विशेषः । तस्या द्वितीयं पादं नुषा इति च निरुक्तं ब्रूयात् । वाक् इति निधनम् । षष्ठ्यामृधक्सोम-

29 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
सुवस्तयोमिति विकर्षेण प्रस्तावः । संजग्मानो इत्यादिरार्चिके विशेषः । आकार एव निधनम् । अतः परासु धूर्गानाभावात् तत्सवितुर्गायत्राभावान्न विशेषः । उत्तमा रथन्तरवर्णा । तस्यामास्तां गावो इति चतुर्भिरक्षरैश्चतुःकर्षणं कृत्वा न धेनावा इति पुनः कर्षणं कुर्यात् इत्यार्चिकगाने विशेषः । तत्तु मानसम् । वाचिके तु भाशब्देन चतुष्कर्षणं कृत्वा शेषं तथा स्वरेण ओंकारेण गायेत् । हिम्मित्याविसृष्टं हिंकारं ब्रूयात् । रथन्तरवर्णोत्तमा आविसृष्टहिंकरा (ला०श्रौ० १.१२.१०) इति वचनात् । एवं त्रिवृता बहिष्पवमानेन स्तुत्वा अन्नमकरम्(तां० ब्रा० १ .३.७) इत्युद्गाता जपेत् । प्रस्तरे न्यस्तहस्तं यजमानं श्येनोऽसि (तां० १.३. ८) इति वाचयेत् । उद्गातार उपह्वयध्वम् इत्युक्तवन्तं यजमानमुपहूत इत्युपह्वयेरन् । ईक्षकान् सहकारिणश्च प्रेक्षमाण उद्गाता संवर्चसा (तां० १.३. ९) इति जपेत् । आदित्यं पश्यन् नमो गन्धर्वायेति धेही-(तां० १. ३.१ ०)त्यन्तं जपेत् । प्रस्तरात् तृणमादायोभयतः परिच्छिद्य मध्यभागं चात्वले यदि स्तुतमिति प्रास्येत् तत्रैव समुद्रं व (ला० श्रौ० २ .१. ७) इत्युदपात्रं निनयेत् । बहिर्वेद्युदङ्मुखस्त्रीणि पदानि पञ्च सप्त नव वोत्क्रम्य दक्षिणपार्श्वेनावृत्य अग्नीध्रीयस्य पश्चादुपविश्य बहिष्पवमानस्यर्चामुपरिष्टाज्जपं कुर्युः । मन्द्रं प्रातःसवने स्तुवीरन् । उत्तरोत्तरमुत्तरयोः सवनयोः एतस्यां वेलायां भुञ्जीरन् । राजानं भक्षयित्वा तदहर्ग्राम्यमन्नं नाश्नीयादिति श्रुत्यन्तरवचनात् ।।

[ धिष्ण्याद्युपस्थानम् ]

अथ सवनीयवपायां हुतायां धिष्ण्योपस्थानं कुर्युः । सम्राडसी- (तां० ब्रा० १ ४. २)त्याहवनीयमुपस्थायोदङ्मुखा गत्वा तुथोऽसीत्यास्तावमुपतिष्ठेरन् । नभोऽसीति चात्वालम् । असंमृष्टोऽसि (तां० ब्रा० १. ४ .३)इति शामित्रम् । विभुरसि(तां० ब्रा० १ .४.४ )इत्याग्नीध्रीयम् । तमुत्तरेण सर्वदा गच्छेयुः । उत्तरयोः सवनयोः पृष्ठहोमार्थं गमनं हविर्धानगमनं चाग्नीध्रीयस्य दक्षिणत । सदसः पूर्वस्मिन् द्वारे प्रत्यङ्मुखाः स्थित्वा वह्निरसि (तां० ब्रा० १.४.५) इति होतुर्धिष्ण्यमुपतिष्ठेरन् । श्वात्रोऽसि(तां० ब्रा० १ ४ ६) इति मैत्रावरुणस्य उदङ्मुखा भूत्वा तुथोऽसीति ब्राह्मणाच्छंसिनः । उशिगसीति पोतुः । अन्धारिरसीति नेष्टुः । अवस्युरसि(तां० ब्रा० १. ४.७) इति अच्छावाकस्य । द्वार्येव स्थित्वा शुंध्युरसि(तां० ब्रा० १.४. ८) इति मार्जालीयम् । ऋतधाम (तां० ब्रा० १ .४ .९) इत्यौदुम्बरीम् । समुद्र (तां० ब्रा० १. ४.१०) इति ब्रह्मसदनम् । उत्तरेण सदो गत्वा अन्तर्वेदिप्रत्यङ्मुखास्तिष्ठन्तोऽहिर् (तां० ब्रा० १ .४ .११ )इति पुराणगार्हपत्यम् । अज (तां० ब्रा० १. ४. १२) इति पुराणाहवनीयम् । सगरा (तां० ब्रा० १.४.१३) इति दक्षिणाग्नेरायतनम् । कव्य (तां० ब्रा० १.४.१४) इति दक्षिणवेद्यन्तम् । तत्रैव तिष्ठन्तः सर्वानाहवनीयादीन् वीक्षमाणाः पातमा (तां० ब्रा० १ .४.१५) इति समस्तोपस्थानं कुर्युः ।।
 
[ सद उपवेशनोपह्वानभक्षणानि ]

सदसोऽपरयाद्वारा द्वारबाहुद्वयम् ऋतस्य द्वारौ स्थ इति पाणिभ्यां युगपत् संमृज्य मा मा संताप्तम्(तां० ब्रा० १. ५. १)इति सदः प्रविश्य


31 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
औदुम्बरीं दक्षिणेन गत्वा तस्या उत्तरतो गत्वा नमः सखिभ्य (तां० ब्रा० १.५.२) इत्युपविशेयुः । प्रस्तोतारं पूर्वेण प्रतिहर्ता गच्छेत् । उद्गातारः परस्परमुपह्वयेरन् । प्रस्तोतरुपह्वयस्व प्रतिहर्तरुपह्वयस्वेति चोद्गाता ब्रूयात् । उपहूत इतीतरौ ब्रूयाताम् । एवं प्रस्तोता प्रतिहर्ता चेतरा- वनुज्ञानं कुर्याताम् । यजमानेनोद्गातार उपह्वयध्वमित्युक्ताः उपहूत इत्युपह्वयेरन् । उद्गातौदुम्बरीमुच्चाग्रैः कुशैः परिवेष्ट्य प्रदक्षिणम् ऊर्ध्वदशेन क्षौमादिना परिवेष्टयेत् । चमस आहृते प्रस्तोता तमुभाभ्यां हस्ताभ्यां प्रतिगृह्य दक्षिण ऊरौ निधाय दक्षिणेन पाणिना पिधायासीत । इडोपहवे प्राप्ते तत्समाप्तेरिडापात्रसदृशमुभाभ्यां हस्ताभ्यां - स्वमुखसमीपे सोममस्पृशन्धारयेत् । वषट्कारनिमित्त- भक्षणार्थं समाख्याभक्षणकाले सर्वत्रोद्गातॄणां भक्षणम् । यजमानः सवनमुखीयभक्षणकाले अग्निर्मे होता स मोपह्वयतामित्युपांशु जपित्वा होतरुपह्वयस्वेत्युच्चैर्ब्रूयात् । एवमुत्तरैरपि मन्त्रैर्यथालिङ्गमुपहवमिच्छेत् । उपहूत इति सर्वैरुपहवे दत्ते स्वं चमसमुद्गातारः परस्परमुपहूय भक्षयेयुः । तत्र प्रथममुद्गाता दक्षिणमनु बाहुं दण्डं कृत्वा श्येन (तां० ब्रा० १. ५.३) इत्यवेक्ष्य इन्दविन्द्रपीतस्येन्द्रियावतो गायत्रच्छन्दस (तां० ब्रा० १.५.४) इत्यादिना द्विरल्पं भक्षयेत् । ऊर्ध्वः सप्त ऋषीन् (तां० ब्रा० १ . ५.५) इति चक्षुषी नासिके श्रोत्रे चाभिमृशेत् । सोम रारन्धि(तां० ब्रा० १.५.६) इति हृदयम् । सोम गीर्भिर् (तां० ब्रा० १.५. ७) इति नाभिम् । एवं प्रस्तोता । ततः प्रतिहर्ता । स च तं चमसम् अभिमृश्य आप्यायस्व (तां० ब्रा० १.५.८) इत्याप्याययेत् । सर्वे वा भक्षयितारः । प्रतिहर्तृभक्षणादूर्ध्वमाप्याययेयुः । ठद्गातृ- चमसं प्रस्तोतृप्रतिहर्तृव्यतिरिक्ता न भक्षयेयुः । उद्गाता प्रथम(ला० श्रौ० २.५.४) इत्यस्मिन् सूत्रे उद्गातेति पाठादेव प्राथम्ये सिद्धे प्रथम इति गुरुन्यासकरणात् वषट्कर्तु प्रथमभक्ष इत्यादिशास्त्रप्राप्तेः प्रति- षेधात् उद्गातृचमस नान्यो भक्षयेदिति शाखान्तरवचनाच्च । नात्राचमनादि कार्यम् । न सोमेनोच्छिष्टा भवन्ति (भा० श्रौ० सू० ५.६.३) इति श्रुतेः । सवनेषु च द्वितीयाश्चमसा नाराशंसाः । पूर्वयोः सवनयोस्तृतीयौ च तेषां पूर्ववत् प्रतिग्रहभक्षणादि । श्येन इत्यवेक्षणं निवर्तते । अवमैस्ते पितृभिर्भक्षितस्य (तां० ब्रा० १.५.९) इत्यादिना प्रातःसवने नाराशंसं भक्षयेयुः । नाराशंसे चक्षुराद्यभिमर्शनत्रयकार्यं वा न वा ।।

[आज्यस्तोभेषु स्तोम-कुशापर्याय-विष्टावाः ]
अथाज्यनामानि चत्वारि स्तोत्राणि । त आजिमायन् । यदाजिमायंस्तदाज्यानामाज्यत्वम् (तां० ब्रा० ७.२.१) इति श्रुतेः । चत्वारि सन्ति षडदेवत्यानि (तां० ब्रा० ७.२.३) इति च । तानि च क्रमाद् अग्न आ नो मित्रावरुणायाहीन्द्राग्नी (सा० ६६०-७१) इत्येतेषु चतुर्षु तृचेषु कर्तव्यानि उत्तरापाठक्रमात् । ब्राह्मणे च सोऽग्निरग्र उदजयत् । अथ मित्रावरुणौ । अथेन्द्रः । अथ सैषेद्राग्नी (तां० ब्रा० ७.२.२) इति देवतानुक्रमात् । एतेषां च तत्तद्देवतालिङ्गात् । एषु च गायत्रमेव साम बहिष्पवमानं प्रकृत्य गायत्रविधानात् । आज्येषु सामान्तरानु-

33 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
पदेशात् । सर्वाणि स्वाराण्याज्यानि (तां० ब्रा० ७ .२.५) इति लिङ्गात् । सूत्रकारेण च जगतीगायत्र्यौ त्रिष्टुबनुष्टुभाविति पृथगाज्यप्रथमासु गायत्रीगीतिविकारभूतस्य धूर्गानातिदेशात् । आज्यानां पुष्कलो गायत्रीत्यृषिच्छन्दसी । अग्निर्मित्रावरुणाविन्द्र इन्द्राग्नीति क्रमेण देवताः । प्रजापतिर्देवेभ्य आत्मानम् (तां० ब्रा० ७.२.१) इति विधायकब्राह्मणम् । यस्य वा एता बहिष्पवमाने विगीयान्तराज्येषु संगायन्ति (ष० विं० ब्रा० २.३. १२) इति धूर्विधायकब्राह्मणम् । मनो हिंकार इति भक्त्युपासनम् । पञ्चदशस्तोमान्याज्यानि । तथा च त्रिसंस्थस्य ज्योतिष्टोमस्य स्तोमविधिब्राह्मणम्- त्रिवृद् बहिष्पवमानम् । पञ्चदशान्याज्यानि । पञ्चदशो माध्यंदिनः पवमानः । सप्तदशानि पृष्ठानि । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः सोक्थ्यः । पञ्चदशी रात्रि । त्रिवृत्संधि (तां० ब्रा० २० .१. १) इति । पञ्चदशस्तोमा- वृत्त्या संपाद्य तृचस्य पञ्चदशत्वविधानात् । यदाज्यै पुनरभ्यावर्तं- स्तुवन्ति(तां० ब्रा० ७.२. ६) इति श्रूतेः । आवृत्तिश्च पञ्चभ्यो हिंक- रोति(तां० ब्रा० २. ४. १)इत्याद्यया पञ्चपञ्चिन्या विष्टुत्या कुशा- विधानेन विधेया । आद्याभिः विष्टुतिभिः स्तोमविधानमनादेशे ताः पथ्या सर्वाभिप्रायाश्च (ला० श्रौ० सू० ६.२. २) इति वचनात् । तत्र प्रथमस्याज्यस्य ऋग्जपे कृते प्रस्तोताध्वर्युदत्ते तृणे प्रतिगृह्य ब्रह्मन्निति प्रस्तरवदुद्गात्रे दद्यात् । अत्र अभिरूपा करोतीत्यादिषु तृणदानाभावेऽपि न मन्त्रं जह्यात् । उद्गाता प्रस्तरवत्तृणाभ्यां जङ्घामुपहत्य दीक्षायै वर्णेनेत्याद्यपानाये(तां० ब्रा० १ .५. १० )त्यन्तेन स्तोमं युञ्ज्यात् । औदुम्बर्याश्रयः सर्वाणि स्तोत्राणि उद्गाता गायेत् । पर्यायादिषु हिंकुर्युः । पर्यायादिषु हिंकारं स्तुवीरन् (ला०श्रौ० सू० २.६.१ )इति आवृत्तिस्तोत्राण्यधिकृत्य वचनात् । स्तोष्यमाणानां मध्ये कुशास्तरणार्थं वस्त्रमुदक्समासमुपरिदशमास्तीर्य प्रस्तोताप्रस्तावान्तेषु कुशा विदध्यात् । सर्वस्तोमानां त्रयः पर्यायाः । प्रति- पर्यायं त्रयो विष्टावाः । तदुक्तम् - प्रथमस्य पर्यायस्य प्रथमा तृचभागा । तस्यास्त्रिर्वचनम् । मध्यमावापस्थानम् । उत्तमा परिचरा । परिचरा तृच- भागः वापस्थानम् इति मध्यम आवापस्थानम् । परिचरा तृचभागे- त्युत्तम एते विष्टावा (ला. श्रौ. ६.५. १-६) इति । तत्र प्रथमस्य पर्यायस्य प्रथमं विष्टावं प्रथमया स्तोत्रीययोदगग्राभिः प्राक्संस्थाभिः कुशाभि- विदध्यात् । तस्य पश्चान्मध्यदेशे प्रागग्राभिः कुशाभिरुदक् संस्थाभि मध्यमया स्तोत्रीयया द्वितीयं विष्टावम् । तस्य पञ्चाहुः ग्राभिः प्रत्यकसंस्थाभिरुत्तमया स्तोत्रीयया तृतीयं विष्टावम् इत्येकः पर्यायः । एवमुत्तरौ पर्यायौ । पर्यायान् विष्टावांश्च परस्पर० संसृष्टान् कुर्यात् । तत्र प्रथमायां स्तोत्रीयायां दविद्युततियारुचोमिति- वद्धूर्गानम् । निहोतासा इति निरुक्तं गायेन् । इतरासु चतुर्दशसु


35 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
तत्सवितुरिति गायत्र्यां न विशेषः । उत्तमां प्रस्तुत्य शंसिष्यन्तं प्रत्येषेति ब्रूयात् ।।

[ यजमानवाचनादि सवनमुखीयवद्भक्षणान्तम्]

आज्यस्तोत्रम् (द्वितीयम्) - आ नो मित्रावरुणेति

स्तुतस्य स्तुतमसी(तां० ब्रा० १ .६.३) इति प्रस्तरवत्तृणे आलब्धवन्तं यजमानमुद्गाता वाचयेत् । बहिष्पवमानान्तवदुपहवः । ऋग्जपं कृत्वा यथोक्तं नाराशंसभक्षणं कुर्युः । प्रथमद्वितीयौ पूर्वयो सवनयोराप्याययेत् । प्रथमं तृतीयसवन (ला० श्रौ० २.५. १७) इति वचनात् । इतःप्रभृतीनां प्रातःसवनीयानां चमसगणानां नाप्यायनम् । द्वितीयेऽप्याज्य ऋग्जपः । आ ना मित्रावरुणेति । अभिते मधुनापयोमितिवत्प्रथमाभ्यासः । शेषं सर्वं प्रथमाज्यवत् । सवनमुखीयवद्भक्षणम् । तृतीये स नः पवस्व शंगवोमितिवत्प्रथमाभ्यासः । सादा इति निरुक्तं गायेत् । शेषं समानम् । सवनमुखीयवद्भक्षणम् । चतुर्थे हिन्वानाहेतृभिर्हिनोमितिवत्प्रथमाभ्यासः । गाइभिर्नभोवरेणियां धिया इति च निरुक्तम् । न त्वाज्येषु निधनविकारः । न तूर्ध्वं बहिष्पवमानात्स्युरि(ला०श्रौ. ७. १३. ८)ति वचनान् । इतरत्सर्वं समानम् । सवनमुखीयवद्भ्रक्षणम् ।।

[ माध्यन्दिनाय प्रसर्पणमृत्विजाम् ]

सवनसंस्थासु सर्पतेति प्रशास्त्रोक्तेऽपरया द्वारा यथैतन्नि- ष्क्रम्याग्नीध्रीयस्य पश्चाद् बहिर्वेदि मूत्रादि कुर्युः । मूत्रं कृत्वा यावदाचमनं वाग्यमनम् । एतन्मृगतीर्थम् । तेन शम्यापरासात् परं न गच्छेयुः । ततः परं जिगमिषुराप्नानेन गच्छेत् संतिष्ठते प्रातःसवनम् ।।
इति प्रातःसवनम् ।।

माध्यंदिनं सवनम् [ लोकद्वारसामगानादि माध्यन्दिनपवमानसर्पणान्तम्]

अथ माध्यंदिने सवने राज्ञोपावहरणात् पूर्वं यजमानः पश्चादग्नीध्रीयस्योदङ्मुख उपविश्य लोकद्वारमिति रौद्रं साम त्रिर्गायेत्। पुष्कलो द्विपदा गायत्री रुद्रः । नमो वायव इति स्वाहेति तत्रैव हुत्वा अप जहि परिघमित्युक्त्वोत्तिष्ठेत् । पूर्ववद्धिष्ण्योपस्थानं कृत्वोत्तरत औदुम्बर्याः पूर्ववदुपविष्टेषूद्गातृषु यजमानोपहवान्ते कृते प्रस्तोता होतृमैत्रावरुणधिष्ण्यावन्तरेण पूर्वया द्वारा निष्क्रम्य हविर्धानं गच्छेत् । अयमेव पृष्ठहोमगमने मार्गः । विसंस्थिते सवने पूर्वया द्वारान्तरेण होतुर्धिष्ण्यं मैत्रावरुणस्य तु संचरतस्तद्यथेति वचनात् । पूर्ववद्धविर्धानप्रवेशनादि प्राक्सर्पणात् प्रवणवर्जं यथासंभवं कुर्यात् ।

37 उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व
तथोद्गातृप्रतिहर्त्रोः सर्पणार्थं प्रस्तोतृमार्गेण गमनम् । सर्वे बहिष्पवमानवत् सर्पन्तोऽध्वर्युमार्गेण गत्वा सदसि तद्वदेवोपविशेयुः । अत्र कश्चिदाह- माध्यंदिने यस्यैव हविर्धानगमनं तस्य प्रस्तोतुरेवान्वारम्भाद्युपवेशनान्तम् । नेतरयो । एवं तृतीयसवने प्रतिहर्तुरेवेति । तदयुक्तम् । एतत्सर्वं कुर्यादुत्तरयोः सवनयोरि ( ला० श्रौ० १. १२. १८ ति सर्व- ग्रहणात् । तद्धि यस्यैव हविर्धानगमनं तस्यैव सर्पणं माविज्ञायेति । उपग्रन्थकारश्च उभयोर्वा सर्पणयोः प्रतिहर्ता विच्छिद्येत । विभवेत्स्वित्तत्र सकृत्कृतं प्रायश्चित्तमिति माध्यंदिनेऽपि सवने प्रतिहर्तुः सर्पणमनुवदति । न हि प्रातःसवनतृतीयसवनस्थयोर्विच्छेदयोः सह प्रायश्चित्तविकारो युक्तः । पूर्वस्य माध्यंदिने एव सवने प्रायश्चित्तकरणात् । आपस्तम्बश्च विशेषेणाह-- बहिष्पवमानवन्माध्यदिन पवमानं सर्पन्ति(आप०श्रौ० १३.२.७) इति ।।

[ माध्यन्दिनपवमानस्तोत्रम्

सदस्युपविष्टा माध्यंदिनस्य पवमानस्यर्चो पश्येयुः । उच्चा- पुना-प्रगाथं प्रतुद्रेति । प्राणो गायत्री । व्यानो बृहती । अपानस्त्रिष्टुप् । इति श्रुतेः । तासां दिविसद्भूम्यादद इति प्राणानादत्तेति लिङ्गदर्शनात् ऋक्समाम्नायाच्चैते माध्यंदिनपवमानस्य तृचा इत्यवसीयते । बहिष्पवमानवत् प्रस्तरग्रहणादानस्तोमयोगजपाः । अग्निर्युनक्त्वित्यस्य स्थाने वायुर्युनक्तु मनसेति ब्रूयात् । एवता वाव एतद्वै यज्ञस्य प्रजापतिरकामयतेति विधायकब्राह्मणम् । त्रयीविद्या हिंकार ( जै० उ० ब्रा० ५. ५. १ २) इति भक्त्युपासनविधिब्राह्मणम् । द्वे गायत्र्यां सामनी ( ष. विं. ब्रा १ .३ .१२) इति । यद् गायत्र्यां गायत्रेण स्तुवन्ती (तां० ब्रा० ७.३ ७)ति च श्रुतेः । उच्चातृचे प्रथमं साम गायत्रम् । गायत्रेण स्तुत्वा निधनवता स्तुवन्ती(तां० ब्रा० ७.३.११) ति । स एतदामहीयवमपश्यदिति च । तत्स्थाने द्वितीयमामहीयवम् । तस्याग्नी रौरवं प्राबृहत । (तां०ब्रा० ७.५.७) अथेन्द्रो यौधाजयम्(तां०ब्रा० ७.५.१२) इति द्वे बृहत्यां सामनी (ष० विं० ब्रा० १.३.४) इति च श्रुतेः । पुनः प्रगाथे रौरवयौधाजये । अथ वायुरौशनं प्राबृहते (तां० ब्रा. ७.५. १ ६)ति एक त्रिष्टुभि सामे(ष० वि० ब्रा० १ .३.५) -ति श्रुतेः । प्रतुद्रवतृचमौशनम् । तेषां पुष्कलामहीयुरग्निरिन्द्र उशनेत्यृषयः । सोमो देवता । पञ्चानां साम्नां क्रमेण स्वारणिधनवदैडपदनिधनपदानुस्वारत्वात् । प्रजापतिरिन्द्रेऽग्निरग्निः सोम इति क्रमेण निधनदेवताः । अथातः सामान्तानामि(नि. सू. १. १२.१ )ति निदानोक्तं निधनार्षेयमप्यनुसंधेयम् । साम्ने साम्ने हिंकुर्युः । आमहीयवस्य पर्व प्रस्तावः । उपग्रन्थोक्तं प्रतिहारभागं प्रतिहर्ता सर्वत्र ब्रूयात् । प्रस्तावप्रतिहारव्यतिरिक्तम् उद्गाता । सर्वे निधनं ब्रूयुः । स्तौष इत्यस्य निधनम् । एवमुत्तरयोर्गानम् । रौरवेऽप्येवमिडेति निधनम् । यौधाजये पादः प्रस्तावः । षासीत्यादि हिषीस्वरं द्व्यक्षरनिधनम् । आमहीयवत् शेषम । औशनेऽपि सर्वमामहीयवत् । अन्त्योऽनुस्वारो निधनम ।।


३९ उपोद्घातः-- ज्योतिष्टोमे अग्निष्टोमपर्व

[ सवनमुखीयभक्षणादि दक्षिणाप्रतिग्रहनाराशंसभक्षणान्तम्

एवं पञ्चदशेन माध्यंदिनपवमानेन स्तुत्वा अन्नमकरमिति नमो गन्धर्वायेति जपान्तं पूर्ववत् कर्तव्यम् । वृषकोऽसि त्रिष्टुप्छन्दा इति वाचने विशेषः । ऋग्जपं कुर्युः । यजमानः सवनमुखीये वाङ्ऽमे होतेत्यादिभिर्यथालिङ्गमुपहवमिच्छेत् । उद्गातारः प्रातःसवनवत् सवनमुखीयं भक्षयेयुः । गायत्रच्छन्दस इत्यस्य स्थाने त्रिष्टुप् छन्दसेति विशेषः । सं ते पयांसीति त्रिष्टुभाप्यायने कृते दक्षिणां प्रतिगृह्णीयुः ससुब्रह्मण्याः । भक्षणादिष्वेव सुब्रह्मण्यस्य निवृत्तिः । न प्रतिग्रहे । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि । वरुणो वो नयतु देव्यो दक्षिणा रुद्राय गास्ताभिरमृतत्वमशीय । वयो दात्रे भूयात् । मयो मह्यं प्रतिग्रहीत्रे । क इमाः कस्मा अदात् कामः कामायादात् । कामो दाता कामः प्रतिग्रहीता । कामः समुद्रमाविशत् । कामेन वः प्रतिगृह्णामि । कामैतास्ता इति गवां प्रतिग्रहे मन्त्रप्रयोगं कुर्यः । तदभावे- हिरण्यपक्षेऽपि गोमन्त्रेणैव प्रतिग्रहः । तत्कार्यापन्नत्वात् । ओर्वैस्ते पितृभिरित्यादिना भक्षयामीत्यन्तेन नाराशंसस्य भक्षणम् । पूर्ववदाप्यायनम् ।।

[ पृष्ठहोमः]

प्रस्तोता होतृमैत्रावरुणधिष्ण्यावन्तरेण पूर्वया द्वारा निष्क्रम्याग्नीध्रीयस्य दक्षिणतो गत्वा आहवनीये स्रुवेण पृष्ठहोमं कुर्यात् । रथन्तरं पिबतु सोम्यमिति स्वाहान्तेन स्वाहेति चाहुतिद्वयम् । ततो यथैतं प्रत्यावृज्य स्वस्थाने उपविशेत् ।।

[ पृष्ठस्तोत्राणि]

अनन्तरं पृष्ठनामानि चत्वारि स्तोत्राणि । अथ यदेव तत ऊर्ध्वं तानि पृष्ठानि । बार्हतान्येकगायत्रीकाणि ( ष० विं० ब्रा० १. ३.७-८) इति श्रुतेः । अत्र यद्यपि ब्राह्मणे वृहद्रथंतरयोर्द्वयोरपि प्रथमपृष्ठत्वेन विधानं तथापि सामर्थ्यात् तयोर्विकल्पः । तत्र रथन्तराश्रयः प्रयोगः प्रथममुच्यते । कस्माद्रथन्तरं पूर्वं योगमानश (तां. ब्रा. ७. ६.९) इति श्रुतेः । ब्राह्मणस्य प्रथमप्रयोगे रथन्तरस्यैव वक्तव्यत्वात् ऋक्समाम्नाये रथन्तरस्तोत्रीयस्यैव प्रथमाम्नानाच्च वृहदाश्रयः परस्ताद्वक्ष्यते । रथन्तरस्तवनार्थमभित्वाशूरप्रगाथस्य पुरस्ताज्जपं कुर्युः । प्रथमा बृहती । ककुभावुत्तरे । वसिष्ठ इन्द्रः प्रजापतिरकामयत । स तूष्णीम् (तां. ब्रा. ७.६.१) इति ब्राह्मणम् । अभिमन्धति स हिंकारः इत्युद्गीथोपासनं ब्राह्मणम् । प्राक्स्तोमयोगाद् ऐरं वै बृहदित्यादि अयं रथंतरमि(तां. ब्रा. ७.६. १७)त्यन्तमुद्गाता मनसा ध्यायेत् । यस्ते गोष्विति द्रविणवन्न एधीत्यन्तं चतुर्णां पृष्ठानां तृणप्रतिग्रहादि कुशाविधानान्तमाज्यवत् सप्तदशत्वात् दशसप्ता विष्टुतिः । रथन्तर प्रथमाया अष्टाक्षरः प्रस्तावः । उत्तरयोर्द्व्यक्षरः । प्रस्तूयमान उद्गाता चक्षुषी निमील्य प्रस्तावानन्तरं

41

पृथिवीं हस्ताभ्यामालभ्योद्गीथम् ओं वागित्यादिकं क्षिप्रं ब्रूयात् । तत्र प्रतिहारात् प्राक् चतुरक्षरं शिष्ट्वा ततः पूर्वेष्वक्षरेषु व्यञ्जनानि लोपयित्वा भकारादीन् स्वरान् कुर्यात् । आर्चिकं मनसा युगपत् गायेत् । प्रतिहारात् पूर्वभाविनि चतुरक्षरे चक्षुषी उन्मीलयेत् । ऊत्तमपादादौ पञ्चाक्षरः प्रतिहारः । उत्तमां प्रस्तुत्येत्याद्यृक्जपान्तमाज्यवत् । उद्गाता यजमानं गोदानं चोदयेच्च । नाराशंसस्य पूर्ववत् भक्षणम् । इतःप्रभृति माध्यंदिनीयानां चमसानां नाप्यायनम् । तस्मात् पृष्ठानां स्तोत्रं वामदेव्येनानुष्टुवन्तीति ।।
द्वितीयं पृष्ठं वामदेव्यम् । तस्य कया न इति तृचं जपेयुः । मित्रावरुणौ गायत्रीन्द्रः । आपो वा ऋत्वियमित्यादि ब्राह्मणमुपमन्त्रयते स हिंकार इति भक्त्युपासनम् । प्राक्स्तोमयोगात् गावो अश्वा अजावयो व्रीहयो यवा(ला०श्रौ० २.१०.१) इत्युद्गाता मनसा ध्यायेत् । आद्यपादेन प्रस्तावः । हाइति निधनम् । स्तोमयोगः कुशाविधानम् उत्तमां प्रस्तुत्येत्यादि च गोदानवर्जं पूर्ववत् । रथन्तराय नौधसं प्रतिप्रयुञ्जन्ति इति ।।
तृतीयं पृष्ठं तस्य तं वो दस्मम् इति प्रगाथं जपेयुः । नोधाः काक्षीवन्तो बृहतीन्द्रः । इमौ वै लौकौ सहास्ताम् (तां. ब्रा. ७ .१०.१) इति ब्राह्मणम् । त्रयीविद्या हिंकार इति भक्त्युपासनम् । यजमानस्य क्रतुफलं सिध्यत्वित्युद्गायन्नुपासीत । यजमानश्च ब्रह्मसाम्नि यः कामो
यजमानस्य स्यात् स सिध्यत्विति ध्यायन् उपासीत । तथेतर उद्गायन्नि(ला० श्रौ० २.१०. २-३)ति वचनात् । ब्राह्मणाच्छंसिनानुशंसनीयत्वादिदं ब्रह्मसामेत्युच्यते । नौधसं सामोपधावामि । तं वोदस्मर्चमुपधावामि । नौधसमृषिमुपधावामि । इन्द्रदेवतामुपधावामि । बृहतीच्छन्द उपधावामि । सप्तदशं स्तोममुपधावामि । उदीची दिशमुपधावामि । आत्मानमुपधावामि । एवमुपसरणान्युद्गाता ध्यायन् स्तुवीत । तथा च रहस्यब्राह्मणम् - अथ खल्वाशीः समृद्धिरुपसरणानीत्युपासीत । इत्यादि । तत्र यद्यपि उपसरणानां काममात्रस्य च स्तोत्रमात्रसाधारण्येन ध्यानं श्रुतं तथापि सूत्रनिदानाभ्यां पृष्ठानामेव ब्रह्मसाम्नि क्रतुफलस्यैव ध्यानमिति निर्णयः । आद्यपादेन प्रस्तावः । अन्त्यं पर्व निधनम् । तृणप्रतिग्रहादि पूर्ववत् । तरोभिर्व इति ।। कालेयं चतुर्थं पृष्ठम् । कलिर्बृहतीन्द्रः । देवाश्च वा असुराश्चे(ष. विं. ब्रा. २ ३. १)ति ब्राह्मणम् । पर्व प्रस्तावः । इडेति डेति वा निधनम् । तृणप्रतिग्रहादि वामदेव्यवत् । सर्पतेति प्रशस्त्रोक्ते प्रातःसवनवन्निष्क्रमणम् ।।
।। इति माध्यंदिनं सवनम् ।।

सायं सवनम्

रथन्तरपृष्ठोऽग्निष्टोमः

[ लोकद्वारादिसामगानप्रभृति शुक्रधारानुमन्त्रणान्तम्]

अथ तृतीयसवनस्योपकरणात् पूर्वं यजमान उत्तरवेद्यग्नेः पश्चादुदङ्मुख उपविश्य लोकद्वारमित्यादित्यं वैश्वदेवं च साम त्रिर्गायेत् । पुष्कलो हि द्विपदा गायत्री । प्रथमस्यादित्यः । द्वितीयस्य विश्वेदेवाः । नम आदित्येभ्यश्चेति तत्रैव जुहुयात् । स्वाहेति च । अपहत परिघमित्युक्त्वोत्तिष्ठेत् । पूर्ववद्धिष्ण्यानुपस्थाय औदुम्बर्या उत्तरत उद्गातृषूपविष्टेषु यजमानोपहवान्ते कृते हुत आदित्यग्रहे प्रतिहर्ता हविर्धानं प्रस्तोतृवद् गच्छेत् । विष्णोः शिर इति रराट्यामालभ्येष ऊर्ज इति प्रविश्य तत्रावस्थितयोः कुम्भयोः पूर्वस्मिन् वसवस्त्वेत्या- दिभिर्द्रोणकलशवत्संमार्जनं कृत्वा तस्योपरि पवित्रन्त इति दशापवित्रं वितनुयात् । प्रशुक्रे(ला०श्रौ० १.१०.२१) ति धारामनुमन्त्रयेत् ।।

[ आर्भवपवमानस्तोत्रम्
अथ सर्वे माध्यंदिनवदन्वारम्भादि कृत्वा सदस्युपविश्यार्भवस्य पवमानस्यर्चो जपेयुः । स्वादिष्ठयेति तृचं पवस्वेन्द्रमच्छति एकर्चौ पुरोजितीति अभिप्रियाणीति तृचद्वयं चेति । तत्र स्वादिष्ठया तृचे प्रथमं गायत्रम् । आत्मा वै यज्ञस्य पवमानो मुखं गायत्री प्राणो गायत्रम् । यद्गायत्र्यां गायत्रेण स्तुवन्ति(तां०ब्रा० ७.३.७)इत्यस्य ब्राह्मणस्य गायत्रं पुरस्ताद् भवति । स्वारमन्तत इत्यस्य चोत्तरपवमानद्वयसाधारणत्वात् षड्विंशे चार्भवपवमानमधिकृत्य द्वे गायत्र्यां सामनी(ष०विं०ब्रा० १ .३. १२) इति वचनात् । सावित्री गेयं यत्रागीतम् (दे०अ०ब्रा० ३ २३) इति श्रुतेश्च । अत एवापवति ज्योतिष्टोमे कल्पः अन्तरेण गायत्रसंहिते गायत्रीसामान्यावपेत् इति । द्वितीयं संहितम् । तासु संहिताम्(तां०ब्रा० ८.४.८) इति श्रुतेः । गायत्रेण स्तुत्वा निधनवता स्तुवन्ती(तां. ब्रा. ७ .३. ११)ति च । पवस्वेन्द्रमच्छेत्येकर्चयोः सफ-पौष्कले । पुरोजीतीति तृचे श्यावाश्व - आन्धीगवे । अभिप्रितृचे कावमन्त्यमित्येवं सप्तदश आर्भवः । साध्या वै नाम देवा आसन्नि(तां०ब्रा० ८. ४)त्यनुवाकयोः सफादीनां चर्चा प्रमाणं स्पष्टम् । तत्र यद्यपि सफपौष्कले तृचयोरधीयेते तथाप्यार्भवस्य सप्तदशस्तोमत्वात् अतिरिक्तानां स्तोत्रीयाणां ह्रासे कार्ये द्विप्रभृतीन्ककुप्प्रभृत्यानन्तर्येणे(ला.श्रौ ६.३.२६)ति सूत्रवचनात् ककुबुष्णिहोरेकर्चत्वम् । तृचाध्ययनं तु चतुर्विंशादिषूपयोक्ष्यते । गायत्रादीनां पुष्कलः प्रजापतिर्वसिष्ठः पुष्कलः श्यावाश्वोऽन्धीगुः कविरित्यृषयः । गायत्रीककुबुष्णिगनुष्टुब्जगत्य इति छन्दांसि । पवमानस्य सोमो देवता । माध्यदिनवच्छेषम् । सूर्यो युनक्तु वाचे(तां. ब्रा. १.५. १४)ति स्तोमयोगे विशेषः । कावे पर्व प्रस्तावः । इतरेषु पादः । सफश्यावाश्वयोः हाहकारो निधनम् । आन्धीगवे -त्नवे अपश्वानं श्नथिष्टनेत्यन्तर्निधनम् । उत्तरयोरेवमन्तर्णिधनमूहनीयम् । कावेऽन्त्यस्वरो निधनम् ।।

[ भक्षणम्]

स्वरोऽसि गयोऽसी(ला०श्रौ० २.१ ५)ति यजमानवाचनम् । यजमानः पूर्ववत् सवनमुखीये प्राणो मे होतेत्यादिरुपहवमिच्छेत् । सवनमुखीयभक्षणे जगच्छन्दस इति विशेषः । आप्यायस्वेति गायत्री जगती संपत्तये द्विरुक्त्वाप्याययेयुः । सन्नेषु नाराशंसेषु हविर्धानमपरया द्वारा प्रपद्य पुरोडाशादेकैकं पिण्डमादाय स्वस्य चमसस्याधस्तादत्र पितर(ला०श्रौ० २.१०.४) इति आवृषायध्वमित्यन्तेन दद्युः । भक्षणार्थमाह्रियमाणं नाराशंसम् अमी मदन्ते (ला०श्रौ० २.१०.५)ति

45

षतेत्यन्तेन प्रतिमन्त्रयेरन् । काव्यैस्ते पितृभिर्भक्षितस्येत्यादिना तस्य भक्षणम् । सौम्यं चरुमाहृतमुद्गातावेक्षेत । आयुर्मे प्राण(तां० ब्रा० १. ५. १७) इति दध्मसीत्यन्तेन तस्मिन्नङ्गुलीमवधाय येनाह्याजिमि(तां०ब्रा० १ .५. १ ९)ति दधात्वित्यन्तेनाक्षिणी विमृजीत । एवमितरौ । प्रतिहर्ता पश्चात्तमुत्तरेण हृतं चरुं द्रव्येप्सु रोगवान्वाहतेन वाससा प्रच्छाद्य दक्षिणार्धं सदसो गत्वा भुञ्जीत ।।

[ अग्निष्टोमादि कुशासंलोभनान्तम्]
अथाग्निष्टोमस्तोत्रस्य यज्ञायज्ञीयस्य यज्ञायज्ञा वो अग्नय इति प्रगाथं जपेयुः । अग्निर्वैश्वानरः ककुबुत्तरा बृहत्यग्निः । देवा वै ब्रह्म व्यभजन्त(तां. ब्रा. ७.१०.१०) इति ब्राह्मणम् । लोमहिंकार इति भक्त्युपासनम् । एकविंशस्तोमः । सप्तसप्तिन्या विष्टुत्या कुशाविधानम् । उद्गातारः प्रावृतशिरस्काः स्तुवीरन् । पादः प्रस्तावः । उत्तरयोर्द्व्यक्षरः । वा इति निधनम् । तस्य वरुणो देवता । प्रथमायां स्तोत्रीयायां तिसृष्वभ्यासेषु हिंमा इति हिंकारकाले पत्नीमुद्गातावेक्षेत । सा च प्रथमद्वितीययोः स्तोत्रीययोः निधनकाले पन्नेजिनीभिरद्भिर्दक्षिणमूरुमभि षिञ्चेत । तृतीयेऽभ्यासे प्रस्तुते सर्वं तदुदकमूरौ निनयेत् । तृणप्रतिग्रहादि सर्वमाज्यवत् । यज्ञायज्ञीयमाशंसन् होतापोहिष्ठ इति यदा ब्रूयात् तदा प्रावरणमपनयन्तो होतार० मन्वालभेरन् । सवनमुखीयवद्भक्षणम् । नाप्यायनम् । ऋतस्य त्वे(तां.ब्रा. १.६. ५)ति प्रतिष्ठामित्यन्तेन स्तोमं विमुञ्चेयुः । दक्षिणैः पाणिभिः कुशाः संलोभयेयुः ।।

[ यजमानवाचनादि दधिभक्षणान्तम्]

अथ यजमानमुद्गाता वाचयेत् । तन्तवे मा ज्योतिषा यज्ञशर्मन्ननु मा तनुहि ज्योतिषे (ला०श्रौ० २.११.३ )ति यथाज्येष्ठं पुत्रान् । तन्तवे मा ज्योतिषा पुत्रा अनु मा तनुत ज्योतिषेति अजातेषु पुत्रेषु । हारि- योजने हुते सोमे ही(तां०ब्रा० १ .६.६) त्यपरया द्वारा निष्क्रम्य सुभूरसी (तां०ब्रा० १.६.७)त्यादित्यमुपतिष्ठेरन् । अस्तमितश्चेत् गार्हपत्यम् (ला०श्रौ० २.११.८) । अग्नीध्रीयेऽपां पुष्पमि(ला० श्रौ० २.११. ९)ति स्वाहेति च द्वे आहुती जुहुयुः उद्गातृपूर्वाः । अथोद्गाता द्रोणकलशस्थानां धनानामेकदेशमादाय समुपहूता भक्षयाम इति ब्रूयाद् (ला०श्रौ० २. ११.१०) । एवं प्रस्तोतृप्रतिहर्तारौ तत उन्नेतरुपह्वयस्वेति उपहवमिष्ट्वा हारियोजनस्य त(ला०श्रौ० २. ११. १२ )इति द्विरुपाघ्राय आहवनीयस्य पश्चादन्तःपरिधि निर्वपेयुः । अनुप्रहृतेषु परिधिषु भस्मान्ते अप उपस्पृश्य अष्टावष्टौ शकलान्याहवनीयेऽनुप्रहरेयुः देवकृतस्येत्यादिभिरिकारान्तैः । अत्रेकरान्तैरिति वचनं मन्त्रान्तज्ञापनार्थम् । न तु स्वाहान्तामन्त्रान्तहोमेषु इत्यस्यापवादार्थम् । चात्वालदेशेऽद्भिः पूर्णेषु चमसेषु प्रास्तृतहरिततृणेषु स्वं चमसं पर्युपविश्य अप्सु धौतस्येत्यव- मृश्य जपेयुः । मधुमन्तमि(ला.श्रौ. २ .११. १ ८)-ति पाणीनुपजिघ्रेरन् ।

47

शमद्भ्य(ला० श्रौ० २. ११.१९) इति उदञ्चं चमसं निनयेयु । कामेत्यध्यात्ममावर्तयेरन् । ऊर्गि(तां. ब्रा. १. ६. १५)त्युरस्सु पाणीन् निदधीरन् । प्राण सोमे(तां. ब्रा. १..६) ति मुख्यान् प्राणान् अभि- मृशेरन् । आग्नीध्रीयं गत्वा दधिक्राव्ण(तां. ब्रा. १ .६. १७) इति ऋचोपहववर्जं दधि भक्षयेयुः ।।

[ अवभृथः]

अवभृथकाले अध्वर्युः प्रेषितः प्रस्तोता सम्राडासन्दीमुत्तरेण गत्वा पश्चात्तिष्ठन् अहावोहावाः अग्निष्टपती(ग्रा. गे. १२.१२.४६५.३)
इत्यवभृथसाम गायेत् । पदाय पदाय स्तोभेत् । एविश्वमित्यादि निधनम् । मन्द्रस्वरान्तं कर्षन्तः सर्वे ऋत्विजस्त्रिर्ब्रूयुः । एवं मध्ये । प्राप्य चावभृथदेशं समाप्तायामिष्टौ अवभृथनिचुम्पुणे(ला०श्रौ० २ .१ २. ९)ति पाहीत्यन्तेन स्नात्वा शिरसि त्रिरभ्युक्षेयुः आदित्यम् उद्वयं तमस(ला०श्रौ० २ १२. १०) इत्यृचोपतिष्ठेरन् । अस्तमितश्चेदाहवनीयम् । तस्मिन् समिध आदध्युः । एधोस्येधिषीमहीति स्वाहान्तेन प्रथमाम् । समिदसि समेधिषीमहीति द्वितीयाम् । यदेन इति मृज्मह (ला०श्रौ० २.१२.१२) इत्यन्तेन तृतीयाम् । अपो अद्ये(ला०श्रौ० २ .१२. १ ३)ति वर्चसेत्यन्तेनाहवनीयमुपतिष्ठेरन् ।

[ उदयनीयोदवसानीययोः उद्भागवोद्वशीये सामनी

उदयनीयायां प्रधानयागकाले प्रस्तोता अचोदसा इत्युद्वद्भार्गवं त्रिर्गायेत् । भृगुर्जगती सोमः । अनुबन्ध्यास्थानिकायामामिक्षायां याज्जायाज्जेति स्वारं पयोनिधनम् आग्नीध्रीयेऽवस्थाय तृचे गायेत् । वायुरनुष्टुबिन्द्रः । उदवसानीयायां प्रधानयागकाले पूर्णाहुतौ वा गायन्ति त्वेति उद्वशीयं तृचे गायेत् । विश्वेदेवा अनुष्टुबिन्द्रः ।।

इति रथन्तरपृष्ठोऽग्निष्टोमः ।।

बृहत्पृष्ठोऽग्निष्टोमः

[ रथन्तरपृष्ठस्य भेदकानि बृहत्पृष्ठस्य प्रतिपदाज्यब्रह्मसामानि

अथ बृहत्पृष्ठोऽग्निष्टोमः । तत्र प्रतिपदाज्यानि ब्रह्मसामौष्णिहमित्येतानि रथन्तरपृष्ठाद् भिद्यन्ते । तथा च निदानम्-अथैतानि बृहद्रथन्तरयोर्विभक्तानि स्थानान्यपि इतरेतरस्य तत्र गच्छतोः प्रतिपदाज्यानि ब्रह्मसामौष्णिहमि(नि. सू. ६.४ .१ १)ति बार्हतानि च प्रति- पदादिद्रव्याणि लोककामज्योतिष्टोमादिबृहत्पृष्ठेषु कल्पकारेण दर्शितानि । अथ यदि बृहत्पृष्ठोऽग्रियवती प्रतिपत् बार्हतान्याज्यानि बृहत्पृष्ठं श्यैतं ब्रह्मसाम श्रुध्यमुष्णिहीति ।।

[ प्रतिपत्]

तत्र पवस्व वाचोऽग्रिय इत्यस्याः प्रतिपदो बार्हतत्वं निदाने प्रतिपादितम् । ज्योतिष्टोमोऽग्निष्टोम उपवती प्रतिपदित्येषा रथन्तरपृष्ठेऽग्रिय- वती बृहत्पृष्ठेऽग्रियवद्बार्हतं रूपमुपवती रथन्तरेऽग्रियवती बृहती च भाल्लविनामि(नि ० सू० ३.३.१२)ति ।।

[ आज्यानि

उपास्मै तृचे विहितानि धूर्गानानि पवस्व वाचो अग्रिय इत्यत्र कार्याणि । तृतीयायां षाधास्थाने ता इधा इति निरुक्तम् । अग्निं दूतं मित्रं वयमिन्द्रमिद्गा चतुर्ऋचमिन्द्रे अग्नेत्याज्यानि । बार्हतमेव

49

तद्रूपं निर्द्योतयतीति श्रुतेः । इन्द्रमिद्गा चतुर्ऋचेऽन्त्याया उद्धारः । चतुर्ऋचानामावर्तिष्वन्त्यामुद्धरेदि(ला० श्रौ० ६.४.१०)ति वचनात् । तेषु रथन्तराज्यवत् धूर्गानानि । अनिरुक्तगाने प्रथम आज्ये निहोता- सास्थाने अस्य यज्ञस्येति निरुक्तम् । द्वितीये तु नास्ति विशेषः । तृतीये तु सादास्थाने अनु चतुर्थे गाइभिर्नभोवरेणियास्थाने सुवृत्तिमैरयामहा इति धियास्थाने अवा । बृहत्पिबतु सोम्यम् इति पृष्ठहोमे विशेषः । यत् पृष्ठं स्यात्तदादिश्येति वचनात् । त्वामिद्धीति बृहत्पृष्ठं स्वासु त्वावर्तिनीति वचनात् । स्वयोनीनि सर्वत्राभिरूपतराण्यस्वयोनिभ्य इति च। तस्य भरद्वाज ऋषिः । उद्यन् हिंकार इत्यभिध्यानम् । यस्तेगोष्विति जपश्च । संमीलनाद्युद्गीथ- धर्मस्य गोदानस्य च निवृत्तिः । त्वांकाष्ठा इति स्तोभान्तः प्रतिहारः । एवमुत्तरयोः । षोडशस्तोत्रीयासु नाजाइग्यूषा इति पाठः । उत्तमायां नाजिग्यूषा इति । बृहतः स्तोत्रोत्तमायां ब्राह्मणोक्तानां रोहाणामुत्तमं न कुर्यादित्याचार्याः (नि० सू० २. १०. १७) इत्यादिनिदानवचनात् ।।

[ ब्रह्मसाम]

अभिप्रव इति श्यैतं ब्रह्मसाम । यद् बृहते श्यैतं प्रति- प्रयुञ्जन्ती(तां० ब्रा० ७.१०. ८)ति श्रुतेः । प्रजापतिर्बृहतीन्द्रः । श्यैतं सामोपधावामि । अभिप्रवर्चमुपधावामि । प्रजापतिमृषिमुपधावामि । इत्युपसरणे विशेषः । पौष्कलस्य स्थाने तस्यामेवर्चि श्रुध्यम् । तस्योदात्तगीतित्वेन बार्हतत्वादौष्णिहत्वाच्च । स्वयोनिश्रुध्यमाग्नेय- मिति पवमाने न क्रियते । तस्य ऋषिः प्रजापतिरिति बृहत्पृष्ठे विशेषः । रथन्तरपृष्ठवत् सर्वम् । ब्राह्मणस्य प्रथमे ज्योतिष्टोमप्रयोगे रथन्तरमेव पृष्ठम् । द्वितीये बृहत् । तृतीये रथन्तर० मित्येवमजामित्वाय बृहद्रथन्तरयोर्व्यत्यास इत्याहुः । आर्षेयकल्पे न तु त्रयो वर्णकल्पा इत्यादिना ब्राह्मणस्य सर्वदा रथन्तरमेव पृष्ठम् ।
क्षत्रियस्य तु बृहदेवेत्युक्तम् ।।
इति बृहत्पृष्ठोऽग्निष्टोमः ।।

साग्निचित्यस्य विशेषः

[ चितिसामानि]

अथ साग्निचित्यस्य विशेषः । प्रथमोपसदानन्तरसुब्रह्मण्यान्ते महाग्निं चिन्वन्ति । तस्मिंश्चीयमाने प्रस्तोता पुच्छस्य पश्चिमेन गत्वा दक्षिणस्य पक्षस्य पश्चात् प्राङ्मुखस्तिष्ठेत् । यत्रोपधानं कुर्वन्ति ततः पश्चात् वा । पुष्करपलाश उपधीयमाने अध्वर्युप्रेषितो यजमानं सत्यमिति व्याहृतिसाम त्रिर्गायेत् । हिरण्मये पुरुष उपधीयमाने पुरुषा इति प्रथमायां चितौ स्वयमातृण्णायां भूरिति मध्यमायां भुवरिति उत्तमायां सुवरिति व्याहृतिसामानि । प्रजापतिस्तेषामृषिः । ऋगभावाच्छन्दो नास्ति । सत्यं पुरुषा अग्निवायुसूर्या इति क्रमेण देवताः । इष्टकाभिरग्निं चिनोतीत्यध्वर्युर्यजमानो वे(आ०श्रौ० १६.२ १.७)ति आपस्तम्बवचनात । यदा यजमानः स्वयं चिनुते तदा पुष्कर० पलाशे कर्तव्ये च्योह मूर्द्धेत्याज्यदोहं त्रिर्यजमानं गापयेत् । हिरण्यये पुरुषे कास्मिन् कयान (आ० गा० २२४) इति पुरुष- व्रतम् । प्रथमायां स्वयमातृण्णायां रथन्तरं तृचे । द्वितीयायां वामदेव्यम् । तृतीयायां बृहत् । नाजाइग्यूषा इत्येवात्र पाठः । बृहतः स्तोत्रोत्तमायामित्यादिना निदाने स्तोत्रशब्देन प्रत्यवरोहस्य विधानात् । रथन्तरादीनि त्रीणि । प्रतिष्ठासि मन्ये वाक्कयानोहुवाइमन्य इति लोकसामानि विकल्प्यन्ते । तेषां त्रिरभ्यासः । मण्डूकविकर्षणान्ते कृतेऽग्नेर्दक्षिणतो गत्वा शिरसि प्रत्यङ्मुखस्तिष्ठन् अग्न आयूंषीति तृचे गायत्रं निरुक्तं गायेत् । अग्न आयूंषि पवसोम् । आसुवोर्जमिषं चानाश्आरेबाधस्वदु १२१२ हुं आ३ । छुनो । अग्निर्ऋषिः । पवमानोम् । पाञ्चजन्यः पुरोहाइता३ः तमीमहे महा १ २ १२ हुं आ३गायो । आ । अन्तेपवस्व स्वपोम् अस्मेवर्चस्सूवीरायां । दधद्रयिं मया १२१२ यि हुं आपोषो आ ३४५ । इति पुष्कलो गायत्र्यग्निः । प्रत्यागम्य दक्षिणे पक्षे उदङ्मुखस्तिष्ठन् रथन्तरं तृचे गायेत् । ततः पश्चात् प्रत्यङ्मुखो वा । पुच्छस्य पश्चिमेन गत्वा उत्तरे पक्षे दक्षिणामुखः पश्चात् प्राङ्मुखो वा बृहत्तृचे गायेत् । प्रत्यावृज्य पुच्छे यज्ञायज्ञीयं तृचे गायेत् यदि संवत्सरो दैक्षः सौत्यो वा । यथा तापश्चितगवामयनादिषु । अन्यत्र वासन्त इत्यृतुष्ठायज्ञायज्ञीयं त्रिः । प्रजापतिर्बृहत्यृतवः । दक्षिणस्य पक्षस्य पश्चाद्वामदेव्यं तृचे । प्रजापतर्हृदयमुत्तरस्य । ऋषिदेवते प्रजापतिः । आक्रमणेष्टकासमीपे श्यैतं तृचे गायेत् । रथचक्रचिदादिषु पक्षपुच्छाद्यभावे तत्प्रदेशे गानमिति विशेषः । समानमग्निष्टोमेन ।।

सोऽयं रथन्तरपृष्ठो बृहत्पृष्ठश्चाग्निष्टोमः सर्वक्रतूनां प्रकृतिर्ज्योतिष्टोमो वाच्यः । तथा च सूत्रे तथाविधस्याग्निष्टोमस्य तन्त्र- मनुक्रम्योक्तम् -एतं परिक्रमं सर्वक्रतुषु विद्यादेष ज्योति(ला०श्रौ० २. १२. १८ )रिति । ब्राह्मणे च किं ज्योतिष्टोमस्य ज्योतिष्टोमत्व- मित्याहुरित्युपक्षिप्य विराजं सस्तुतः सपद्यत(तां० ब्रा०. ६.३.६) इत्यादिना तस्यैवं ज्योतिष्टोमत्वं दर्शितम् । उक्थ्यातिरात्रयोस्तु ज्योतिष्टोमत्वं तयोर्ज्योतिः शब्दवाच्यस्य अग्निष्टोमस्यान्तर्भावात् गौणम् । ततश्च यत् कार्यं ज्योतिष्टोमशब्दोपादानेन विधीयते यथा ज्योतिषां विश्वरूपाणां च गानम् । तानि नान्यत्र विश्वरूपाभ्यो चान्यत्र विश्वरूपा ज्योतिष्टोमादि (ला० श्रौ० १.८.१५.१६)ति। यथा व धूर्गानं गीतिविकारो गायत्रस्य धुरं स्तोत्रीयानुरूपयो

53

ज्योतिष्टोमस्यैवाज्येषु च नान्यत्रेति । तद्यथोक्ते सर्वक्रतुप्रकृतिभूते ज्योतिष्टोम एव भवति । नोक्थ्यादिषु विकृतिष्विति सिद्धम् ।।

[ उक्थ्यसंस्थो ज्योतिष्टोम)
अथोक्थ्यः । देवा वा अग्निष्टोममभिजित्योक्थानि नाशक्नुवन्नभिजेतुमि(तां०ब्रा० ८.८.१) इत्यादिना विहितः । तस्य सर्वमग्निष्टोमवत् । धूर्ज्योतिर्विश्वरूपाणां निवृत्तिः । अहिंकारविसृष्टहिंकाराः सर्वत्र प्रवर्तन्त एव । अहिंकृता प्रथमा रेतस्या हिंकृताः पराः । रथोत्तमवर्णोत्तमा विसृष्टहिंकारेति रेतस्या रथन्तरवर्णयोर्विहितयोरेतं परिक्रममित्यतिदेशात् । तथा च द्वादशाक्षराण्यभिष्टोभेदनुष्टुभमित्यभिषेचनीये रथन्तरवर्णाया गुणविकारमुपपद्यते । अग्निष्टोमचमसभक्षणानन्तर एह्यूष्विति साकमश्वं वयमु त्वेति सौभरमधाहीन्द्रेति नार्मेधमित्येतान्युक्थस्तोत्राणि कुर्युः । एकविंशस्तोमः । ऋग्जपादि सर्वमाज्यवत् । कुशाविधानं चमसभक्षणं च यज्ञायज्ञीयवत् । प्रथमं साकमश्वस्य परस्ताज्जपादि चमसभक्षणान्तम् । साकमश्वो गायत्र्यग्निः । ततः सौभरस्य सौभरिः ककुबिन्द्रः । ततो नार्मेधस्य नृमेधाङ्गिरस ऋषिः । ककुप् प्रथमा । उष्णिक् द्वितीया । उपरिष्टाज्ज्योतिरनुष्टुप् तृतीया । इन्द्रो देवता । सर्वेषां पादेन प्रस्तावः । नार्मेधचमसभक्षणान्ते स्तोमविमोचनादि । उक्थविषयाणि तु विकल्पान्तराणि क्षुद्रकल्पे वक्ष्यन्ते ।।
इत्युक्थसंस्थो ज्योतिष्टोमः ।।

अतिरात्रसंस्थो ज्योतिष्टोमः

[ सषोडशिकः पक्षः चमसभक्षणादि षोडशिग्रहग्रहणान्तम्]

अथातिरात्रसंस्थो ज्योतिष्टोमो देवा वा उक्थान्यभिजित्ये(तां० ब्रा० ९.१. १)त्यनुवाकद्वयेन विहितः । स चाषोडशिकः सषोडशिको वेति पक्षद्वयम् । तथा च कल्पःक्लृप्तो ज्योतिष्ष्टोमोऽतिरात्रोऽषोडशिको यदि वा षोडशिमान् ।। (आ०क० ७.१. १) इति । तत्र षोडशिकपक्षे यथोक्तं नार्मेधचमसभक्षणान्तं कृत्वा स्तोमविमोचनाद्यकृत्वा प्रशास्त्रोक्ताः पूर्ववन्निष्क्रम्य पातमग्नय इति समस्तोपस्थानं कुर्यु । एवमेव निष्क्रम्य पृथक् स्तोत्रेभ्यः समस्तेनोपतिष्ठेरन् यान्यूर्ध्वमुक्थेभ्य इति वचनात् । तत ऋतस्य द्वारौ स्थ इति यजमानोपवहवान्तं कुर्युः । द्वारबाहुसंमार्जनप्रभृत्येतत् सर्वं कुर्युः । यदा धिष्ण्यानुपतिष्ठेरन् (ला० श्रौ० २.३ .१६) इति वचनात् । अथोद्गाता सदसः पूर्वया द्वारा होतृमैत्रावरुणधिष्ण्यावन्तरेण निष्क्रम्याग्निध्रीयं दक्षिणेन गत्वा पूर्वया द्वारा प्रविश्य यस्मादन्य इति षोडशीत्यन्तेन षोडशिग्रहमवे- क्ष्य यथोक्तं प्रत्यावृज्य स्वासन उपविशेत् । विसंस्थिते सवन इत्येतद्धि सवनसंस्थाव्यतिरिक्तकालोपलक्षणम् । तमुत्तरेण संचारः । सर्वत्र दक्षिणेनोत्तरयोः सवनयोः यदा हविर्धानमाहवनीयं च पृष्ठहोमायेत्यत्र चाग्नीध्रीयस्य दक्षिणोत्तरगमने यावद्व्यवस्थोक्ता तत्र पृष्ठ्याया उत्तरेषां धिष्ण्यानां प्राक् प्रत्यक् च गच्छद्भिर्व्यवायो न कार्य इत्यत्र न तत् कार्यम् । ततोऽत्रापि हविर्धानगमने यथोक्त एव मार्गो न्याय्यः । प्रातःसवनेऽप्येवमेव यजमानोपहवान्ते षोडशिग्रहमवेक्षेत । उत्तरयोरपि सवनयोर्यदि षोडशिनं गृह्णीयुस्तदाप्येव मेव । प्रातःसवने वा प्रतिसवनं वा धाराग्रहाणामन्ते षोडशिनं गृह्णीयादित्यध्वर्युणोक्तम् ।


[ षोडशिसाम

षोडशिस्तवनकाले अश्वः कृष्णः पूर्वस्यां सदसो द्वारि प्रत्यङ्मुखस्तिष्ठेत् । इन्द्र जुषस्व (द०रा० ५.२ ) इति गौरीवितं षोडशिसामैकविंशम् । एकविंशे हि दाशरात्रे चतुर्थेऽहनि उत्पन्नं षोडशिसाम । यथाह षोडशिनं प्रकृत्य निदानकारः- चतुर्थोत्पादं वयं तत्र चास्य ब्राह्मणमधीमहे(नि० सू० २१३३) इति । ततश्च ज्योतिष्टोमप्रकरणे वैकल्पिकतया अनाम्नातमपि चतुर्थे नित्यतयाम्नाय- मानं षोडशिसाम सस्तोत्रीयं इहागमयितव्यमिति सिद्धम् । तस्य ऋग्जपानन्तरमुपाकृतेन हिरण्येन स्तोमयोगः । गौरीवितः शाक्त्य ऋषिः । स्वराडनुष्टुप् छन्दः । चतुस्त्रिंशदक्षरत्वात्। यथाह भगवान् पिङ्गलनागः- द्वाभ्यां विराट्स्वराजौ (?) इति न्यूनाधिकाभ्याम् इत्यधिकृतम् । निदानकारश्च- द्वाविंशत्यक्षरप्रभृतयश्चतुरुत्तरास्त्रयः सप्तवर्गा द्विशताक्षरासां परार्ध्या । तासां नामधेयानि-राट्-सम्राट् विराट् स्वराट् स्ववशिनी परमेष्ठान्तस्थेति प्रथमस्य (नि०सू० १.५) ।। इन्द्रो देवता । इन्द्रश्च बृहच्चेति ब्राह्मणम् । अधो गच्छत्यादित्ये मन्द्रस्वरेण प्रथमं पर्यायं गायेयुः । अर्धास्तमिते लोहितवर्णे मध्यमेन स्वरेण द्वितीयम् । अस्तमिते तृतीयमुच्चैः । दैवात् मानुषाद्वा हेतोः कालान्तरापत्तौ सर्वमेवेदं स्तोत्रमहनि च्छन्नं गेयम् । रात्रावुच्चैः । पादेन प्रस्तावः । चकानश्चा इति प्रतिहारः । एवमुत्तरयोः स्वां स्वां भक्तिं ब्रुवन्तः स्वर्णं धारयेयुः । निधनसमये उद्गाता धारयेत् । उत्तमां प्रस्तुत्य त्यजेत् । अश्वहिरण्ये उद्गाता प्रति- गृह्णीयात् । ऐन्द्र सह इति भक्षयामीत्यन्तेन चमसभक्षणम् । ततः पूर्ववन्निष्क्रम्य समस्तोपस्थानादि यजमानोपहवान्तं कृत्वा रात्रिपर्यायैः स्तुवीरन् ।।

[ अषोडशिकःपक्षः-प्रथमःपर्यायः

अषोडशिकत्वपक्षे नार्मेधचमसभक्षणानन्तरं निष्क्रमणादि यजमानोपहवान्तं कृत्वा रात्रिपर्यायैः स्तवनम् । तत्र पान्तमिति वैतहव्यम् । प्रव इन्द्राय मादनम् इति शाक्त्यम् । वयमुत्वेति काण्वम् । इन्द्राय मद्वन इति श्रौतकक्षम् । इति प्रथमः पर्यायः ।।

57

[ मध्यमः पर्यायः]
अयं त इन्द्रेति दैवोदासम् और्ध्वसद्मनं वा । आ तू न इन्द्र क्षुमन्तमित्याकूपारम् । अभि त्वा वृषभा सुत इत्यार्षभम् । इदं वसो सुतमन्ध इति गारम् । इति मध्यमः ।।

[ उत्तमः पर्यायः

इदं ह्यन्वोजस इति माधुच्छन्दसम् । आ त्वेता निषीदतेति दैवातिथम् । योगे योगे इति सौमेधम् । इन्द्र सुतेष्विति कौत्सम् । इत्युत्तमः ।।

[ पर्यायसाम्नामृषिच्छन्दोदैवतानि]

तेषां वीतहव्यः शाक्त्यः कण्वः श्रुतकक्षः दिवोदासः ऊर्ध्वसद्मा आकूपाराङ्गिरस ऋषभः गरः मधुच्छन्दा दैवातिथिः सुमेधाः कुत्स इति क्रमादृषयः । प्रथमस्य साम्नः प्रथमानुष्टुबुत्तरे गायत्र्यौ संपत्त्यागानकालेऽनुष्टुभौ । अन्येषां तु सर्वा गायत्र्यः संपत्त्यानुष्टुभः । सर्वेषामिन्द्रो देवता ।।

[ पञ्चदशस्तोमादि हारियोजनभक्षणान्तम्]

पञ्चदशस्तोमः । पञ्चपञ्चिनी विष्टुतिः । प्रतिस्तोत्रमृग्जपादिचमसभक्षणान्तम् । नाप्यायनम् । इन्दविन्द्रपीतस्येत्यनुष्टुप्छंदस इति भक्षयामीत्यन्तेन भक्षणम् । श्रौतकक्षार्षभयोर्वान्तः प्रस्तावः । दैवोदासस्य षोडशाक्षरः । इतरेषां पादः । प्रथमेन पर्यायेण स्तुत्वा निष्क्रमणादि यजमानोपहवान्तं कुर्युः । एवं मध्यमेनोत्तमेन च । पृथक् स्तोत्रेभ्यः समत्तेनोपतिष्ठेरन् । यान्यूर्ध्वमुक्थेभ्यः पर्यायेभ्यस्तु रात्रेरि(ला० श्रौ० २. ७. ४-५)ति वचनात् । ततः एनाप्रत्यू इमा उवामिति प्रतितृचं हिंकृत्य त्रिवृता रथंतरेण संधिस्तोत्रं कुर्युः । रथंतरस्य ऋषिच्छन्दसी उक्ते
अग्निरुषाश्विनाविति प्रतितृचानां क्रमेण देवताः । संधेरनावृत्तिस्तोत्राङ्गत्वेऽप्यावृत्तिः स्तोत्राङ्गत्वात् । कुशाविधानम् । तथा च निदानम्- शिरसि कुशानवधीयेरन्नित्येके पराक्त्वादावृत्त्यङ्गभावात्तु विधीयेरन्नेतेन संधिरुक्त ( नि० सू० १. १० .२१-२३) इति । तिसृभ्यो हिंकरोति । स पराचीभिरिति परिवर्तिनी विष्टुतिः । द्वितीयां त्रिवृतः पथ्यामेके विष्टावा ह्याद्या संहारशिरःसंधिसंतनिषु चानुपपन्नेति वचनात् । तत्रैकां कुशामुदग्रां निधाय ततः पश्चात् प्रागग्रां ततः पश्चात् उदगग्रां निदध्यादित्येकः पर्यायः । तथोत्तरौ । ततः स्तुतस्य स्तुतमसीत्यादि ऋग्जपान्तम् । आश्विनशस्त्रान्ते
भक्षः । आहृते श्येन इत्यवेक्ष्य इष्टयजुष इति भक्षयाम्यन्तेन भक्षयेयुः । स्तोमविमोचनादि पूर्ववत् । शस्तोक्थस्य तिरोअहन्यस्य योऽश्वसनिरिति हारियोजनभक्षणे विशेष इति ।।

[ ज्योतिष्टोमस्य संस्थाविकल्पाः

एवं ज्योतिष्टोमस्य तिस्रः संस्था उक्ताः । तत्र सूत्रम् ः स्वतन्त्रस्य ज्योतिष्टोमस्य संस्थाविकल्पा । आग्निष्टोम्यमुक्थ्यताति- रात्रमि(ला० श्रौ० ८ १. १७)ति । स्वतन्त्रस्येति क्रत्वन्तराङ्गभूतस्य नित्यतया काम्यतया वा प्रयोज्यस्येत्यर्थः । तिसॄणामपि संस्थानां मन्त्रभेदेन प्रथमत्वं सर्वाभिप्रायं च उपपादितं निदाने-

59

अथ का प्रथमा संस्था (नि० सू० ३.१.१) इत्यादिखण्डद्वयेन । अन्ये तु ज्योतिष्टोमस्य सप्त संस्था अनुक्रामन्ति । अग्निष्टोमोऽत्यग्नि- ष्टोमः उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति । तत्र अग्निष्टोमचमसभक्षणानन्तरं यदा विधाय षोडशिस्तोत्रं ज्योतिष्टोमः समाप्यते सोऽत्यग्निष्टोम इत्युक्तः । तदा क्षत्राधिकारः । नित्यं चास्य बृहत्पृष्ठं तत् क्षत्रियो यतः श्रूयते हि षोडशिनं प्रकृत्य तैत्तिरीयकम्-अत्यप्निष्टोमो राजन्यस्य गृह्णीयाद् इति । षड्विंश- ब्राह्मणं च- ब्रह्म वै रथन्तरम् । क्षत्रं बृहत् (ष० विं० ब्रा० ४.२.३) इति । बृहत्पृष्ठे च विशेषः पूर्वमेव दर्शितः ।।

अग्निष्टोमात् परं यत्तु षोडशिग्रहवीक्षणम् ।

तन्निष्क्रमाद्यकृत्वैव कार्यमन्यत्र पूर्ववत् ।।

यश्चोक्तः कालनियमः सूर्याधोगमनादिकः ।

सोऽपेक्षणीयो नैवास्य न संधिस्तोत्रता यतः ।।

उक्तं निदाने संधित्वमुक्थ्यानन्तरजस्य हि ।

उदयसंधिरसावस्तमयसंधिरयं त्विति ।।

अहस्तोत्रतया छन्नं तदनेन भवेत्स्तुतिः ।

उच्चैस्तु रात्रिमापन्ना यदि दैवादिहेतुना ।।

धूर्ज्योतिर्विश्वरूपा न शेषं प्रकृतिवन्मतम् ।

उक्थानन्तरसंभूतषोडशिस्तोत्रसंस्थितिः ।।

ज्योतिष्टोमो निदानोक्तो ज्ञेयः षोडशिसंज्ञया । उक्तं हि निदाने ज्योतिष्टोमं षोडशिनं चाधिकृत्य संस्थामप्यस्यैतां विद्यमानां मन्य इति गौतमः । एवं च रहस्यब्राह्मणे दर्शयत्यप्यनेन षोडशिसंस्थेन यजेते(नि० सू० २ .१२. ९-१ ०)ति ।।

अथ वाजपेयः अप्तोर्यामश्चेति ज्योतिषः संस्थे उपरिक्रत्वन्तरयोस्तयोः प्रसङ्गे प्रदर्शयिष्यामः ।।

[ ज्योतिष्टोमसंस्थानां नित्यत्वम्]
सर्वे ज्योतिष्टोमसंस्था नित्या इति ब्रुवते । चत्वारिंशत् संस्कारमध्यपाठेन गौतमीयेन तत्राग्निष्टोमेन विकारात् ब्राह्मणस्य सप्तैता ज्योतिःसंस्था नित्या इत्युक्तिर्नोपपन्ना । यच्चात्र सोमसंस्था इति वचने सोमशब्दोऽयं सुत्यासंयुक्तस्य क्रतुमात्रस्याभिधायको युक्तः । अत एव सूत्रकारः सर्वासां सोमयागसंस्थानां ब्रह्मत्व- मुपदिदिक्षुर्वदति यथा गौतमेनोक्तम् । तस्मादेताः संस्थायाः काश्चन सप्तसौमिक्यो नित्यतया कार्या इति निश्चिनुमो गौतमीय- वचनार्थम् । एवं च वाजपेयं क्रत्वन्तरभूतमधिकृत्य आपस्तम्बेनोक्तम्- नित्यवदेके समामनन्ति (आप० श्रौ० १८. १. २) इति । एकस्य तूभयत्वे संयोग पृथक्त्वम् इति च । जैमिनिनोक्तं- नित्यत्वं काम्यत्वं चाविरुद्धमेतासामिति ।।

61

इत्थं वरदराजेन वामनार्यस्य सूनुना ।
ज्योतिष्टोमस्य यत्तन्त्रमौद्गात्रं तत्प्रदर्शितम् ।।

सत्रात्मा व्यूढो द्वादशाहः

अथ व्यूढः समूढश्च द्वादशाहो द्विधा मतः ।

सत्राहीनत्वभेदेन प्रत्येकं द्विविधः स च ।।

विहितः षड्भिरध्यायैर्ब्राह्मणे दशमादिभिः ।

व्यूढः सत्रात्मकस्तावद् द्वादशाहोऽत्र कथ्यते ।।

तस्याभितोऽतिरात्रौ षोडशिमन्तौ तु कल्पकारोक्त्या । दशरात्रेऽग्निष्टोमावभितोऽष्टौ मध्य उक्थ्याश्च ।। तत्र मानसं च । षोडशिमच्चतुर्थमहः । दशममविवाक्यम् । पूर्वः षडहः पृष्ठ्यश्छन्दोमः । उत्तरश्चतुरहः ।

[ द्वादशाषहिकस्य नवरात्रस्य छन्दसां व्यूहः]

तत्र व्यूढशब्दस्य प्रवृत्तिनिमित्तं ब्राह्मणे दर्शितम् । छन्दांसि वा अन्योन्यस्य लोकमभ्यध्यायन् । गायत्री त्रिष्टुभा । त्रिष्टुप् जगत्याः । जगती गायत्र्याः । तानि व्यौहन् यथालोकम् (ता० ब्रा० १०.५.१३) इति । अस्यार्थः । छन्दांसि गायत्र्यादीनि परस्परस्य स्थलमकामयन्त ।

62

किं छन्दः कस्य स्थानम् अकामयतेत्यपेक्षायामुक्तम्-गायत्री त्रिष्टुभः । त्रिष्टुप् जगत्या । जगती गायात्र्याः । इति । अत्र अन्योन्यस्येत्युपक्रमात् सामर्थ्यात् त्रिष्टुप् गायत्र्याः स्थानमकामयत । जगती त्रिष्टुभो गायत्री जगत्या इत्यपि कथितं भवति । तान्य- भिध्यातपरस्परलोकानि छन्दांसि यथालोकं व्यौहन् । यथाभिध्याते स्थाने विभागेनातिष्ठन्निति । एवं स्थितिर्दशाहस्य संभवतीति । प्रथमे त्र्यहे स्वस्थान एव गायत्र्यादीनां स्थितिः । द्वितीये त्र्यहे गायत्री त्रिष्टुभः । त्रिष्टुप् जगत्या । जगती गायत्र्या इति व्यूहः । तृतीये त्र्यहे त्रिष्टुप् गायत्र्याः । जगती त्रिष्टुभः । गायत्री जगत्या इति व्यूहः ।. तत्र यद्यपि गायत्र्याः सर्वमेव प्रातःसवन स्थानं तथाप्याज्यबहिष्पवमानप्रतिपत्स्वेव छन्दोऽन्तरनिवेश इत्यृक्समाम्नायात् ब्राह्मणसमाम्नायाच्चावसीयते । त्रिष्टुभ स्थानं माध्यदिनसवनान्त्यतृच इति । तत्र छन्दोऽन्तरनिवेशः । एवं जगतीस्थानमप्यार्भवान्त्यतृचम् । सोऽयं नवरात्रस्य व्यूहः । दशमे त्वहनि छन्दोमव्यूहो नास्ति । तस्य पूर्वयोस्त्र्यहयोः समाप्तत्वात् । सामव्यूहस्तु तत्र क्रियते । तथा च निदानम्- समाप्ते छन्दोव्यूहे सामव्यूहं कुरुत इति गौतमोऽकृतकारार्थ ( निः सू० ४.९.२०) इति । स च सामव्यूहस्तत्रैव दर्शयिष्यते ।।

[ प्रायणीयोऽतिरात्रो ज्योतिष्टोमः]

तथा चास्य द्वादशाहस्य प्रयोगः । सप्तदशावराश्चतुर्विंशति

63

परमाः । सति संभवे सर्व इष्टप्रथमयज्ञाः । पृथक् स्तोत्रोपाकरणानीष्ट्वा समारोप्याग्नीन् सत्रमासीरन् । असंभवे गृहपतिरेवेष्ट- प्रथमयज्ञः । इतरे त्वनिष्टप्रथमयज्ञाः । आहिताग्नयोऽनाहिताग्नयो वा सत्राय दीक्षिष्यमाणा (ला० श्रौ० ३.३.९) इत्यादिना निर्मथ्येनाहिताग्नि(ला० श्रौ० ३.४. ६)मित्यन्तेन सत्रिणां धर्मा उक्ताः । तस्य द्वादश दीक्षा द्वादशोपसदः । दीक्षाक्रयप्रसवोत्थानानि सर्वसत्रेषु पूर्वपक्ष उपपादयेयुः (ला० श्रौ० १०. १. १) इत्यारभ्य तेषां द्वादश दीक्षास्तथोपसदोऽनादेशे (ला०श्रौ० १०. १.५) इत्युक्तत्वात् । द्वादश दीक्षा द्वादशोपसदो द्वादशः प्रसुत तां० ब्रा० १०.३.९) इति श्रुतेश्च । सुब्रह्मण्यायां प्रथमोपसद्दिवसे द्वादशाहे सुत्यामा- गच्छेति सुत्यादेशः । द्वितीयादिष्वेकादशाहे दशाहे नवाहेऽष्टाहे सप्ताहे षडहे पञ्चाहे चतुरहे त्र्यहे द्व्यहे श्वः सुत्यामिति । द्वादशादयः शब्दा अन्तोदात्ता । दीक्षानुपूर्व्येण दीक्षितानां सत्रेषु नामग्राहः कर्तव्यः । सुत्यासु यज्ञसारथिस्थाने सत्रस्यर्द्धि गेयम् । प्राक् प्रातरनुवाकोपाकरणादाग्नीध्रीयेऽहरहः सत्रे सत्रस्यर्द्धि इति वचनात् लोकद्वारगानं सहोमं सर्वैरपि यजमानैः कार्यम् । प्रातरनुवाकोपक्रमणवेलायाम् अद्य सुत्याप्रवचनीं सुब्रह्मण्यामाह्वयेत् । विश्वरूपा ज्योतिर्गाने न स्युः । द्रोणकलशाध्यूहनमन्त्रे इदमहमिमान् यजमानान् पशुष्वध्यूहामि इत्यूहः कार्यः । यजमानशब्दं सर्वत्र यथार्थं कुर्युरि(ला० श्रौ० १.१०. ६)ति वचनात् । प्रशुक्र इति धारानु-मन्त्रणमन्त्रे यजमानानामृध्या इत्यूहः । अतिरात्रादिषु सर्वेष्वहस्सु बहिष्पवमाने रेतस्यारथन्तरवर्णे कर्तव्ये । न धूर्गानादि । धिष्ण्योप- स्थानात् पूर्वं वपामार्जनकाले इदमाप इत्यादि द्विष्म इत्यन्तेन मार्जनम् । सदः प्रसृप्योपहवकाले सर्वेषां यजमानानां परस्परमुपहवः । चमसभक्षणकाले यजमानचमसमपि भक्षयेयुरुद्गातारः । तेषामपि यजमानत्वात्। उद्गातॄणाम् अग्निर्होतेति याजमानम् । अनुसवनं सवनमुखी- यान् भक्षयित्वा सन्नेषु नाराशंसेषु भोजनम् । माध्यदिनार्भवयोर्हविर्धानगमनं सर्वेषामुद्गात्रादीनाम् । उभयत्र सर्वे सर्वेष्विति वचनात् । माध्यंदिनेन स्तुत्वा सत्रेषु दधि घर्मस्य भक्षयेयुः । समुपहूय दधिक्राव्ण इति । सत्रेषु ऋत्विजामपि यजमानत्वाद्दक्षिणा न सन्ति । तदुक्तम्- स्वामिनो हि सर्वे सत्रेषु । तेषां प्रतिग्रहं न विद्यते (ला० श्रौ० १०.१७.१७) इति । अत्रेयं प्रसर्पकादीनामस्त्येव । स्तोमविमोचनान्तरे यजमानवाचने पुत्रा अनु मा तनुत ज्योतिषेति विशषः । जातेष्वजातेषु च पुत्रा इत्येव सत्रेष्वि(ला० श्रौ० २.११. ५)ति वचनात् । अप्सुषोमान्तानि सर्वाण्यहानि । अप्सुषोमान्तमहः सत्रेषु (ला० श्रौ० २.१२.१४) इति वचनात् । अहर्गणेष्वहराद्यन्तयोराह्वये- दि(ला० श्रौ० १.४. ८)ति वचनात् । अहरन्तेऽपि सुब्रह्मण्या कार्या । श्वःसुत्यामिति सुत्यादेशः । तस्या उत्तरार्धत्वात् । इन्द्राग्निभ्यामिति प्रैषकाले श्वःसुत्याप्रवचनीं सुब्रह्मण्यां केचिदिच्छन्ति । तत्

65

सूत्रकारस्य । नेष्टम् । अहर्गणेष्वहराद्यन्तयोराह्वयेदि(ला० श्रौ० १ . ४. ८)ति सुब्रह्मण्याद्वयस्यैव विधानात् । ऊर्ध्वमतिरात्रादाग्नेय्येका द्वितीये पञ्चदशरात्रे द्वे वे(ला० श्रौ० १. ४.२०-२१ ति लिङ्गाच्च । तत्र धानंजय्यमतेनाहरन्तिक्या अतिरात्रे नाह्वानमाश्रित्यैके इत्युक्तम् । मतान्तरेण त्वाह्वानमाश्रित्य द्वे इति । यदि चातिप्रैषकालेऽपि सुब्रह्मण्या अभिमता स्यात् (तदा) द्वे तिस्रो वेति वाच्यं स्यात् । वसतीवरीपरिहरणकाले तु कर्तव्या । तत्र प्रायणीयोऽतिरात्रो ज्योतिष्टोमः षोडशीमान् पूर्वोक्तः । तस्य पथ्या एव विष्टुतयः । उत्तरस्मिन्नहनि वक्ष्यमाणक्रमेण सर्वा वा । अदशरात्रेषु सत्रेषु पथ्या एवेति गौतमः । सर्ग एवेति धानंजय्य ला० श्रौ० ६.२.३०-३१) इति वचनात् । संधिषामान्ते स्तोमविमोचनादि अप्सुषोमान्तं कार्यम् । तस्यान्ते श्वःसुत्या गौतमस्य । नार्मेधान्ते एके । अद्यसुत्या शांडिल्यस्य । ( ला० श्रौ० १. ४. १३- १५) नात्र नामग्रहणम् । ऊर्ध्वमतिरात्रादग्रहणमि(ला० श्रौ० १ .४. १२) ति वचनात् । आहरन्तिक्या अनाह्वानं धानंजय्यः ।।

[ द्वादशाहिकस्य दशरात्रस्य प्रथमस्याह्नः

अथ दशरात्रस्य प्रथममहः । तत्र सत्रस्यर्द्ध्यादि पूर्ववत् । सुब्रह्मण्यायां नामग्रहणम् । अस्य प्रत्ना ( साम ७५५ )नवर्चं बहिष्पवमानम् । तत्रोपास्मै गायता नर उपोषुजातमप्तुरमिति ऋग्द्वयं प्रतीकेनोपात्तम् । सर्वेषामह्नां ज्योतिष्टोमवत् छन्दोदेवताः । विशेषस्तु तत्र तत्र वक्ष्यते । प्रायणीयोदयनीयातिरात्रव्यतिरिक्तानामह्नां सदसि बहिष्पवमानैः स्तवनम् । अहीनबहिष्पवमानैः सदसि स्तुवीरन् । प्रथमादह्नोऽन्यत्राद्यन्तयोस्तु सत्रेष्वि(ला० श्रौ० २. २ . १-२) ति वचनात् । आद्यन्तयोरिति पञ्चम्याः स्थाने षष्ठी । सत्रेष्वाद्यन्ताभ्यामहोभ्यामन्यत्र बहिष्पवमानैः सदसि स्तुवीरन्नित्यर्थः । प्राक् धिष्ण्यविहरणान्निष्क्रम्य तृणप्रासनप्रभृत्युपरिष्टाज्जपान्तं कुर्युः ।।
अग्न (साम ६६० ) आ नो मित्रा(साम ६६३) आयाही (साम ६६६ ) न्द्राग्नी (साम ६६९) इत्याज्यानि । प्रसोमासो विपश्चित इति गायत्रमेकस्याम् । अभिद्रोणानि बभ्रव इत्याश्वमेकस्याम् । सुता इन्द्राय वायव इति सोमसामैकस्याम् । प्रसोमदेववीतय इति यौधाजयं तिसृषु । प्र तु द्रवेत्यौशनं तिसुषु । इति माध्यंदिनः पवमानः ।।
माध्यंदिनेन स्तुत्वा दधिघर्मभक्षणम् । रथंतरादीनि पृष्ठानि ।।
रथंतरंवामदेव्यंनौधसंकालेयं चेति पृष्ठानि ।
रथन्तरस्य स्तोत्रे बहिर्वेदि पश्चात् प्राञ्चं दक्षिणतो वोदञ्च रथमिति वहेयुः ।।

प्रसोमासो मदच्युत इति गायत्रं प्रथमायाम् । तस्यामेव संहितम् । अया पवस्व देवयुः । पवते हर्यतो हरिरिति जनुषैकर्चयोः सप्ताक्षरे । प्रसुन्वानायान्धस इति प्रथमायां गौरीवित-गौतमे । अभिप्रियाणीति तृचे कावमित्यार्भवः ।।

संभवति स्तोमेऽन्त्यं सर्वत्र तृच इति वचनादेवं तृचैकर्चकरणम् ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

67

अस्याह्नः सर्वाणि स्तोत्राणि त्रिवृन्ति । सत्रेषु दशरात्रे सर्वा विष्टुतीः प्रयुञ्जीत । अभिचरणीयां भस्त्रां चोद्धृत्येति शाण्डिल्यः । कुलायिनीं भस्त्रां चेति शाण्डिल्यायनः । भस्त्रामेवेति धानंजय्यः । पथ्याभिर्होतृषामाणि विदध्यात् । अपथ्याभिरितराणि । समाप्ता सुता एवादितः पुनः प्रयुञ्जीत । तमेतं पुनः प्रयोगं कुर्वन् प्रथमस्याह्नः प्रागाथिकानि सामानि रथन्तर० नौधसकालेययज्ञायज्ञीयानि परिवर्तिन्या विष्टुत्या विदध्यादिति शाण्डिल्यः । सकृत्सर्वाः समाप्य पथ्ययैव तत ऊर्ध्वं विदध्यादिति धानंजय्यः । असमाप्तासु त्वपि होतृषाम पथ्ययैव । तमिमं सकृत्प्रयोगकल्पं कुर्वन् कुलायिनीं चेत् प्रयुञ्जीत प्रथमस्याह्नो द्वितीयं पृष्ठं तया विदध्यात् । अत्र त्रिवृत्स्तोमस्य पञ्च विष्टुतयः । उद्यती कुलायिनी परिवर्तिनीति तिस्रः । अभिचरणीये द्वे इषुसंज्ञे षद्विंशब्राह्मणेऽधीते । उद्यतीपरिवर्तिन्योः पथ्यात्वे विकल्पः । त्रिवृतः पथ्यायां विवदन्त (नि०सू० १. १० १०) इत्यादिनिदानवचनात् । उद्यत्या विष्टावाभावात् । तृचभागस्थाने कुशाविधानम् । एकपर्यायवद्वा । तदुक्तम्-तदभावे तृचभागस्थानेषु पर्यायाणां पर्यायाः स्युः । यथैकैकः पर्यायः ला० श्रौ० ६.५.७-८) इति । एवं च धानंजय्यमते परिवर्तिन्युद्यतीभ्यामिषुद्वयेन चाज्यानि विधाय कुलायिन्या वामदेव्यं परिवर्तिन्यैवेतराणि च विदध्यात् । एवमितरयोरपि मतयोर्द्रष्टव्यम् । अस्याह्नोऽग्निष्टोमसामान्ते स्तोम- विमोचनाद्यप्सुषोमान्तम् वसतीवरीपरिहरणकाले श्वःसुत्याप्रवचनी सुब्रह्मण्यानामवर्जम् ।।

अथ द्वितीयस्याह्नः

सत्रस्यर्ध्यादि सुब्रह्मण्यान्तम् ।।

 पवस्ववाचो (साम ७७५[] ) - पवस्वेन्दो(साम ७७८ )-वृषासोम (साम ७८१ )-वृषाह्यसि (साम ७८४ )-पवमानस्य ते वयम् (साम ७८७)
इति बहिष्पवमानम ।।

अग्निं दूतम् (साम ७९०)-मित्रं वयम् (साम ७९३ ) इन्द्रमिद्गा (साम ७९६) चतुर्ऋचम् । इन्द्रे अग्ना (साम ८०० ) इत्याज्यानि ।।

चतुर्ऋचेऽन्त्याया उद्धारः ।।

वृषा पवस्व धारयेति गायत्रयौक्ताश्वे

पुनानः सोमधारयेत्यैडमायास्यं त्रिणिधनं च ।

वृषा शोण इतीहवद्वासिष्ठमिति माध्यंदिनः पवमानः ।।

बृहच्च वामदेव्यंमाधुच्छन्दसमिति पृष्ठानि ।।

बृहतः स्तोत्रे दुन्दुभिमाहन्युः ।।

यस्ते मदो वरेण्य इति गायत्रहाविष्मते पवस्व - इन्द्रमच्छेति शङ्कु- सुज्ञाने । अयं पूषा रयिर्भग इति गौरीवित - क्रौञ्चे । वृषामतीनाम् (इति यामम् )इत्यार्भवः ।।
शङ्कुसुज्ञानगौरिवीतान्येकर्चानि । आर्भवे चेदेकोऽनुष्टुभि द्विप्रभृतीन् ककुप्प्रभृत्यानन्तर्येणे(ला० श्रौ० ६. ३. २५ २६)ति वचनात् ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

एह्यूष्विति साकमश्वम् । एवाह्यसि वीरयुरिति आमहीयवम् । इन्द्रंविश्वा इत्याष्टादंष्ट्रं पूर्वम् इत्युक्थानि ।।

69

विकृतिषु सर्वत्रोत्तममुक्थ्यं सर्वानुष्टुभम् । ननु प्रकृतिवद्विच्छन्दस्कमित्युक्तम् । प्रागस्याह्नः सर्वाणि स्तोत्राणि पञ्चदशस्तोमानि । पञ्चभ्यो हिंकरोतीत्यारभ्य पञ्चदशस्तोमस्य तिस्रो विष्टुतयोऽधीताः । षड्विंशे चैकाभिचरणीया । उक्थान्ते स्तोम- विमोचनादि सुब्रह्मण्यान्तं पूर्ववत् ।।
इति द्वितीस्याह्नः ।।

तृतीयस्याह्नः

सत्रस्यर्द्ध्यादि ।।

दविद्युतत्या रुचा(साम ६५४ )-एते असृग्रमिन्दवो (साम ८३०) राजामेधाभिरीयते(साम ८३३ ) तं त्वा नृम्णानि (साम ८३६ ) पञ्चर्चम् । इषे पवस्व धारयेति (साम ८४१ ) बहिष्पवमानम् ।।

अग्निना( साम ८४४ ) मित्रं हुवे(साम ८४७) इन्द्रेण (साम ८५०)-ता हुव (साम ८५३ ) इत्याज्यानि ।।

उच्चा ते जातमन्धस इति गायत्रं क्षुल्लकवैष्टम्भं च ।

अभिसोमास आयव इति पौरुमद्गं प्रथमायाम् ।

गौतमं तिसृष्वन्तरिक्षं तिसृष्वाक्षारनिधन(आष्कारणिधनम् )मध्यास्यायां तिस्रो वाच इत्यङ्गिरसांसंक्रोश इति माध्यदिनः पवमानः ।।

बृहत्यां शशकर्णक्लृप्त्या तृचैकर्चकरणम् । यथाह निदानकारः- तृचप्रथमायामेकर्चं कृत्वा तस्मिन्नेव तृचे द्वे तृचस्थे अध्यास्यायामन्ततः एर्कचम् । तां शशकर्णक्लृप्त्येत्याचक्षते नि० सू० ६.३. १२) इति । वैरूपं होतुः पृष्ठम् । तस्य सर्वा बृहत्यः । अभ्राणि संप्लवन्त इति भक्त्युपासनम् । उपवाजयमाना वैरूपेण स्तुवीरन् । उपवाज्यमाना वा यजमानवाचनादनन्तरं वात आवात्विति तृचेन वातमनुमन्त्रयेत । वामदेव्यं मैत्रावरुणसाम । वयं घ त्वा सुतावन्त इति महावैष्टम्भं ब्रह्मसाम । तस्य सतोबृहती छन्दः । वैष्टम्भसामोपधावामि । वयं घत्वर्चमुपधावामि । विष्टम्भमृषिमुपधावामि । सतोबृहतीछन्द उपधावामि । इत्युपसरणे विशेषः ।।

तरणिरित्सिषासतीति रौरवमच्छावकसाम । तिस्रोवाच उदीरतेति गायत्रं पाष्ठौहं च । आसोता परिषिञ्चत सखाय आनिषीदतेति वाचःसाम शौक्तं च । सुतासोमधुमत्तम इति गौरीवितंत्रिणिधनत्वष्ट्रीसाम

पवित्रं त इत्यरिष्टमित्यार्भवः ।।

वाचः साम शौक्तं चैकर्चम् । यज्ञायज्ञीयमग्निष्टोमसाम । प्रमंहिष्ठीयं हारिवर्णं तैरश्चमित्युक्थानि ।।

प्रमंहिष्ठीयस्य ककुप् । हारिवर्णस्योष्णिक् । सर्वाणि स्तोत्राणि सप्तदशानि । भस्त्रया विनाभिचरणीयया - सह सप्तदशस्य सप्त विष्टुतयः । एष एव व्यूहः सप्तैकमध्या इति ब्रह्मायतनीया । तद्यथा-पञ्चभ्यो हिंकरोति । स तिसृभिः स एकया । पञ्चभ्यो हिंकरोति । स एकया । स तिसृभिः । स एकया । सप्तभ्यो हिंकरोति । स तिसृभिः । स एकया स तिसृभिः स तिसृभिः तां- ब्रा० २.७. १) इति ।। एष एव व्यूढः उभयः सप्तैकमध्या इति निर्मध्या । तद्यथा-सप्तभ्यो हिंकरोति । स तिसृभिः । स तिसृभिः । स एकया । तिसृभ्यो हिंकरोति । स पराचीभिः । सप्तभ्यो हिकरोति । स तिसृभिः । स एकया । स तिसृभिरि(तां० ब्रा० २. ९.१ )ति ।। एतयैवाभिचरंस्तुवीतेत्यभिचरणीया । तिसृभ्यो हिंकरोति । स पराचीभिः । पञ्चभ्यो हिंकरोति । स एकया । स

71

तिसृभिः । स तिसृभिः । स तिसृभिरि(तां० ब्रा० २. १२. १) ति ।। ब्राह्मणेनैवेतरा विज्ञाताः । उक्थान्ते स्तोमविमोचनादि अप्सुषोमान्तम् । सुब्रह्मण्या च ।।

इति तृतीयस्याह्नः । ।

अथ चतुर्थस्याह्नः

सत्रस्यर्द्ध्यादि ।।

प्रत आश्विनीः(साम ८८६) - पवमानो अजीजनत् (साम ८८९)- प्रयद्गा - षडृचम्(साम ८९२ ) ।

आशुः(साम ८९८ ) - षडृचम् । हिन्वन्तीति( साम ९०४ ) बहिष्पवमानम् ।।

प्रत आश्विनीरिति तृचस्य जगती छन्दः । तत्र गायत्रस्यार्चिकगाने विशेष उक्तः । ज्यायसि छन्दसि प्रथमायामावृत्त्यावपेदुत्तमं पदं शिष्ट्वे- (ला० श्रौ० ७.१. १) ति । तद्यथा-प्रत आश्विनी पवमान धेनवोम् । दाइव्या जसृग्रन्पयसाधरीमणि । प्रात ररिक्षात्स्थाविरीस्ते असृक्षता । ये त्वामृजन्त्यृषिषाणवा । हुंवा । धासो । आ । इति ।

एवमन्यत्राप्यूहनीयम् ।

जनस्या - अयंवाम् ( साम ९१० ) - इन्द्रोदधी(साम ९१३ ) - इयंवामस्ये( साम ९१६ )त्याज्यानि ।।

प्रथमस्याज्यस्य जगती छन्दः ।

पवस्व दक्षसाधन इति गायत्रं चाथर्वणंनिधनकामम्

तवाहं सोमरारणेत्याष्टादंष्ट्रं चाभीशवंस्वःपृष्ठं च ।

पुनानो अक्रमीदभीति सत्रासाहीयमिति माध्यंदिनः पवमानः ।।

सत्रासाहीयस्य गायत्री छन्दः । महावैराजं पृष्ठम् । तस्य विराट् छन्दः । वसन्तो हिंकार इति भक्त्युपासनम् । वैराजस्य स्तोत्र उपाकृत इत्यादिना पृष्ठधर्म उक्तः । ततः पुनरूर्जेत्यनुमन्त्रणान्ते कृते अग्निमाहवनीये प्रहरन्ति । तत उद्गाता आज्येनाभिजुहुयात् । प्रेद्धो अग्न इति विराजा स्वाहान्तया स्वाहाकारेणोत्तरामाहुतिं जुहुयात् । पृष्ठेन स्तुत्वा चमसेभ्यः पूर्वं त्रिष्टुप्छन्दसातिग्राह्यान् भक्षयेयुः । पृष्ठषडहादन्यत्र चैतस्मिन् कालेऽतिग्राह्यान् भक्षयेयुः । यानाहरेयुः । वामदेव्यं मैत्रावरुणसाम । विश्वा पृतना इति त्रैशोकं ब्रह्मसाम । तस्य प्रथमातिजगती । बृहत्यावुत्तरे । त्रैशोकं सामोपधावामि । विश्वा पृतना ऋचमुपधावामि । त्रिशोकमृषिमुपधावामि । बृहत्युत्तरामतिजगतीं छन्द उपधावामि । एकविंशस्तोममुपधावामि । इत्युपसरणविशेषः । एवमन्यत्रापि ब्रह्मसाम्न्युपसरणप्रकार ऊह्यः ।।

यो राजेति पृश्न्यच्छावाकसाम । परि प्रिया दिवः कविरिति गायत्रं चौर्णायवं च । त्वंह्यङ्ग दैव्यः सोमः पुनान
ऊर्मिणेति बृहत्कम् - आतीषादीये । पुरोजिती वो अन्धस इति नानद - आन्धीगवे । सोमः पवते जनितामतीनामिति वात्सप्रमित्यार्भवः ।।
वात्सप्रस्य त्रिष्टुप् छन्दः ।।

यज्ञयज्ञीयमग्निष्टोमसाम । अग्निं वोवृधन्तामिति सैन्धुक्षितम् । वयमुत्वामपूर्व्येति सौभरम् । इममिन्द्र सुतं पिबेति वसिष्ठस्यप्रियम् । इत्युक्थानि ।।

इन्द्रजुषस्वेति गौरीवितं षोडशिसाम । ऐन्द्रं सह इति ग्रहस्यानुष्टुप् छन्दसा चमसस्य सर्वाणि स्तोत्राणि एकविंशतिः । एकविंशस्याभिचरणीयया सह पञ्च विष्टुतमः । षोडश्यन्ते स्तोमविमोचनादि ।।

इति चतुर्थस्याह्नः ।।

73

पञ्चमस्याह्नः
गोवित्पवस्व(साम ९५५) - पवमानस्यविश्ववित् (साम ९५८) - प्रसोमासो अधन्विषुरिति(साम ९६१) सप्तर्चम् । प्रकविः (साम ९६८) सप्तर्चम् । यवंयवं (साम ९७५) चतुर्ऋचम् । यास्त इति(साम ९७९) बहिष्पवमानम् । ।
आद्यस्य तृचस्य जगती छन्दः ।।

तवश्रि-पुरूरुणा-उत्तिष्ठन्-इन्द्राग्नी युवाम्-इत्याज्यानि ।।

प्रथमस्याज्यस्य जगती छन्दः ।।

अर्षा सोम द्युमत्तम इति गायत्रं च यण्वंशाकलं वार्शं च । सोम उष्वाणः सोतृभिरिति मानवं चानूपंवाम्रं चाग्नेस्त्रिणिधनं च । यत्सोम चित्रमुक्थ्यमिति गायत्रीषु शैशवमन्त्यमिति माध्यंदिनः पवमानः ।।

महानाम्न्यः पृष्ठम् ।।

महानाम्न्यः पिबतु सोम्यं मध्वायुर्दधत्यो यज्ञपतावविहृतमिति पृष्ठहोम मन्त्रे विशेषः । तासां शक्वरी छन्दः । पृथिवी हिंकार इति भक्त्युपासनम् । अपः सावका उपनिधायेत्यादिना अभिचरन्नित्यन्तेन पृष्ठधर्म उक्तः । प्रतिस्तोत्रीयम् आद्य एव प्रस्तावे कुशाविधानम् । आद्येऽनेकप्रस्तावेष्वि( ला ० श्रौ० २ . ६. ५)ति वचनात् । ओंकारेणादानं च । तत्रैव न प्रतिप्रस्तावम् । ते खल्विमे बहवः प्रस्तावाः । कथमोंकार इत्युपक्रम्य प्रथम एव प्रस्ताव इत्यपरिमि- त्यादिना (नि ० सू ० ४. १) निदानेन तथा सिद्धान्तोपपादनात् । शक्वरीभिः स्तुत्वान्ते सकृत्पुरीषपदैः स्तवनम् । अतिग्राह्यभक्षणं पूर्ववत् ।। वामदेव्यं मैत्रावरुणसाम । इन्द्रो मदायेति स्वादोरित्थेति च पङ्क्तिषु बार्हद्गिरम् - रायोवाजीये ब्रह्मसामाच्छावकसामनी । राजन्यस्य तु इन्द्रो मदायेति पार्थुरश्मं ब्रह्मसाम । वैश्यस्य तु स्वादोरित्थेति रायोवाजीयं ब्रह्मसाम । इन्द्रो मदायेति बार्हद्गिरमच्छावकसामेति विशेषः । तथा च निदानम्-अथ खल्वाह पार्थुरश्म राजन्याय ब्रह्मसाम कुर्या(नि० सू० ४. ३)दित्यदि ।।

असाव्यंशुर्मदायेति गायत्रं च संतनि चाभिद्युम्नं बृहद्यशः प्राणा शिशुर्महीनामिति च्यावन - क्रोशे । पवस्व वाजसातय इति गौरीवितंऋषभश्च शाक्वरः पार्थं चाष्टेडः पदस्तोभः । इन्दुर्वाजीति त्रिष्टुप्सु दाशस्पत्यम् इत्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

आ ते अग्न इधीमहीति संजयम् । इन्द्राय सामगायतेति सौमित्रम् । असावि सोम इन्द्र त इति महावैश्वामित्रम्

इत्युक्थानि ।।

संजयस्य पङ्क्तिश्छन्दः । सौमित्रस्य उष्णिक् । महावैश्वामित्रस्यानुष्टुप् । सर्वाणि स्तोत्राणि त्रिणवानि । त्रिणवस्याभिचरणीयया सह तिस्रो विष्टुतयः । उक्थान्ते स्तोमविमोचनादि ।।

इति पञ्चमस्याह्नः ।।

75

अथ षष्ठस्याह्नः
ज्योतिर्यज्ञस्य(साम १०३१) असृक्षत (साम ४८२ ) पवस्वदेववीरति (साम १०३७ ) दशर्चम् । सना ( साम १०४७ )-दशर्चम् । तरत्समन्दी (साम १०५७ ) चतुर्ऋचम् । एते सोमा (साम १०६१?, साम ११७८? ) इति बहिष्पवमानम् ।।

ज्योतिर्यज्ञस्येति जगती ।।

इमं स्तोम प्रतिवां भिन्धि विश्वा यज्ञस्य हिस्थेत्याज्यानि ।।

इमं स्तोममिति जगती ।।

इन्द्रायेन्दो मरुत्वत इति गायत्रं चेषोवृधीयंक्रौञ्चंवाजिदावर्यश्च रेवत्यश्च । मृज्यमानः सुहस्त्येत्यौक्ष्णोरन्ध्रे स्वारैडं वाजजिच्च वरुणसाम चाङ्गिरसां गोष्ठं च । एतमुत्यं दशक्षिप इति गायत्रीष्विहवद्वामदेव्यम् इति माध्यंदिनः पवमानः ।।

रेवतीर्न इति वारवन्तीयं पृष्ठम् ।।

रेवतीषु वारवन्तीयं पिबत्विति पृष्ठहोमे विशेषः ।।

रेवत्यश्च वारवन्तीयं च पिबतु सोम्यं मध्वायुर्दधद्यज्ञपताविति वा ।।

तस्य गायत्री छन्दः । अजा हिंकार इति भक्त्युपासनम् । वारवन्तीयस्य स्तोत्रे धेनूः संवाशयेयुरित्यादिना पृष्ठधर्म उक्तः । पूर्ववदतिग्राह्यभक्षणम् । वामदेव्यं मैत्रावरुणसाम । सुरूपकृत्नुमूतय इति ऋषभो रैवतो ब्रह्मसाम । तस्य गायत्री छन्दः । आरम्भेण जगती ।।

उभे यदिन्द्रेति जगतीष्वरण्येगेयश्येनोऽच्छावाकसाम । परिस्वानो गिरिष्ठा इति गायत्रं चं वैदन्वतानि(आद्यं, तृतीयं, चतुर्थं) च । ससुन्वे यो वसूनां तंवःसखायो मदायेति दीर्घकार्णश्रवसे च । सोमाः पवन्त इन्दव इति गौरीवितंमधुश्चुन्निधनं च क्रौञ्चे वाड्निधनैडे । अया पवस्वेति त्रिष्टुप्सु श्नौष्टमित्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

अग्ने त्वं न इति गूर्दः । इमानुकमिति गौतमस्य भद्रम् । प्र व इन्द्रायेति उद्वंशपुत्र इत्युक्थानि ।।

तेषां द्विपदा छन्दः । अस्याह्नः सर्वाणि स्तोत्राणि त्रयस्त्रिंशानि । त्रिरेकान्त इत्यादयस्त्रयस्त्रिंशस्य पञ्च विष्टुतयः । अत्र पुनः प्रयोगपक्षे पथ्यया होतृषामाण्यपथ्याभिश्चतसृभिरभ्यस्ताभिरितराणि च विदध्यात् । उत्तमं तूक्थमुत्तमया विष्टुत्या । न तु क्रमप्राप्तयापि द्वितीयया । षष्ठस्याह्नः उक्थमुत्तममुत्तमया विष्टुत्या विदध्यादिति वचनात् । पक्षान्तरेऽप्युत्तममुक्थमुत्तमयैव न तु पथ्यया । उक्थ्यान्ते स्तोमविमोचनादि पूर्ववत् । षष्ठेऽहनि संस्थिते यावदुत्तरस्याह्नः उपाकरणं तावद्बहुभाषणं स्वाध्यायाध्ययनं च न कुर्युः । अस्मिन्न- हनि तृतीयसवने सर्पिषा भुञ्जीरन् । सर्पिषैव तृतीयसवने सत्रेष्विति वचनात् ।।

इति पृष्ठ्यः षडहः समाप्तः ।।

अथ सप्तमस्याह्नः

सत्रस्यर्द्ध्यादि ।।

प्रका(साम १११६)-प्रस्वा(साम १११९)-नवर्चम् । असृग्रं(साम ११२८) नवर्चम् । आतेदक्ष(साम ११३७) इति बहिष्पवमानम् ।।

आद्यस्य तृचस्य त्रिष्टुप् छन्दः ।।

77

मूर्द्धानम्(साम ११४०) प्रवोमित्राय(साम ११४३) इन्द्रा याहि चित्रभानो(साम ११४६)-तमीडि(साम ११४९)त्याज्यानि ।।

प्रथममाज्यं त्रैष्टुभम् ।।

वृषा पवस्व धारयेति गायत्रं च संतनिसौपर्णंरोहितकूलीयं च । पुनानः सोमधारयेति कण्वरथन्तरंगौङ्गवं च द्विनिधनं चायास्यं च । प्रो अयासीदिति जगतीषु प्रवद्भार्गवम् । इति माध्यंदिनः पवमानः ।।

बृहत्पृष्ठं बार्हतं षष्ठमबार्हतं सप्तम(तां० ब्रा० १४.३. १ ७)मिति श्रुतेः । सूक्तानुरूपान् छन्दोमान् करोती(नि०सू० ४.६ )त्यारभ्य बृहद्रथन्तरे पृष्ठे( नि० सू० ४.६) इत्यादिनिदानवचने छन्दोमानां बृहद्रथन्तरपृष्ठत्वप्रतिपादनात् छन्दोमेषु वृहद्रथन्तरयो रथघोषादि न कार्यम् । पृष्ठ्ये रथमतिवहेयुरित्यादिना नानापृष्ठ्यषडहे रथघोषादिविधानात् । अथापि बृहद्रथन्तरयोः संप्रयुक्तयोरेवेतरैः पृष्ठैः रथव्यतिवर्तनं च दुन्दुभ्या हननं च भवति । नासंप्रयुक्तयोरित्युपग्रन्थवचनाच्च ।।

स्वासु वामदेव्यम् । वयं घत्वेत्यभिनिधनं काण्वम् । नकिष्टमितीतराणि पृष्ठानि ।।

वैखानसस्य बृहती छन्दः । अभ्यासेन जगती ।।

अथार्भवः । यस्ते मदो वरेण्य इति गायत्रं तिसृषु ।

अग्नेरर्कः प्रथमायाम् । अध्यर्धेडं सोमसाम द्वितीयायाम् । मौक्षं तृतीयायाम् ।।

अथवा यस्ते मद इति गायत्रं प्रथमायाम् । मौक्षं द्वितीयायाम् । सोमसाम तृतीयायाम् । अग्नेरर्कस्तिसृषु । सप्तमेऽहनि अग्नेरर्कोऽध्यर्धेडं
च सोमसाम मौक्षस्य पूर्वयोः । मौक्षसोमसामनी गयत्रस्योत्तरयोः ।
अर्कस्तिसृषु इति वेति वचनात् ।।

एष स्य धारयासुतः-सखाय आनिषीदत-इति शार्कर - प्लवौ । पुरोजितीति गौरीवितंकार्तयशसं च । प्रवाज्यक्षा इत्यक्षरपड्क्तिषु साहविषम् । ये सोमास इति गायत्रीषु जराबोधीयमन्त्यम् ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

आ ते वत्स इति वात्सम् । त्यं न इन्द्राभरेति सौश्रवसम् । यदिन्द्रचित्रमइहनेति वीङ्कम् । इत्युक्थानि ।।

सर्वाणि स्तोत्राणि चतुर्विंशानि । अष्टाभ्यो हिंकरोतीत्येकैव विष्टुतिः । चतुर्विशस्य स्तोमविमोचनादि पूर्ववत् ।।

इति सप्तमस्याह्नः ।।

अथ अष्टमस्याह्नः

शिशुम्(साम ११७५)-एते सोमा अभि(साम ११७८)-नवर्चम् । सोमः पुनानो(साम ११८७)-नवर्चम् । सोमा असृग्रं(साम ११९६) नवर्चम् । उत्तेशुष्मा(साम १२०५)-पञ्चर्चम् । अयावीती(साम १२१०)- अपघ्नन्न(साम १२१३)- अयापवस्वधारये(साम १२१६) ति बहिष्पवमानम् ।।

आद्यस्य तृचस्य त्रिष्टुप् छन्दः ।।

अग्निं वो देवमग्निभिः सजोषा(साम १२१९ ) - मित्रं वयं हवामहे (साम ७९३ )- तमिन्द्रं वाजयामसि(साम १२२२)- इन्द्रे अग्नानमोबृहत् (साम ८०० )इत्याज्यानि ।।

होतुराज्यं त्रैष्टुभम् ।।

79

अध्वर्यो अद्रिभिः सुतमिति गायत्रं च वैरूपंआशुभार्गवं मार्गीयवंसौमित्रं चैटतंसाकमश्वंविलम्बसौपर्णं च । अभिसोमास आयव इति द्विहिंकारवामदेव्यंगायत्रपार्श्वंपौरुहन्मनंहारायणंअच्छिद्रंबार्हदुक्थं च । धर्तादिव इति जगतीषूद्वद्भार्गवम् । इति माध्यंदिनः पवमानः ।।

द्विहिंकारं वामदेव्यमाद्यायाम् । बार्हदुक्थमध्यास्यायाम् ।।

रथन्तरं च वामदेव्यं च यदिन्द्रप्रागपागुदगिति नैपातिथम् । उभयं शृणवच्चन इति वैयश्वम् । इति पृष्ठानि ।। पवस्व देव आयुषगिति गायत्रं च स्वाशिरामर्कश्च सुरूपंभासंकाक्षीवतं चासितं च । अभिद्युम्नं बृहद्यशः- प्राणाशिशुर्महीनामिति ऐषिर-त्रैते । अभीनोवाजसातममिति गौरीवितंकौत्संशुद्धाशुद्धीयंक्रौञ्चंरयिष्ठं चौदलं च । पवस्व सोम महान्त्समुद्र इत्याक्षार० पङ्क्तिषु धर्मः । हिन्वन्ति सूरमुस्रय इति गायत्रीषु विशोविशीयमित्यार्भवः पवमानः ।।

ऐषिर-त्रैते एकर्चयोः । सुरूपक्रौञ्चे वा ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

प्रेष्ठं वो अतिथिमित्यौशनम् । एन्द्र नो गधि प्रियेत्युष्णिक्षु सांवर्तम् । पुरांभिन्दुर्युवाकविरिति मारुतम् इत्युक्थानि ।।

सर्वाणि स्तोत्राणि चतुश्चत्वारिंशानि । चतुश्चत्वारिंशस्य तिस्रो विष्टुतयः । पञ्चदशभ्यो हिंकरोतीति प्रथमा । चतुर्दशभ्यो हिंकरोतीति द्वितीया । पञ्चदशभ्यो हिंकरोतीति तृतीया । तासां प्रयोगे पक्षद्वयं ब्राह्मणेनोक्तम् । आज्यानां प्रथमा विष्टुतिः ।
पृष्ठानां द्वितीया । यज्ञायज्ञीयस्योक्थानां च तृतीयेत्येकः पक्षः । सोऽयं प्रयोगः सवनसमीषन्तीत्युच्यते । अथापरः पक्षः । अस्मिन्नहनि द्वादशावर्तिस्तोत्रक्रमेण चतुरभ्यस्ताभिरेताभिस्ति- सृभिर्विष्टुतिभिर्विदध्यादिति । तदिदं दर्शितम्-याज्यानां सा होतुरि(तां० ब्रा० ३ ११. ३) त्यादिना । सोऽयं स्तोत्रसमीषन्तिसंज्ञः । अनयोश्च प्रयोगयोर्ब्राह्मणगतेनोक्थशब्देन यज्ञायज्ञीयस्यापि ग्रहणम् । योक्थानां सा होतुरिति लिङ्गात् । न हि यज्ञायज्ञीयादन्यद्धोतु- रुक्थमस्ति । उक्थानां तृतीयेति प्रयोगस्य सवनसमीषन्तीति संज्ञा- करणात् । सम्यग्व्याप्नुवन्तीति समीषन्तीत्युच्यते । उक्थान्ते स्तोमविमोचनादि ।।

इति अष्टमस्याह्नः ।।

अथ नवमस्याह्नः

अक्रान् (साम १२५३) एषदेवो (साम १२५६ ) दशर्चम् । एषधिये (साम १२६६)त्यष्टर्चम् । एष उस्य (साम १२७४) षडृचम् । एष वाजी(साम १२८०) षडृचम् । एष कविः (साम १२८६ ) षडृचम् । स सुतः (साम १२९२ ) षडृचम् । पवमानस्य ते कव (साम ६५७ ) इति बहिष्पवमानम् ।।

पवमानस्य ते कव इत्यस्य स्थाने आ ते दक्षमिति (साम ११३७ ) वा । तदुक्तम्-नवमस्य ज्योतिष्टोमः पर्यायः । साप्तमिक इत्येके(तां०ब्रा०

81

३.६. २६-२७) इति । अक्रानिति त्रिष्टुप् । अक्रान्त्समुद्रः प्रथमे विधर्मन्निति पाठविकल्पः ।।

अगन्म महा नमसा यविष्ठम्( साम १३०४ )-मित्रं हुवे पूतदक्षम् (साम ८४७ )- महाँ इन्द्र य ओजसा ( साम १३०७ ) ता हुवे ययोरिदम् ( साम ८५३ )। इत्याज्यानि ।।

होतुराज्यं त्रैष्टुभम् ।।

पवमानस्य जिघ्नत इति गायत्रं चादारसृच्च सुरूपंहरिश्रीनिधनं सैन्धुक्षितंबाभ्रवं चेडानां संक्षारऋषभश्च पवमानः । परीतोषिञ्चता सुतमिति पृष्ठं तिसृषु । कौल्मलबर्हिषं प्रथमायाम् । अर्कपुष्पं द्वितीयायाम् । दैर्घश्रवसं तृतीयायाम् । देवस्थानं तिसृषु । संकृति तिसृषु । वैयश्वं प्रथमायाम् । भर्गस्तिसृषु । आभीशवं प्रथमायाम् । यशस्तिसृषु । वासिष्ठमध्यास्यायाम् । असावि सोमो अरुषो वृषाहरिरिति जगतीषु दीर्घतमसोऽर्कः ।। इति माध्यंदिनः पवमानः ।।

तस्य बृहत्यामरण्येगेयानि । तृचेषु पृष्ठं च वासिष्ठमध्यास्यायाम् । वैयश्वं प्राक् भर्गाद् आभीशवं यशस (ला० श्रौ० ३. ६. ३०) इति वचनात् । इत्थं तृचैकर्चकरणक्रमश्च । त्रीनेकतृचे नानास्तोत्रीयास्विति वचनात् । कौल्मलबर्हिषादिभिः सामतृचः । अपि वा बार्हतेषु सामसु सप्तैवाजामिक्रमेण तृचेषु कुर्यादितरेषामध्यास्यायाश्च लोपः । तदुक्त- सप्तैव तृचेषु यैरजामीत्यपरमि(ला० श्रौ० २ .६. ३० ३१) ति दीर्घतमसोऽर्कस्य स्थाने सामराजं वा स्यात् । अस्मिन् पक्षे पृष्ठस्थाने परीतोषीति पृष्ठमेकस्याम् । सुषाव सोममिति दीर्घतमसोऽर्क एकस्याम् । अदब्ध इत्यैडं माण्डवमेकस्याम् इति सामतृचः । शेषं पूर्ववत् । तदुक्तम्--दीर्घतमसोऽर्कोऽन्त्यम् । सामराजं वा । पृप्ठस्योत्तरयोर्दीर्घतमसोऽर्को माण्डवं चैडं सामराजेऽन्त्ये(ला०श्रौ० २.६.
३२-३३) इति ।।

बृहच्च वामदेव्यंश्रायन्तीयं च यत इन्द्रेति समन्तं च ।

इति पृष्ठानि ।।

त्वं सोमासि धारयुरिति गायत्रं चाश्वसूक्तंशाम्मदंदावसुनिधनंप्रतीचीनेडं काशीतं हाविष्कृतं च । त्वं ह्यङ्गदैव्य पवस्व देववीतय इति सौपर्णंवैश्वमनसं च । परि त्यं हर्यतं हरिमिति गौरीवितंनिहवश्च यद्वाहिष्ठीयम् आसितंसाध्रं चाकूपारं च । पवस्व सोम महे दक्षायेत्यक्षरपड्क्तिषु विधर्मोऽपोषु जात- मप्तुरमिति गायत्रीषु श्रुध्यम् । इत्यार्भवः पवमानः ।।

यज्ञायज्ञीयमग्निष्टोमसाम ।।

आ घा ये अग्निमिन्धते इत्यैध्मवाहम् । य एक इदिति त्रैककुभम् । गायन्ति त्वेति उद्वंशीयम् । इत्युक्थानि ।।

83

अस्मिन्नहनि सर्वाणि स्तोत्राणि अष्टाचत्वारिंशानि। अष्टा- चत्वारिंशस्य द्वे विष्टुती । तयोरुत्तरया मैत्रावरुणस्यैवाज्यं विदध्यात् । सत्रे वेत्यादिविकल्पाः । स्तोमविमोचनादि सुब्रह्मण्या- ह्वानान्तं पूर्ववत् ।।

इति नवमस्याह्नः ।।

अथ दशमस्याह्नः

असृक्षत प्रवाजिन ( साम १०३४ )-पवमानस्य विश्ववित् ( साम ९५८ )-पवमानो अजीजनत् (साम ८८९ )- एते असृग्रमिन्दवः ( साम ८३० ) - पवस्वेदो वृषासुतो ( साम ७७८ ) - अस्यप्रत्ना (साम ७५५ ) नवर्चम् । इति बहिष्पवमानम् ।।
दशमस्य बहिष्पवमानं द्वितीयप्रभृतीनां पञ्चानामह्नामनुरूपाः । प्रथमाच्च बहिष्पवमानान्तं नवर्चम् इति वचनात् । अनुरूपेषु तृचाः प्रतिलोमाः । यथाधीतं नवर्चमिति शाण्डिल्यायनमते नेयं क्लृप्तिरुक्ता । मतान्तराणि तु सूत्र एव द्रष्टव्यानि ।।

सुषमिद्धो न आवह( साम १३४७)-यदद्य सूर उदित ( साम १३५१ ) - उ त्वा मन्दस्तु सोमा (साम १३५४ )-इन्द्राग्नी आगतं सुतम् । इत्याज्यानि ।

सुषुमिद्ध-चतुर्ऋचे मधुमन्तं तनूनपान्नाराशंसमिहप्रियमिति ऋचोरन्यतरस्या यथागोत्रमुद्धारः । तत्रोक्तम्- सुषमिद्ध इत्यत्रिवसिष्ठ-
शुनककण्वसंकृतिवाध्य्रश्वानां तानूनपातीं नाराशंसीमन्येषामि(ला० श्रौ० ६.४. १३-१४) ति । उभयेषु समवायवत्सु भूम्नोऽवसंतये(! )गृहपतेरित्येके ।।
उच्चातेजातमन्धस इति गायत्रं चामहीयवं चाजिकं चाभीकं च पुनानः सोमधारयेत्युत्सेधश्च यज्ञायज्ञीयंनिषेधश्च जागृविरिति गौरीवितम् । इति माध्यंदिनः पवमानः ।।

यज्ञायज्ञीयस्य ककुबुत्तरा बृहती छन्दः ।।

कया न इति रथंतरम् । स्वासु मैधातिथम् । उदुत्ये मधुमत्तम इत्यभीवर्तम् । स्वासु कालेयम् । इति पृष्ठानि ।।

रथंतरस्य गायत्री छन्दः । मैधातिथस्य बृहती । अथ रथन्तरे भकारैः स्तोभो नास्ति । सर्वत्रास्वस्तोत्रीयं न स्तोभेदि(ला० श्रौ० २.९.२०) ति वचनात् । अत्र सामव्यूहो निदाने दर्शितः - यज्ञायज्ञीयगौरीवितरथन्तरवामदेव्यान्येव युक्तानि सामव्यूह इत्याचक्षत (नि० सू० ४.९. १३) इति ।।

अथार्भवः । स्वादिष्ठयेति गायत्रसंहिते । पवस्वेन्द्रमच्छेति सफ-रोहितकूलीये । पर्यूष्विति श्यावाश्व - आन्धीगवे । परिप्रधन्वेति वाङ्निधनसौहविषम् । सूर्यवतीषु वाजिजिदन्त्यम् ।।

पर्यूष्विति पिपीलिकामध्यानुष्टुप् । परिप्रधन्वेत्यक्षरपङ्क्तिः । सौम्या- वेक्षणमन्त्रे पुनरस्मासु दध्मसीति पादमभ्यस्येयुः । आर्भवान्तानि सर्वाणि स्तोत्राणि चतुर्विंशानि । अग्निं नर इति वामदेव्यमग्निष्टोम- साम त्रयस्त्रिंशम् । तस्य वामदेवो विराडग्निरित्यृष्यादयः । प्राक्- स्तोमयोगाद्गावो अश्वा इत्यादि ध्यानम् । प्रावृतशिरस्कत्वपत्न्य

85

वेक्षणादयो धर्माः अस्मिन् स्तोत्रे कार्याः । न तु पवमानगते यज्ञायज्ञीये अन्यस्थानगतस्य सतो निवर्तेरन् धर्माः । यदन्यदग्निष्टोमसाम स्यात् तस्य स्युरि(ला० श्रौ० २ .१०. २ १ २२)ति वचनात् ।।

अहन्यस्मिन्नृतं कर्म व्याचक्षीरन्ननुष्टुभा ।

मन्त्रो यदा विस्मृतः स्यादनुष्टुप् छन्दसोऽधिकः ।।

तदानीं स्मारयेयुस्तमनुष्टुप्मात्रभाषणात् ।

अभ्यासानुष्टुभं कृत्वा ब्रूयुर्न्यूनस्त्वसौ यदि ।।

अथवा विस्मृतं वस्तु यथासंभवं वाचैव ब्रूयुः । नेङ्गितादिना । वागनुष्टुप् तां० ब्रा० १३.२८.४) इति हि ब्राह्मणं भवति । अग्निष्टोमसाम्रा स्तुत्वा स्तोमविमोचनाद्यप्सुषोमान्ते कृते प्राक् पत्नीसंयाजेभ्यो यदेभिः सौत्येष्वहःसु परार्ध्यं व्रजितं स्यात् तद् गत्वा प्रत्याव्रजेयुः । अशक्तौ मनसैव गमनागमनं च कुर्युः । हुतेषु पत्नीसंयाजेषूद्गाता शालामुखीये जुहुयात् । उपसृज धरुणमिति दीधरत् स्वाहेत्यन्तेन पूर्वामाहुतिम् । स्वाहेत्युत्तराम् । अथोत्तरवेदि- कमग्निं गत्वा तस्य पश्चात् प्राङ्मुखः स्थित्वा अयं सहोहा इति त्रिर्गायेत् । प्रजापतिरतिजगतीन्द्रः । गौरिति निधनम् । प्रस्तोतृप्रतिहर्तारावनूपेयाताम् । अभिदक्षिणमावृत्य पूर्वया द्वारा सदः प्रविश्यासीरन् । अध्वर्युणोपाकृते मानसस्तोत्रे आयं गौरिति तृचे
गायत्रं निरुक्तम् । त्रिकः स्तोमः पृथक् स्तोत्रीयाभ्यो हिङ्कृत्य मनसा स्तुवीरन् । स्तोमयोगयजमानवाचनकुशाविधानानि स्युः प्रतिहारवेलायां प्रतिहर्ता पान्यात् उत्तमां प्रस्तुत्यैषेति स्मरन् होतारमीक्षेत । अस्मिन् स्तोत्रे समीक्षणेन परस्परं ज्ञापयन्तः सर्वं मनसा कुर्युः । यदाध्वर्युर्भक्षणं प्रयच्छन् मन्येत ततो मनसोपहूय कस्त्वा कं भक्षयामीति तं भक्षयेयुः । अवेक्षणाद्याप्यायनवर्जम् । अथ तत्सवितुर्वरेण्यमित्याप्यायस्वेति वा गायत्रीं ब्रूयु । इन्द्रं ब्रह्मोद्यवदनम् ।।

अथ प्रजापतिं परिवदन्ति । अकुशलो वायं प्रजापतिर्यो दंशमशकान् संसृज्येद्यः स्तेनानिति । प्रजापतिपरिवादः (आप० श्रौ० २१. १२.१) आपस्तम्बेनोक्तः एताभ्यां वेलायामभीष्टान् वरान् मनसा वृणीरन् । उत्तरत उद्गातौदुम्बरी गृह्णीयात् । पश्चात् प्रतिहर्ता । दक्षिणतो ब्रह्मा । पुरस्तादितरे सर्वे गृह्णीयुः । अथ जपेयुः । इह धृतिरिह रमध्वमित्यन्तम् । वाग्यताः सदसः पूर्वापरे द्वारे अपिधायासीरन् । आनक्षत्रप्रवचनात् उदितानि नक्षत्राणीति प्रोक्ते पूर्वया द्वारोपनिष्क्रम्य सुब्रह्मण्याप्रणवैर्वाचं विसृजेरन् । इदमहरत्यग्निष्टोमम् । मानसस्तोत्रेणाग्निष्टोममतीत्य वर्तमानत्वात् । अग्निष्टोमावभित इति वाङ्मात्रम् । यथा गवामयनेऽतिरात्रस्योक्थत्ववादः यदुक्थ्यो यज्ञक्रतोरनन्तरायेति ।।
अथोदयनीयातिरात्रः । तस्य सत्रस्यर्द्ध्यादि पूर्ववत् । स च प्रायणीयातिरत्रवत् कार्यः । तत्राहरन्तिकीं सुब्रह्मण्यां न कुर्यात् । तस्या उत्तरार्थत्वात् । स्तोमविमोचानाद्युदवसनीयान्ते कृते पृथगग्नीन् समारोप्य पृथगन्यान् ऋत्विजो वृत्वा पृथक्पृष्ठ

87

शमनीयैर्यजेरन् । ज्योतिष्टोमोऽग्निष्टोमः सहस्रदक्षिणः । पृष्ठशमनीयः । धूर्ज्योतिर्विश्वरूपा न सन्ति । शेषं प्रकृतिवत् ।

इति सत्रात्मा व्यूढो द्वादशाहः समाप्तः ।।

अहीनात्मा द्वादशाहः

अहीनात्मा सोऽस्तीत्युक्तम् ।। तथा च सूत्रम्-द्वादशाहः- प्रभृतीनि सत्राणि । तेन यजेताप्यहीनभूतेन (ला० श्रौ० १० १. ११-१२) इति । निदानं च- अथ द्वादशाहोऽहीनो भवतीति । सत्र- (नि- सू० ९. ९.१ )मित्युपक्रम्य उभयं भवतीति लामकायनः (नि० सू० ९. ९. २६) इत्यादि । तत्र ब्रह्मणोक्तमेव द्वादशाहमधि- कृत्य प्रकारद्वयकथनात् अहीनद्वादशाहेऽपि स्तोत्रस्तोमक्लृप्तौ न कश्चिद्विकार इति गम्यते । ततश्च तस्यापि गौरीवितमेव स्वरो रात्रिश्च नाहीनिकीत्याचार्याः । अस्माभिस्तु तस्याहीनत्वप्रयुक्तं नाना- स्वरत्वं युक्तमित्यासीतप्रसङ्गे प्रतिहारव्याख्याने प्रतिपादितम् । तत्र रात्रिरप्याहीनिकी स्यात् । स तु विकृतोऽहीनद्वादशाह उपरिष्टात् वक्ष्यते । इदानीं त्वविकृतः । तेनैकः षट् त्रयो द्वादश त्रयोदश चतुर्दश वा यजेरन् । यजमानव्यतिरिक्ता एवर्त्विजः । अस्यापि दीक्षोपसत्सुत्यादिवसाः पूर्ववत् । द्वादश दीक्षा द्वादशोपसदो द्वादश प्रसुत (तां० ब्रा० १०.३.९) इति अविशेषेण श्रवणात् । सुब्रह्मण्यायां द्वादशाहे सुत्यामित्यादि पूर्ववत् । अग्नीषोमीय- प्रभृत्यहीनेषु सर्वाः सुब्रह्मण्याः सनामग्रहाः । सुत्यास्वग्नीध्रीयेऽहर० हर्यज्ञसारथिविश्वरूपाज्योतींषि च निवर्तन्ते । प्रातरनुक्रमणवेलायामद्य- सुत्याप्रवचनीं सुब्रह्मण्यामाह्वयेत् । अहरन्ते श्वःसुत्याप्रवचनीम् । प्रायणीयातिरात्रान्ते विकल्पेनाह्वानम् । सुब्रह्मण्यायाः उदयनीयाति- रात्रान्ते त्वनाह्वानमेव । सर्वेषामह्नां पथ्या एव विष्टुतयः । अन्यत्र सदसि बहिष्पवमानैः स्तवनम् । अहीनबहिष्पवमानैः सदसि स्तुवीरन् प्रथमादह्नोऽन्यत्रे(ला० श्रौ० २.२. १)ति वचनात् । प्राक् धिष्ण्य- विहरणान्निष्क्रम्य तृणप्रासनप्रभृति समापयेयुः । रेतस्यारथन्तरवर्णे सर्वत्र कार्ये । न धुरो गेया । दधिभक्षणान्तानि सर्वाण्यहानि । दधिभक्षणान्तमहीनेष्वि(ला० श्रौ० २. २२. १५)ति वचनात् । षष्ठेऽह्नि संस्थिते सप्तमस्याह्न उपाकरणात्पूर्वं न बहुवादिनः स्युः न चाधीयीरन् । सर्पिर्मधुभ्याम् ऋत्विजो भोजयेत् । अन्यतरेण वा । (ला० श्रौ० ३. ६.७ ९) सर्वस्तोत्रधर्मा दशमेऽहनि अस्मिन् विस्मृतं कर्मेत्यादिना धर्मा उक्ताः । मानसं च पूर्ववदेव । तत्र वरवरण- वाग्यमने यजमान एव कुर्यात्, इतरे प्रजापतिवादान्तं कृत्वा यथार्थं स्युरिति विशेषः । उदयनीयेऽतिरात्रे संस्थितेऽवभृथाद्युदवसनीयान्तम् ।
अङ्गदक्षिणानां प्रधानदक्षिणानां च यथायथं प्रवृत्तिः । अन्यत् सर्वं ज्योतिष्टोमवत् । अस्यानेकयजमानत्वपक्षे सुब्रह्मण्यायां दीक्षितानां नामग्रहः याजमानानि च यजमानशब्दस्य यथार्थमूहाश्च पूर्ववदेवेति सिद्धम् ।।

इत्थं वरदराजेन वामनार्यस्य सूनुना ।

सत्राहीनात्मको व्यूढो द्वादशाहः प्रदर्शितः ।। १ ।।

समूढोऽपि द्विधा सोऽयं सत्राहीनत्वभेदतः ।

आर्षेयकल्पविवृतौ स्वस्थाने दर्शयिष्यते ।। २ ।।

अहीनात्मा द्वादशाहः समाप्तः ।।


  1. ऐ.ब्रा. १.२४
  2. https://sa.wikisource.org/s/3kf, जै.ब्रा. ३.२०