सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/भरद्वाजस्य पृश्नि

विकिस्रोतः तः
भरद्वाजस्य पृश्नि.
भरद्वाजस्य पृश्नि.

१५
यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ॥ ९३३ ॥ ऋ. ८.७०.१
इन्द्रं तं शुम्भ्य पुरुहन्मन्नवसे यस्य द्विता विधर्त्तरि ।
हस्तेन वज्रः प्रति धायि दर्शतो महां देवो न सूर्यः ॥ ९३४ ॥


१४. भरद्वाजस्य पृश्नि ।। भरद्वाजः । बृहती । इन्द्रः ।

योराजाऽ२३चर्षणीनाꣳहाउ ।। यातारथेभिरध्रिगुः । विश्वासाऽ१ न्ताऽ२३ । होवाऽ३हाइ । रुता । पृतानाऽ१नाऽ२३म् । होवाऽ३हाइ ।। ज्येष्ठांयोऽ१वाऽ२३ । होवाऽ३हा ।। त्राहागृणे । इडाऽ२३ ।। श्रीः ।।
ज्येष्ठांयोऽ२३वृत्रहागृणेहाउ ।। ज्येष्ठंयोवृत्रहागृणे । इन्द्रान्ताऽ१ꣳशूऽ२३ । होवाऽ३हा । भपुरुह । न्मन्नावाऽ१साऽ२३इ । होवाऽ३हाइ ।। यस्याद्वाऽ१इताऽ२३ । होवाऽ३हाइ ।। वाइधर्तरि । इडाऽ२३ ।। श्रीः ।। यस्यद्वीऽ२३ताविधर्तरिहाउ ।। यस्यद्विताविधर्तरि । हस्ताइनाऽ१वाऽ२३ । होवाऽ३हा । ज्रःप्रतिधा । यिदार्शाऽ१ताऽ२३ः । होवाऽ३हाइ ।। महान्दाऽ१इवाऽ२३ः । होवाऽ३हाइ ।। नासूरियः । इडाऽ२३भाऽ३४३ । ओऽ२३४५इ ।।डा।।
दी. २१ उत् ५. मा. २० ङौ. ।।७४।।



[सम्पाद्यताम्]

टिप्पणी

चतुर्थे अहनि पृष्ठस्तोत्रम् --यो राजा चर्षणीनामिति। राज्ये ह्येतर्हि वाचोऽगच्छन् राज्यमेवैतया यजमानं गमयन्ति - तां.ब्रा. १२.१०.४

यो राजा चर्षणीनाम् इति राज्यम् इव ह्य् एतर्ह्य् अगच्छन्। याता रथेभिर् अध्रिगुः। विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे॥ इति ज्यैष्ठयम् इव ह्य् एतर्ह्य् अगच्छन्। इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि। हस्तेन वज्रः प्रति धायि दर्शतो महान् देवो न सूर्यः॥ इति सूर्यवतीर् भवन्ति। सौर्यं ह्य् एतद् अहर् एकविंशम्। प्रतिष्ठा वैराजम्। तासु पृश्नि। वाग् वै पृश्नि। वाचम् एतेनाह्ना समिच्छन्ति। ताम् एवैतत् संविदन्ति। तद् व् एवाचक्षते भरद्वाजस्य पृश्नीति। भरद्वाजो वा अकामयत बहुः प्रजया पशुभिः प्रजायत। सो ऽब्रवीत् पृश्निर् वै बहुः प्रजया पशुभिः प्राजनिषीति। तत् पृश्निनः पृश्नित्वम्। तद् एतत् प्रजननं साम। बहुः प्रजया पशुभिः प्रजायते य एवं वेद। अथो ह स्मैतेनैव साम्ना भरद्वाजः पृश्न्य् अन्नाद्यम् अवरुन्द्धे। तद् व् अन्नाद्यस्यावरुद्धिस् साम। अवान्नाद्यं रुन्द्धे, ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् उ भरद्वाजो ऽपश्यत् तस्माद् भरद्वाजस्य पृश्नीत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥जैब्रा ३.७५