सामवेदः/कौथुमीया/संहिता/ऊहगानम्/संवत्सरपर्व/विंशः ८/अध्यर्द्धेडꣲसोमसाम

विकिस्रोतः तः
अध्यर्द्धेडं सोमसाम.
अध्यर्द्धेडं सोमसाम.

यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।
देवावीरघशंसहा ।। ८१५ ।। ऋ. ९.६१.१९
जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे ।
गोषातिरश्वसा असि ।। ८१६ ।।
सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि ।
सीदं च्छ्येनो न योनिमा ।। ८१७ ।।

[सम्पाद्यताम्]

टिप्पणी

अथ सोमसाम। प्रजननं वै सोमः। प्रजननम् एतद् अहः। प्रजनन एवैतत् प्रजननं क्रियते। अथो क्षत्रं वै सोमः। क्षत्रिय उ वा अन्नाद्यस्य प्रदाता। स यो ऽन्नाद्यस्य प्रदाता स नो ऽन्नाद्यं प्रयच्छाद् इति। तद् अध्यर्धेळं भवति - पशवो वा इळा। पशवश् छन्दोमा - अभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै॥जैब्रा. ३.१९१