सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/नार्मेधम्

विकिस्रोतः तः
नार्मेधम्
नार्मेधम्

अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे ।
उदेव ग्मन्त उदभिः ॥ ७१० ॥ ऋ. ८.९८.७
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।
ववृध्वांसं चिदद्रिवो दिवेदिवे ॥ ७११ ॥
युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा ।
इन्द्रवाहा स्वर्विदा ॥ ७१२ ॥



१७. नार्मेधम् ।। नृमेधः । ककुबुष्णिक्पुरउष्णिहः। इन्द्रः।
अधाहीन्द्रगिर्वणाऽ३६ए॥ उपात्वाऽ३का । मईऽ२माऽ२३४हाइ ॥ ससृग्माहा । औहोहोऽ२३४वा ॥ ऊ२३४देहाइ ॥ वग्मान्ताऊ ॥ औहोहोऽ२३४वा ॥ दाऽ२३४भीः। एहियाऽ६हा ॥ श्रीः ॥ वार्णत्वायव्याभीऽ३रे ॥ वर्धान्तीऽ३शू । रब्राऽ२ह्माऽ२३४णी । वावॄद्ध्वाꣳसा। औहौहोऽ२३४वा ॥ चाऽ२३४इदहाइ ॥ द्रिवोदाइवा । औहौहोऽ२३४वा ॥ दाऽ२३४इवाइ । एहियाऽ६हा ॥ श्रीः ॥ युञ्जन्तिहरीइषिराऽ३ए ॥ स्य । गा। थ। या। उरौराऽ३थाइ। उरूऽ२यूऽ२३४गाइ ॥ वचोयूजा । आहौहोऽ२३४वा ॥ आऽ२३४इन्द्रहाइ ॥ वाहासूवा । औहौहोऽ२३४वा ॥ वाऽ२३४इदा । एहियाऽ६हा । होऽ५इ ॥ डा ॥
दी. २४. उत् . ९. मा. २९. धो. ॥१७॥

[सम्पाद्यताम्]

टिप्पणी

नृमेधसमाङ्गिरसं सत्त्रमासीनं श्वभिरभ्याह्वयन् सोऽग्निमुपाधावत् पाहि नो अग्न एकयेति तंव्वैश्वानरः पर्युदतिष्ठत् ततो वै स प्रत्यतिष्ठत् ततो गातुमविन्दत। गातुविद्वा एतत् साम विन्दते गातुं प्रतितिष्ठत्येतेन तुष्टुवानः। नैव ह्येतदह्नो रूपं न रात्रेर्यदुक्थानाम्। ककुप्प्रथमाथोष्णिगथ पुरौष्णिगनुष्टुप्तेनानुष्टुभो नयन्त्यच्छावाकसाम्नः - तांब्रा. ८.८

नार्मेधेनातिरात्रे ऽच्छावाकाय स्तुवन्ति। इळया रात्रिम् अभिसंतन्वन्ति। तद् आहुर् यन्ति वा एते ऽनुष्टुभो य उष्णिक्ष्व् अच्छावाकसाम कुर्वन्तीति। अर्वाग् उष्णिहश् च खलु वा एतासाम् एका मध्य उष्णिग् एकापर उष्णिग् एका। नवधृतं छन्दो नवधृतं वाक् वदति। वाग् अनुष्टुप्। तेनानुष्टुभो न यन्ति। यैतासाम् उत्तमा सा प्रत्यक्षानुष्टुप्। तेनो वावानुष्टुभो न यन्ति। यथा ह वा इदं मधुकृतः पुष्पाणां रसान् संभरन्त्य् एवं ह वा एता देवताश् छन्दसां रसान् समभरन्। छन्दसां हास्य रसेन स्तुतं भवति य एवं वेद॥ अहोरात्रयोर् ह खलु वा एतद् रूपं साम। ऐन्द्राग्नेयं तत् साम। ऐन्द्रम् अहर् आग्नेयी रात्रिः। यो ह वा एतस्मात् साम्नो ऽतिरात्र इयाद् अहोरात्रयोर् ह वै स् रूपेण विवृह्येत। स य एनं तत्र ब्रूयाद् अहोरात्रयोर् एनं रूपेण व्यवृक्षद् इति तथा हैव स्यात्। तस्माद् उ हैतस्मात् साम्ना ऽतिरात्रे नैतव्यम्॥ - जैब्रा. १.१८८